________________
सटीकजंबद्वीपसङ्ग्रहणी
नित्यत्ववादनिरासः सूचितो द्रष्टव्यः, तथाहिं-एकान्तनित्यत्वे ह्यात्मनोऽप्रच्युतानुत्पन्नस्थिरैकरूपत्वेन भिन्नकालक्रियाद्वयकर्तृत्वाभ्युपगमे उत्तरक्रियाकर्ताऽऽत्मा पूर्वक्रियाकालेऽस्ति नास्ति वेति, अस्तीति चेत् , पूर्वक्षणे क्रियाद्वयापत्तिः कर्त्तः सद्भावात् , नास्तीति चेत् , स्वेष्टहानिः उत्तरकालक्रियाभावप्रसक्तिश्च कर्तुरभावात् । अतः उत्तरक्रियाकाले पूर्व क्रियाकर्तर्विनाश उत्तरक्रियाकत श्योत्पत्तिः आत्मत्वेन रूपेणात्मनो नित्यत्वमित्यनेकान्तवाद एव विजयते, तस्मिन्नेव सर्वमवदात् । एकान्तानित्यत्वे चात्मनः क्षणविनाशित्वेनोत्तरक्रियाकालेऽभावादुत्तरक्रियानुपपत्तिः, इत्याद्यत्र बहु वक्तव्यम् तत्तु नोच्यते ग्रन्थगौरवभयादन्यत्र विस्तृतत्वाच्चेति ॥ क्त्वाप्रत्ययस्य उत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह ।
जंबुद्वीव पयत्थे वुच्छं सुत्ता सपरहेऊ ।
___ वुच्छंति वक्ष्ये, कान् ? जंबुद्वीवपयत्थे इति जंबूद्वीपपदार्थान् , कस्मात् ? सुत्तत्ति सूत्रात् , किमर्थं ? सपरहेऊंति स्वपरहेतोः इत्यक्षरघटना ।
वुच्छंति वचिधातोभविष्यत्यर्थे मि प्रत्यये विहिते म्यन्तस्य स्थाने " श्रु-गमि-रुदिविदि-दृशि मुचि-वचि-छिदि-भिदि-भुजां सोच्छं-गच्छं-रोच्छं-वेच्छं-दच्छं-मोच्छं–वोच्छंछेच्छं-भेच्छं-भोच्छं" ८-३-१७१ इति वोच्छमादेशे हस्त्रः संयोगे ८-१-८४ इति हस्त्रे च बुच्छमिति, वक्ष्ये प्रतिपादयिष्यामि, अहं इति शेषः, कत्रभिधानं च शास्त्रान्ते खयमेव वक्ष्यति ग्रन्थकारो भगवान् हरिभद्रसूरिः। सकर्मिकाया: क्रियायाः कर्मसापेक्षत्वादाह, जंबुद्वीवेति । नीलवत्पर्वतस्य दक्षिणदिग्भागस्थेन मेरोरुदीचीस्थितेन तथा माल्यवदाख्यगजदन्तस्य पश्चिमदिशास्थेन सीताख्यमहानद्याः पूर्वतटस्थेनोत्तरकुरुनामकयुगलिकक्षेत्रस्थेन सुदर्शनादि यथार्थद्वादशपर्यायालङ्कतेन, शाश्वतानेकजिनचैन्यलघुजंबूवृक्षवलयपरिकरितेन शाश्वतेन जंबूवृक्षणोपलक्षितो द्वीपो जंबूद्वीपः । द्वादशपर्यायाश्चमे शुभदर्शनात् सुदर्शनः १ अनिष्फलत्वादमोघः २ मणिरत्नबद्धपीटत्वात सुप्रतिबद्धः ३ यशोधारकत्वाद् यशोधरः ४ जंबूद्वीपाख्यविस्तारकत्याद्विदेहजंबूः ५ मनःप्रीतिकारित्वात् सौमनसः ६ शाश्वताभित्यत्वान्नित्यः ७ अनादिनिधनमण्डनवत्त्वान्नित्यमण्डित ८ कल्याणकारित्वात् सुभद्रः ९ विस्तीर्णत्वाद्विशालः १० सुनिष्पन्नरुपत्वात् सुजातः ११ मनःशुभकारित्वात् सुमनाः १२ भिन्नक्रमेणैतान्येवाभिधानानि प्रोक्तान्यन्यत्र तथाहि ---
" नामानि द्वादशैतानि प्रज्ञप्तानि जिनेश्वरैः । सुदर्शना १ तथाऽमोघा २ सुप्रबुद्धा ३ यशोधरा ४ ॥ भद्रा ५ विशाला ६ सुमना: ७ सुजाता ८ नित्यमण्डिता ९ । विदेहजंबू १० नियता ११ सौमनस्येति १२ कीर्त्तिता ॥"
Jain Education International
'For Private &Personal Use only
www.jainelibrary.org