________________
सटीकजंबूद्वीपसमहणी
पराजितेन स्वपृष्ठे निधाय विहर्त्तव्यम्' इति प्रतिज्ञावति क्रीडने असौ सुरोऽपि डिम्भरूपेण भगवता भगवद्वयस्यैश्च चिक्रीड, ततः सुरेणाहं वर्धमानेन पराजितः इत्युक्त्वा वर्धमानस्वामिनं स्वपृष्ठे संस्थाप्याक्षिमुखमोहनादिविक्रियया रौद्रराक्षसरूपं सप्ततालपरिमितोच्छ्रयं स्वशरीरमुच्चीकृत्य विकृत्य च भापयामास, ततो निर्भीको भगवान् अवधिना तं सुरं ज्ञात्वा मुष्टिप्रहारेण हतवान् , ततस्तत्तेजोऽसहमानस्य रूपं कुब्जीकृतं, ततः स सुरः स्वरूपं सङ्कोच्य भगवन्तं प्रणनाम, प्रणभ्य खखरूपमाविष्कृत्य भगवतः श्लार्धा चक्रे, 'अहो बत भवतो धैर्य वीर्यं चेति, अद्य मया ज्ञातं ' ' महतो गुणान् महान्त एव जानन्ति वर्णयन्ति च ' ' अद्य प्रभृति मया वीतरागविराधकत्वेन यन्मिथ्यामोहनीयमुपार्जितमभूत्तदेकेनैव मुष्टिप्रहारेण भग्नं, यदा ‘ केवलज्ञानं जायते तदा किं मोहराजवासः सम्भवति ' ' यत्र वा केसरी लीलां करोति तत्र किं मददुघरोऽपि गजराजो मदमावहति ।' अद्यारभ्य ' त्वमेशरणं, त्वमेव मम स्वामी, अहं तु तव सेवकः' इति व्यावर्ण्य स्वस्वर्धाम प्रति जगाम, तत आरभ्य देवेशैभगवतो महावीर इत्यभिख्या चक्रे, उक्तञ्च ---
_ 'अयले भयभेरवाणं खंतीखमे परिसहोवसरगाण० देवेहिं से णामं कयं समणे भगवं महावीरेत्ति ।'
(कल्पसूत्र - सूत्र-१०८ ) यद्वा महावीरमिति विशेषणं जिनमिति च विशेष्यम् । ननु जातितद्भिन्नप्रवृत्तिनिमित्तानां शब्दानां जातिप्रवृत्तिनिमित्तस्यैव विशेष्यत्वमिति नियमात् जिनमहावीरशब्दयोर्महावीरस्यैव विशेष्यत्वं न्याय्यं, न तु जिनस्य, जयति रागादीनिति व्युत्पत्तिनिमित्तरागादिजयकर्तृत्वरूपगुणप्रवृत्तिनिमित्तकत्वात् तस्येति चेन्मैवं पङ्कजादिवज्जिनस्ययोगरूढत्वाद्रूढिमपेक्ष्य जिनत्वावछिन्ने शक्तस्य जिनस्यापि जातिप्रवृत्तिनिमित्तत्वात् । ननु तथापि योगरूढमपेक्ष्य केवलस्य रूढस्य महावीरस्यैवास्तु विशेष्यत्वमिति चेन्नात्रोपात्तस्य महावीरस्य योगिकत्वात् तथाहि अश्च शिवश्च, उश्च विष्णुश्च, अवौ, महान्तौ च तौ च अवौ च महावी, महत्त्वं चानयोः कथमप्यनुपपद्यमानदेवत्वयोः कुमतग्रहिलैर्देवत्वाभिमतत्वेन यथा चानयोर्देवत्व नोपपद्यते तथा प्रतिपादितं ग्रन्थकृद्रिरेव कपापरीतान्तःकरणैरष्टकप्रकरणे लोकतत्त्वनिर्णये च तयो रीः महावीस्तामीरयति गमयति स्फेटयति । न चैवं विशेष्योत्तरोपात्तैः प्रकारैः समाप्तपुनरात्तत्वनामाकाव्यदोषे प्राप्ते अजाक्रमेलकन्यायावकाशः, क्रियान्वयेन शान्ताकाङ्क्षस्य विशेष्यवाचकपदस्य विशेषणान्तरान्वयार्थ पुनरनुसन्धान समाप्तपुनरात्तत्वमिति तल्लक्षणात् इति सांप्रतम् ।
नमिय नत्वेत्यत्र पूर्वोत्तरकालक्रियासूचकस्य क्त्वाप्रत्ययस्य पूर्वकाले विधानादेकान्तनित्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org