SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३६ सटीकजंबूद्वीपरब्रहणी स्थापना अनन्ता परमाणु = १ बादर परमाणु ८ बादर परमाणु = १ त्रसरेणु ८ त्रसरेणु = १ रथरेणु ८ रथरेणु = १ वालाग्र ८ वालाग्र = १ लिक्षा ८ लिक्षा = १ यूका ८ यूका = १ यव ८ यव = १ अङ्गुल ६ अङ्गुल = १ पाद २ पाद = १ वितस्ति २ वितस्ति = १ हस्त २ हस्त = १ कुक्षि २ कुक्षि = १ धनुः २००० धनुष = १ कोश ४ कोश = १ योजन अथ गाथापश्चार्घ - विक्खंभपायगुणिओ परिओ तस्स गणियपयं ॥७॥ विखंभपायगुणिओत्ति विष्कम्भस्य विस्तारस्य पादः चतुर्थो भागस्तेन गुणितः सन् परिरओत्ति परिरयः परिक्षेपो तस्सत्ति तस्य विष्कम्भस्य गणितपयंति गणितपदम् वृत्तक्षेत्रस्य समचतुरस्रैकयोजनमितखण्डाः भवन्तीति क्रियाशेष इतिपदगमनिका । अयमर्थः । परिधिसडख्या विस्तारचतुर्थभागेन गुणिता गणितपदं भवति । यथा प्रायः पञ्चविंशत्यङ्गुलस्य (२५) परिधेरष्टाङ्गुलस्य विष्कम्भस्य चतुर्थो भागो द्वेऽङ्गुले ताभ्यां गुणिता परिधिः पञ्चाशदङ्गुलमानं (५०) गणितपदं भवति । एवमिहापि इह तावज्जंबूपरिधिस्त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतिर्योजनानि (३१६२२७) त्रयः कोशाः (३) अष्टाविंशत्युत्तरैकशतं (१२७) धनूंषि साधत्रयोदशाङ्गुलानि किश्चिदधिकानि, तस्या योजनानि जंबूद्वीपविष्कम्भस्य लक्षयोजनस्य चतुर्थो भागः पञ्चविंशतिसहस्राणि (२५०००)। तेन चतुर्थभागेन गुणितानि सप्तशतनवतिकोटिपादोनसप्तपञ्चाशल्लक्षाणि (७९०५६७५०००) योजनानां जायन्ते । सा सख्या एकत्र स्थाण्या । त्रयः कोशाः पञ्चविंशतिसहस्रया गुणिता पञ्चसप्ततिसहस्री (७५०००) चतुर्भिविभक्ता सप्तशतपञ्चाशदुत्तराष्टादशसहस्री (१८७५०) योजनानां । सा पूर्वोक्तयोजनैः सह स्थाप्या । अथ चाष्टाविंशत्युत्तरैकशतसङ्ख्याकानि (१२८) धनूर्षि परिधिसत्कानि विष्कम्भपादसत्कया पञ्चविंशतिसहस्रया (२५०००) गुणितानि द्वात्रिंशल्लक्षाणि (३२,००,०००) धनुषां जायन्ते । अष्टसहस्रधनुर्भिश्च योजनमेकं जायतेऽतः तावद्भिः पूर्वसङ्ख्या भक्ता सती चतु:शतं (४००) योजनानां । साऽपि पूर्वसङ्ख्यया सह स्थाप्या। अथ च परिधिसत्कानि सार्घत्रयोदशाङ्गुलानि पश्चविंशतिसहस्रया (२५०००) गुणितानि त्रिलक्षसाघसप्तत्रिंशत्सहस्रसडख्याङ्गुलानां भवति । तेषामङ्गुलानां धनुःकरणार्थं षण्णवत्या (९६) भागं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy