________________
सटीकजंबूद्वीपसङ्ग्रहणी
३३
सङ्ख्याया सङ्गमयेत् । तदा त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतिर्योजनानां (३१६२२७) भवति । अथ शिष्टाकेन न कापि सङ्ख्या सङ्गच्छति यतः पूर्वोक्तशून्यानि रिक्तानि । तथा वर्गमलाङ्को द्विगुणीकृतः षड्लक्षद्वात्रिंशत्सहस्रचतु शतचतुष्पञ्चाशत्सङ्ख्या (६३२४५४) जायते । तया पूर्वोक्तसङख्याया भागो न गच्छति । अतः शेषसङ्ख्याकस्य योजनस्य कोशा: कार्यास्तथाहि चत्वारै : कोशेोजनं भवत्यतः शिष्टाङ्कचतुर्गुणः कार्यः । तद्यथा चतुःशतैकसप्तत्यधिकचतुरशीतिसहस्रोत्तरचतुर्लक्षाणि (४८४४७१) शिष्टाङ्कः । स चतुर्गुणीकृतः अष्टशत चतुरशीत्यधिकसप्तत्रिंशत्सहस्रोत्तैरकानविंशतिर्लक्षाणि (१९३७८८४) कोशानां जायते । तां द्विगुणीकृतवर्गमलाङ्केन शोधयेत् । तथाहि स वर्गमलाङ्कस्त्रिगुणीकृत: अष्टादशलक्षसप्तनवतिसहस्रत्रिशतद्विषष्टि (१८९७३६२) जायते । तया पूर्वाङ्कन विभज्यात् तदा चत्वारिंशत्सहस्रपश्चशतद्वाविंशतिः(४०५२२) कोशानां शिष्टा भवन्ति । अथ वर्गमूलाङ्कः त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतियोजनानि(३१६२२७)त्रयः(३) कोशाश्च जायन्ते । अथ शिष्टकोशसख्या द्विगुणीकृतवर्गमूलाङ्कन भागं नाप्नोत्यः कोशानां धषि कार्याणि । तथाहि द्विसहस्रैर्धनुभिः कोशो जायतेऽतः शिष्टाङ्को द्विसहस्रगुणः कार्य: । तथा च चतुश्चत्वारिंशत्सहस्नाधिकदशलक्षोत्तरा अष्टकोटय: (८१०४४०००) धनुषां जायन्ते । ततः द्विगुणीकृतये।जनवर्गमूलसङ्ख्यया शोधयेत् तथाहि द्विगुणीकृतवर्गमूलसङ्ख्याऽष्टाविंशत्युत्तरै कशतगुणी कुर्यात् । तथा च अष्टकोटिनवलक्षचतुष्पञ्चाशत्सहस्रैकशतद्वादश सङ्ख्या (८०९५४११२) जायते । तया च पूर्वाङ्को विभज्यात् । तथा चेकोननवतिसहस्राष्टशताष्टाशीतिः (८९८८८) शेषा जायते । मूलाङ्केन सहाष्टाविंशत्युत्तरै कशतं धनुषां स्थापनीयं । अथ शिष्टधनुषामङ्गुलानि कार्याणि । तथाहिं चतुर्भिर्हस्तै रेकं धनुः चतुर्विशतिरभिङ्गुलैश्च (२४) एको हस्तस्तथा च षण्णवतिभिरॉलैरेकं (९६) धनुर्जायते । ततः शिष्टाङ्कः षण्णवतिगुणीकृते षडशीतिलौकोनत्रिंशत्सहस्रद्विशताष्टचत्वारिंशत्सङ्ख्याङ्गलानां (८६२ ९२४८) जायते । तां द्विगुणीकृतवर्गमूलाङ्केन (६३२४५४) शोधयेत् । तथाहि वर्गमूलाङ्केसार्धत्रयोदशगुणीकृते (१३॥) पञ्चाशीतिलक्षाष्टत्रिंशत्सहस्रैकशतैकोनविंशतिसङ्ख्या (८५३८११९) जायते । तया पूर्वाङ्के भग्ने एकनवतिसहस्त्रैकोनविंशतिसङ्ख्या (९१११९) शिष्टाङ्गलानां जायते । अथ च मूलाङ्केन सह सार्धत्रयोदशाङ्गुलानि (१३॥) स्थाप्यानि । ततः शिष्टाङ्गुलानां यवाः कुर्यात् । तथा चाष्टाभिर्यवैरेकमङ्गुलं जायतेऽतः शिष्टाङ्गुलानि अष्टगुणीकृतानि सप्तलक्षाप्टाविंशतिसहस्रनवशतद्विपञ्चाशद्यवानां (७२८९५२) जायन्ते । तान् वर्गमूलाङ्कन शोधयेत् । तदा एको यो भागमायानि । ततः वर्गमूलाइसङ्ख्या यवसङ्ख्यातो हापिता सती षण्णवतिसहस्रचतुःशताष्टानवतिसङ्ख्या (९६४९८) यवानां वर्धते । वांङ्केन सहैको यवः स्थाप्यः । अथ शिष्टयवानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org