________________
सटीकजंबूद्वीपसङ्ग्रहणी
८-२-४२” इति ज्ञो णत्वे, “ज्ञो णत्वेऽभिज्ञादावि" ति ८-१-५६ अ उत्वे च सवण्णुमिति । अनेन -
" सर्वं पश्यतु वा मा वा इष्टमर्थं तु पश्यतु ।
कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥” इति कैश्चिदभ्युपगतसर्यज्ञस्तथा -
" तदेवं धिषणादीनां नवानामपि मूलतः ।
गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ॥” इति नैयायिकाम्युपगतश्च मुक्तस्तन्निरासो दृश्यः । ननु
“ सर्वज्ञोऽसाविति ह्येतत् तत्कालेऽपि बुभुत्सुभिः ।
तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥” इति " नासर्वज्ञः सर्वज्ञं जानाती" ति न्यायाद् वा कथं सर्वज्ञप्रतीतिरिति चेत्
" सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद् यथा ।
अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥” इति इत्थञ्च मुक्तस्य सर्वज्ञानवत्त्वबोधनेन नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरिति तौतातीतमतं, अविद्यानिवृत्तौ विज्ञानसुखात्मकः केवल आत्माऽपवर्गेऽस्तीति वेदान्तिमतम् , अनुपप्लवाचित्तसन्ततिरिति बौद्धमतम् , अखण्डज्ञानसुखसन्ततिरेव मुक्तिरिति ऋजुसूत्रनयावलम्बिमतं, कर्मक्षयाविभूतं सुखसंवेदनमेव मुक्तिरिति सङ्ग्रहनयावलम्बिमतं चापास्तं द्रष्टव्यम् । तन्निरासप्रकारश्च न्यायालोकविवरणादौ मया विस्तृतस्ततो वेदितव्यः।
ननु सर्वज्ञं इत्येवास्तु किं जिनमिति विशेषणेन इति चेन्न, कैश्चित् सकर्मकाणिमादिविचित्रैश्वर्यवन्तः सिद्धाः प्रतिपादितास्तद्व्यवच्छेदनसार्थकत्वात् , उक्तञ्च तद्दर्शनार्भािनविष्टैः।
" अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा।
मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥” इत्यादि । किञ्च जिनमित्यनेन कर्मबीजाभाववन्त एव प्रतीयते । ततश्च पुनर्भवागमाभाव इति । अकारस्य अणिमा महिमा चैव गरिमा लधिमास्तथा । प्राप्तिः प्रकाभ्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ ( अमरकोश-पङ्क्ति-७२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org