________________
सटीकजंबूद्वीपसग्रहणी
____ अत्र वृक्षे प्राग्भवे जंबूस्वामिपितृव्यः जंबूद्वीपाधिष्ठाताऽनादृताभिधः पल्यायुष्कः सुरः सन्तिष्ठते, अयं च महर्धिकः मेरोरुदीच्यामपरस्मिजंबूनाम्नि द्वीपेऽनादृताभिधायां नगर्या साम्राज्यं पालयति, तस्य च चतुःसहस्रसामानिकसुराः । उक्तञ्च उत्तराध्ययनस्य एकादशे बहुश्रुताध्ययने - [गाथा – २७.]
" जहा सा दुमाण पवरा, जंबू नाम सुदंसणा ।
अणाढियस्स देवस्स, एवं भवइ बहुस्सुए ॥२७॥ अतो जंबूरिति शाश्वतं नाम गीयते पूर्वसूरिभिः, अस्य च द्वीपस्य तिर्यग्विस्तारः लक्षयोजनानि वक्ष्यति च ग्रन्थकारो " हवइ लक्ख " मिति, उच्चत्वं चास्य योजनानां सहस्राणि नवनवतिः साधिकानि, उद्वेधश्च योजनानां सहस्रकं, उच्छ्रयोद्वेधयोगे ऊर्ध्वाधोमानतः साधिकं योजनानां लक्षमेकम् । ननु तदीयं उद्वेधोच्छ्रयत्वं तु तस्य तत्र तत्र तथाव्यवहारादेव भवति, न तु यथाकथञ्चित् । यथा जलाशयस्य, इयानस्य जलाशयस्योद्वेधः इयच्चोच्छ्यत्वं सर्वत्र जलाशय इति व्यवहारस्याबालगोपालप्रसिद्धेरेवं शैलादावपि । न चायं व्यवहारो जंबूद्वीपस्य प्रसिद्ध इति चेन्मैवं, अत्रापि तद्व्यवहारस्य समयसम्मतत्वात् । समयसम्मतत्वं चैवं तथाहि – उद्वेधस्तावदेवं इदमीयमेरोरवगाढः योजनानां सहस्रकं, तथा च तत्रस्थमेरोरंशः, कस्य द्वीपस्येति प्रश्न जंबूद्वीपस्येति व्यवहारसम्भवात् , किञ्च – समभूतलात् प्रतीच्यां हीयमानायाः भुवः धर्मायां सहस्रयोजनोद्वेधवत्त्वात् तादृशी च सा द्वयोर्विजययोः यदुक्तं
" हीयमाना प्रतीच्यां भूधर्मायां समभूतलात् ।
__सहस्रयोजनोड्डांते स्यात् क्रमाद्विजयद्वये ॥" तयोश्चाधोलौकिकाः ग्रामाः सन्ति, तेषु च कस्य द्वीपस्येमे ग्रामा इति पर्यनुयोगे जंबूद्वीपस्येत्येवमेव व्यवहार इति तावानस्योद्वेध उच्यते । उच्छ्यस्य समयसम्मतत्वं चैवं, जंबूद्वीपभरतैरवतविदेहसम्भवानां तीर्थकृतां वक्ष्यमाणस्वरूपसुरगिरिपाण्डुकवने पाण्डुकम्बलादिशिलासिंहासनेऽभिषेकः विधीयते, ततस्तत्रापि जंबूद्वीपव्यवहारः सुष्टु सम्भाव्यते, किञ्च पाण्डुकवनस्थचूलिकारूपमेशे जंबूद्वीपसुरगिरिचूलेति व्यवहारस्य सम्मतत्वात् उच्छ्यस्य तावत्वं, तात्त्विकैरवितथमेव प्रज्ञप्तमभिहितं च जंबूद्वीपप्रज्ञप्त्यां -
" एग जोयणसहस्सं उव्वेहेणं, णवणउत्ति जोयण सहस्साई ।
साइरेगाइं उठें, उच्चत्तेगं साइरेग जोयणसयसहस्सं सव्वग्गेणं पन्नत्तेत्ति ।" जंबूद्वीपस्य पदार्थाः – ' वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं ' वाचकः शब्द
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org