SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसग्रहणी स्थापना चेयम् । खंड १ भरतक्षेत्रे १ ऐरवति क्षेत्रे ६४ विदेहे २ हिमवति गिरौ २ शिखरिणि गिरौ १९० ४ हिमन्ति क्षेत्रे ४ हिरण्यवति क्षेत्रे ८ महाहिमवति गिरौ ८ रूपीपर्वते १६ हरिवर्षक्षेत्रे १६ रम्यक्क्षेत्रे ३२ निषधगिरौ ३२ नीलवति नगे एवं च सर्वसडख्यागणने जंबुद्वीपप्रमाणं भवति । आविदेहं भरतहिमवदादीनां व्यासः स्थानद्विगुणितं ज्ञेयः । ततः परं रोहावरोहन्यायेन अर्धार्धहानित: नीलबदरम्यगादीनां व्यासावसेयः । तथाहि षड्विंशत्युत्तरपंचशती षट्कलाधिका योजनानां भरतप्रमाणं, द्विगुणं तत् द्विपञ्चाशदु त्तरै कसहस्री द्वादशकलाधिका हिमवगिरिप्रमाणं, तद्विगुणं, द्विसहस्रैकशतपञ्चसख्ड्या पश्चकलाधिका हिमवत्क्षेत्रप्रमाणं, तद्विगुणं चतुःसहस्राधिकद्विशतदशस ख्या दशकलाधिका महाहिमवगिरिप्रमाणं, तदपि द्विगुणं चतु:शतैकविंशत्याधिका अष्टसहस्री एक कलायुता हरिवर्षक्षेत्रप्रमाणं, द्विगुणं तद् अष्टशत द्वाचत्वारिंशदधिका षोडशसहस्री द्विकलाधिका निषधनगप्रमाणं, तद्विगुणं षट्शतचतुशीत्यधिका त्रयस्त्रिंशत्सहस्री चतुःकलाधिका विदेहप्रमाणं, ततोऽधैं नीलवतो नगस्य 'निषधतुल्यं ततोऽप्य रम्यक्क्षेत्रस्य हरिवर्षतुल्यं, ततोऽध रूपिणो महाश्मिवत्तुल्यं, एवमेव तदर्भ हिमवत्क्षेत्रतुल्यं ऐरण्यवद्वर्षस्य, तदर्धं हिमवन्नगनिभं शिखरिणः तदधं च भरततुल्यं वेस्थतक्षेत्रस्येति मीलिताः सर्वसङख्या एकलां भवति । सङ्ग्रहगाथाश्चमाः स्थानाङ्गटीकोक्तंः " पंचसए छब्बीसे छच्च कला वित्थडे भरहवासं । दससय बावन्नहिया बारतयं कलाओ हेमंते ॥ हेमवए पंचहिया इगवीससयाउ पंच य कला । दसहिय बायालसया दस य कलाओ महाहिमवे ॥ हरिवासे इगवीसा चुलसीइ कला य इक्काय । सोलस सहस्स अट्ठ य बायाला दो कला निसद्वे ॥ तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीइ । चउसेय कला सकला महाविदेहस्स विक्खंभो ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy