________________
सटीक जंबूद्वीपसङ्ग्रहणी
wwwwwwmmmmm
दुःषमाभिधः पश्चामारकः एकविंशतिवर्षसहस्रीमानः । तत्र सप्तहस्त देहोच्यं, त्रिंशदधिकैकशतवर्षमायुर्नराणाम् । एतदारकप्रान्ते च पूर्वाह्न श्रुतसूरिमधर्माणामुच्छेदो भविष्यति । मध्याह्ने राजधर्मराजामात्यादीनां अपराह्ने च व्यवहाराचारनीतितत्तिप्रभृतीनामिति तथा चोक्तं पूर्वर्षिभिः
wwwwwwwwww
"सुयसूरि संघधम्मो पुत्रहे विज्जहिं अगणि सायं । विमलवाहणो सुहुममंती तद्धम्ममज्झहे ॥ १ ॥ दुपही समणाणं फग्गुमिरी होइ साहुणीणं च । सहूढो नाइलनामा सच्चसिरी सावियाणं च ॥ २ ॥ पूव्वण्हे संजए विच्छेओ होइ चरणधम्मस्स । मज्जण्हे रायाणं अवरण्हे जइतेयस्स ॥ ३ ॥
Jain Education International
ततो यज्जायते तद्भव्यबोधार्थे षष्ठारक स्वरूपमपि किञ्चिदुच्यते । तथाहि लवणादिक्षाराग्निकालकूट। दिविषाणां वृष्टिर्भविष्यति । तेन पृथ्वी हाहाकारं करिष्यति । तथा पक्षिणां बीजानि वताढ्यमुखगिरिषु स्थास्यन्ति । मनुष्यतिर्यग्बीजानि द्विसप्ततिसख्येषु बिलेषु स्थास्यन्ति । भरते दिसप्ततिङ्ख्यानि बिलान्येवं दक्षिणार्धभरते गङ्गासिन्ध्वोर्द्वे द्वे कूले प्राचीप्रतीच्योः प्रत्येकं वेदितव्ये । ततश्चत्वारि कूलानि । एवमुत्तरार्धभरतेऽपि तथा चाष्टौ कलानि । तत्र प्रत्येकं कूले नव नव बिलानि तथा च द्विसप्ततिबिलानि भवन्ति । एवमैरवत्क्षेत्रे ऽपि वेद्यं स्वरूपम् । षष्ठरको दुःषमदुः षमानामा एकविंशतिवर्षसहस्रीमानः । तत्र एकहस्तोच्च देहः, विंशतिवर्षायुर्नराणां, मनुष्या मत्स्याहारकाः, कुरूपिणो निर्दयपरिणामिनः, बिलवासिनः नारकतिर्यगादिदुर्गतिमन्तः निर्हीका निष्ठुरभाषिणः पशुवन्नग्नाटाः तिर्यग्वत् पितापुत्रादिव्यवहाररहितत्वाद्विवेक विकलाः वार्षिका नारी गर्भमाधास्यति । अतिकष्टं च प्रसूते । प्रभूतबालाश्च ता अबला भविष्यन्ति । इति षष्ठारकस्वरूपम् ।
४७
इदमवसर्पिणीस्वरूपम् । तद्विपरीतं चोत्सर्पिणीस्वरूपम् । तथाहि षष्ठारकवत्प्रथमः । एवं पञ्चमवद्वितीयः । षष्ठारक व दुसर्पिण्ये कविंशतिसहस्र वर्षमानप्रथमार कव्यतिक्रान्ते द्वितीयारका दौ सकल सत्त्वाभ्युदयार्थमिमे पचमहामेघा जायन्ते । तथाहि पुष्कलसंवर्तकः १ क्षीरोदः २ वृतोदः ३ अमृतोदः ४ रसोदश्चेति ५ । तत्र पुष्कलसंवर्त्तको नाम भरतैरवतो: पुष्कलान् प्रचुरानशुभानुभावान् भूमिरुक्षतादाहादीन् स्ववारिणा संवर्त्तयति नाशयतीत्यर्थः । शेषाः स्पष्टाः ।
एवं क्रमेण यावत् प्रथमारकवत् षष्ठ इति द्वादशारकस्वरूपम् ।
For Private & Personal Use Only
www.jainelibrary.org