________________
....... सटीकजंबूद्वीपसङ्ग्रहणी
यूकाः कार्या । तथाहि अष्टभिर्भूकाभिरेको यवो जायते । तथा च शिष्टयवसङ्ख्याष्टगुणीकृता सप्तलक्षैकसप्ततिसहस्रनवशतचतुरशीतियूकानां (७७१९८४) जायन्ते । ता वर्गमूलाङ्केन भञ्जयेत् तदा एकायूका भागमायाति । ततः तावत्सङ्ख्या यूकाभ्य हापिता सती एकलौकानचत्वारिंशत्सहस्रपञ्चशतत्रिंशद्यकानां शिष्टा सङ्ख्या (१३०५३०) जायते। वर्गाङ्कन सह एका यूका स्थाप्या, अथ शिष्टयूकानां लिक्षाः कार्याः । तथाहि अष्टाभिलिंक्षरेका यूका जायते । तथा च शिष्टा स्थाप्या यूकसङ्ख्याष्टागुणीकृता, एकादशलक्षषोडशसहस्रद्विशतचत्वारिंशत्सङ्ख्या (१११६२४०) लिक्षाणां जायते । सा वर्गमूलाङ्केन शोघयेत् तदा एका लिक्षभागमायाति । ततः वर्गमूलाङ्कसङ्ख्या लिक्षसङ्ख्यातो हापिता सती चतुर्लक्षत्र्यशीतिसहस्रसप्तशतषडशीतिसङ्ख्या (४८३७८६) लिक्षाणां शिष्यते । वर्गाङ्कन सहैको लिक्षः स्थाप्यः । अथ शिष्टलिक्षाणां वालाग्राणि कार्याणि । तथाहि अष्टभिर्वालाग्रैरेको लिक्षो भवत्यतः शिष्टलिक्षसङ्ख्याऽष्टगुणीकृता अष्ट त्रिंशल्लक्षसप्ततिसहस्रद्विशताष्टाशीतिसङ्ख्या(३८७०२८८) वालानां जायते । तां वाङ्कन शोधयेत् । तदा वर्गाङ्कषडगुणीकृतः सप्तत्रिंशल्लक्षचतुर्नवतिसहस्रसप्तशतचतुवि शतिसडख्या(३७९४७२४) जायते । सा पूर्वाङ्कात् धापयेत् । तदा पञ्चसप्ततिसहस्रपञ्चशतचतुःषष्टिालानां(७५५६४)वर्धन्ते । वर्गाकेन सह षइवाला: स्थाप्याः । अथ शिष्टवालानां रथरेणवः कार्या । तथाहि अष्टाभी रथ रेणुभिरेका वालो भवति अतः शिष्टवालाग्रसडख्याऽष्टगुणीकृता षडलक्षपञ्चचत्वारिंशच्छतद्वादशरथरेणवो भवेयुः। (६०४५१२) रथरेणुसख्या वर्गमूलाङ्केन भागं नाप्नात्यतः रथरेणुनां त्रसरेणवो विधेयस्तथाहि अष्टभित्ररेणु. भिरेको रथरेणुर्भवत्यतः रथरेणुसख्याऽष्टगुणीकृताऽष्टचत्वारिंशल्लक्षषत्रिंशत्सहस्रषण्णवति सङ्ख्या त्रसरेणूनां (१८३६०९६) भवति । सा च वर्गमूलाङ्केन शोधयेत् । तदा वर्गमूलाङ्कः सप्तगुणीकृतः चतुश्चत्वारिंशल्लक्षसप्तविंशतिसहस्रैकशताष्टसप्तति सडख्या (४४२७१७८) जायते। तावती च पूर्वाङ्काद्धापिता सती चतुर्लक्षकाननवतिशताष्टादशसडख्या (४०८९१८) जायते शिष्टा त्रसरेणूनां । वर्गमूलाङ्केन सह च सप्त त्रसरेणवः स्थाप्याः। अथ शिष्टत्रसरेणूनां बादरव्यावहारिकपरमाणवः कार्याः। तथाहि अष्टभिर्बादरव्यावहारिकपरमाणुभिरेकस्त्रसरेणुर्जायतेऽतः शिष्टत्रसरेणुसंडख्याऽष्टगुणीकृता द्वात्रिंशल्लकसप्ततिसहस्रत्रिसप्तचतुश्चत्वारिंशत्सङ्ख्या (३२७१३४४) व्यावहारिकबादरपरमाणूनां भवति । सा च वर्गमूलाङ्कन शोधयेत् । तथाहि वर्गमूलाङ्कसङख्या पञ्चगुणीकृता एकत्रिंशल्लक्षद्विषष्टिसहस्रद्विशतसप्ततिसङ्ख्या (३१६२२७०) जायते । तावती च पूर्वाङ्काद्धापिता एकलक्षनवतिशतचतुःसप्ततिसङ्ख्या (१०९०७४) व्यावहारिकबादरपरमाणूनां शेषा वर्धते । वर्गमूलाङ्केन सह पञ्च बादरपरमाणवः स्थाप्याः । अथ व्यावहारिकैकबादरपरमाणुः विस्रसाप्रयोगपरिणतैरननौस्सूक्ष्माणुभिर्जायतेऽतः अनन्ताः भागं नाप्नुवन्ति । अतः शिष्टसडख्या एकशतचतुःसप्तति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org