________________
सटीकजंबूद्वीपसड्ग्रहणी
अथ तृतीयारकमान्ते च नवकुलकर-राजनीति-सर्वसंसृतिव्यवहृ त-जिनधर्म- बादराग्निका य-ज्ञानविज्ञानादोनि प्रकटाभवन्ति । त्रिवर्षसार्धाष्टमा से सावशेषे तृतीयारके प्रथमस्तीर्थकृत्सेत्स्यति । ताबद्वर्षशेषे चातुर्थारके चतुर्विशतितमोऽर्हन् सेत्स्यति । इदमवसर्पिण्यां विज्ञेयं । उत्सर्पिण्यान्तु तावत्येव 'तृतीयचतुर्थारके गते पश्चिमाप श्चमतीर्थकरो जायेते । उत्पपिण्यवमपिण्योरयं विशेषः यदुत उन्सर्पन्ते समये समये वृद्धिमुपयान्ति रूपरमायुर्बलमेधाशरीरादयो यस्यां दशकोटाकोटीसागरवा सोत्सर्पिणी । असर्पिणी नाम-अपसर्पन्ते हासमुपयोन्ति त एव यस्यां दशकोटाकोटासागरवा सावसर्पिणी । उभयोर्मीलने विंशतिकोटाकोटीसागरवर्षमानं कालचक्रं भवति । चतुर्थदुःषमासुषमाभिख्यः द्विचत्वारिंशद्वर्षसहस्रयूनैककोटाकोटिसागरमानः। पूर्वकोटिवर्षी नगयुः, पञ्चशतं धनंगि देहौव्यं । अयं च सर्वदा तीर्थ करसद्भावः । तथाहि-पूर्वविदेहवनखण्डान्तकस्थाष्टमनवमविजययोः पुण्डरिकियां सुसोमायां च पुर्या यथाक्रमं मीमन्धर बाहुनामानौ द्वावर्हन्तौ । एवं पश्चिम वदेहवनखण्डान्तिकस्थचतुर्विशक्तिमपञ्चविंशतितमविजययोः अयोध्यायां विजयायाञ्च नगर्या यथाक्रमं सुबाहुयुगमन्धरनामानौ द्वौ तीर्थकरी साम्प्रतं विचरतः । ते च तीर्थकृतः कुन्थ्वरनाथयोरन्तराले एकस्मिन्नेव समये जाताः। मुनिसुव्रतनमिनाथयोग्न्तराले प्रवजितः । एकवर्षसहस्रों यावच्छद्मस्थामनुभूय समकमेव केवलज्ञानमवाप्नुवंश्च । आगामियां चतुर्विंशतिकायां सप्तमाष्टमनीर्थकृतोरन्तराले समकमेव सेत्स्यन्ति । सर्वेषां प्रत्येकं पञ्चशतधनुर्देहमानं चतुरशीतिलझपूर्वमायुः चतुरशी ते मङ्खया गणभृतां, दशलक्ष मङ्ख्या केवलिनां, शतकोटि सङख्या मुनीनां, ताता च साधानां भव'त । अत्र विदेहे एकस्मिन् विजये सर्वदा द्रव्यभावतीर्थकृतः सम्माल्य चतुरशीति सङ्ख्या भवति । तथाहि एकस्तावत् केवली, अन्ये च कश्चिद्राजा, कश्चिद्युबराजा कश्चिद् बालक इति । अथ यदा केवली सिद्धमाप्नोति तदा यशतितमः तवलं सम्पद्यते । एकश्च न्या जातिमवाप्नोति । नन्वेकस्मिन् क्षेत्रेऽन्यस्तीर्थकरो वासुदेवश्चक्रवर्ती बलदेवो न सम्भवति तत्कथमियमुच्यते तीर्थकृतां चतुरशीतिसङ्ख्या इति चेत् । सत्यं, अत्र वृद्धसम्प्रदायः एतेषां विजयानां शाश्वतो भाव एवमेव नान्यथा' । किञ्च निश्चयव्यवहारनयद्रव्यभाव दिभेदाभ्युपगमवता न कापि क्षतिः । तथाहि निश्चय नयतस्तु भावितीर्थ करा अपि तीर्थकृत्त्वेन व्यप देश्यन्ते । व्यवहारनयतश्च समवसरणादिप्रातिहार्यसाम्राज्यभाज एव तीर्थकृत्त्वेन व्यपदिश्यते । एवं द्रव्यतस्तु तार्थकृज्जीवाः भूतभाविवर्तमानाः सर्व एव तार्थकृत्त्वेनाभिधीयन्ते भावतस्तु "कि किल्लि कुसुम्वुडूढो देवझूणी चामरासणाई च भावलय भेरिछत्तं जयति जिणपाडिहेराइं ॥" तथा चतुस्त्रिंशदतिशय(सहिताः) । तत्त्वं पुनः केवलिनो विदन्ति एवमेव धात काखण्डे पुष्कराधे च तार्थकृत्सङख्यास्वरूपं द्विगुणं वेदितव्यम् ।
॥ इति चतुर्थार कस्वरूपम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org