SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सटीक जंबूद्वीप सङ्ग्रहणी दशसहस्राणि सुरगिरेर्विशालत्वं योजनानां चतुश्चत्वारिंशत्सहस्राणि योजनानां भूमिष्ठस्य भद्रशालवनस्य पूर्वापरस्थितेरायतिः । सर्वेषामेषां योजनानां संवलने लक्षमेकं जंबुद्वीपस्यायामो भवति । वक्ष्यमाणविदेहवर्षस्यापि अयमेवायामोऽभ्यूहयतामिति ॥ अत्र ते खण्डा नवत्युत्तरैकशतं कथं भवन्तीति शिष्यशङ्कानिरासार्थमाह । २८ अहविग खंडे भरहे दो हिमवंते हेमवइ चउरो । अट्ठ महाहिमवंते सोलस खंडाई हरिवासे ||४|| बत्तीसं पुण निसद्रे मिलिया तेसट्ठी बीयपासेवि । सीओ विदेहे तिरासी पिंडेहिं णउयसयं ॥ ५ ॥ Jain Education International अहेत्यादि । अहत्ति अथेत्यानन्तयें, इगखंडेत्ति एकखण्डो, भरहेत्ति भरते १ वर्षधरक्षेत्रे, हिमवंते द्वौ खण्डौ, हिमवन्नाम्नि वर्षधरपर्यंते २ चउरोत्ति चत्वारो हेमवइत्ति हिमवन्नाम्नि युगलिक वर्षघरक्षेत्रे ४ अत्ति अष्टौ च महाहिमवंतेत्ति महाहिमवन्नाम्नि वर्षधरपर्वते ८ सोलसत्ति षोडश खंडाइ खण्डा हरिवासेति हरिवर्षनाम्नि युगलिक वर्षधर क्षेत्रे १६ ||४|| बत्तीस द्वात्रिंशत्पुनर्निषधनामकवर्षधरपर्वते ३२ सर्वे सङ्ख्यया मिलियत्ति मिलिताः तेसट्ठित्ति त्रिषष्ठिसङ्ख्याकाः खण्डा ज्ञेयाः । एवमेव बीयपासेविति द्वितीयपार्श्वेऽपि त्रिषष्टिसङ्ख्याका ज्ञेयास्तथाहि एक ऐखते १ द्वौ शिखरिणि २ चत्वार ऐरण्यवते ४ अष्टौ रूपिणि ८ षोडश रम्यकि १६ द्वात्रिंशन्नीलवति ३२ एवमेते त्रिषष्टिः । चउसडीओति चतुःषष्टिश्व विदेहेत्ति विदेहे तिरास पिंडेहिंति त्रयाणां राशीनां त्रिषष्टित्रिषष्टिचतुःषष्ठीनां पिण्डैः समुदितैः णउअसयंति नवत्युत्तरं शतं खंडानामिति शेषः । भावार्थ: स्थापनागम्यश्च यदुक्तं - तत्र भरतमेकभागमितं भवेत् । इतः स्थानद्विगुणत्वात् द्वौ भागौ हिमवदूगिरेः ॥ हैमवतं च चत्वारोऽष्टौ महाहिमवद् गिरेः । षोडशांशा हरिवर्ष, द्वात्रिंशन्निषधाचलः, ॥ विदेहाश्च चतुषष्टिर्द्वात्रिंशन्नीलवान्नगः । षोडशांशा, रम्यकाख्यं, भागा रुक्मी नगोऽष्ट च, चत्वारो हैरण्यवतं, द्वौ भागौ शिखरिगिरिः ॥ एक ऐरक्तक्षेत्रम् । नवत्या च शतेन च । भागैरेवं योजनानां लक्षमेकं समाप्यते ॥” । (6 WWW For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy