________________
सटीकजंबूद्वीपसमहणी
३५
गुणीकृता एककोटिएकोननवतिलक्षाष्टसप्ततिसहस्राष्टशतषट्सप्ततिसख्या (१८९७८८७६) व्यावहारिकपरमाणुकृत एकशतचत्तुःसप्ततिभागानां जायते । सा वर्गमूलाङ्केन शोधयेत् । तदा वर्गमूलाङ्के त्रिंशद्गुणीकृते एककोटिएकोननवतिलक्षाः सप्त तेसहस्रषट्शतविंशति (१८९७३६२०) सङ्ख्या जायते । तावती च पूर्वस्मादङ्कादापिता सती द्विपञ्चाशच्छतषड्पञ्चाशत्सडख्या (५२५६) शिष्यते। वर्गमूलाङ्केन सहाथ बादरपरमाणोरेकशतचतुःसप्तति (१७४) भागाः क्रियन्ते तावन्तः त्रिंश
द्भागा: स्थाप्याः । अथ शिष्टाङ्कः षड्लक्षद्वात्रिंशत्सहस्रचतु:शतचतुष्पञ्चाशत्सडख्यया (६३२४५४) गुणितः त्रिशतद्वात्रिंशत्कोटयकचत्वारिंशल्लक्षाष्टसप्ततिसहस्रद्विशतचतुर्विशतिसडख्यामितो (३३२४१ ७८२२४) जायते। सा च सडख्या वर्गमूलाङ्केन शोधयेत् तथाहि वर्गमूलाङ्कः द्विपञ्चाशच्छतषट्पञ्चाशत्सङ्ख्या गुणितस्तावानेव (३३२४१७८२२४) जायते । सोऽङ्कश्च पूर्वस्याः सख्याया हापितः न कापि शेषा वर्धते । वर्गाङ्कन सहाथ एकैकस्य बादरपरमाणोरेकशतचतुःसप्ततिभागकरणे योऽङ्क आगतस्स वर्गाङ्केन भग्ने यः शिष्ट सोऽप्यङ्कः प्रत्येकं षडलक्षद्वात्रिंशत्सहस्रचतुष्पञ्चाशद्गुणितः यादृशः खण्डोऽधिगच्छति तादृशा द्विपञ्चाशच्छतषट्पञ्चाशत्खण्डाः स्थायाः । सर्वेषां मीलने वर्गमूलसडख्या त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतियोजनानि ३,१६,२२७ त्रयः कोशा: ३ अष्टाविंशत्युत्तरशतं धनूंषि १२८ सार्धत्रयोदशाङ्गुलानि १३॥ एको यवः १ एका यूका १ एको लिक्षः १ षट्वालाग्राणि ६ सप्तत्रसरेणवः ७ पञ्चबादराणवः ५ एकबादराणोरेकशतचतुःसप्ततिः खण्डा: क्रियन्ते तावन्तः त्रिंशत्खण्डाः ३० तथा सप्तत्युत्तरै कशतखण्डेषु प्रत्येकस्य षटलक्षद्वात्रिंशत्सहस्रचतुःशतचतुष्पञ्चाशद्भागा: क्रियन्ते तावन्तः पञ्चसहस्रद्विशतषट्पश्चाशत्खण्डा: (५२५६) एतावान् जम्बूद्वीपरिधिः । तथा चोक्तं लोकप्रकाशे पञ्चदशसर्गे विनयविजयो
पाध्यायै :
" परितः परिधिस्त्वस्य श्रूयतां यः श्रुते श्रुतः । लक्षत्रय योजनानां सहस्राणि च षोडश ॥ क्रोशास्त्रयस्तदधिकमष्टाविंशं धनुःशतं ।
त्रयोदशाङ्गुलाः सार्धा यवाः पञ्चैकयूकिका ॥". अत्र प्रसङ्गागतं गणितकोष्टकं लिख्यते बालबोधार्थम् । अनन्तैः सूक्ष्माणुभिरेको बादराणुरष्टभिर्बादराणुभिरेकस्त्रसरेणुरष्टभिस्त्रसरेणुभिरेको रथरेणुरष्टभी रथरेणुभिरेको वालाग्रं अष्टभिर्वालागैरेको लिक्षः, अष्टभिर्लिभैरेका यूका, अष्टभियूकाभिरेको यवः, अष्टभिर्यवैरेकमङ्गुलं, षट्भिरङ्गुलैरेकः
पादः, द्वाभ्यां पादाभ्यां वितस्तिः, द्वाभ्यां विस्तिभ्यामेको हस्तः, द्वाभ्यां हस्ताभ्यां एका . कुक्षिः, द्वाभ्यां कुक्षिभ्यामेकं धनुः, द्विसहस्वनुभिरेकः क्रोशश्चतुर्भिः कोशैरेकं योजनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org