________________
२
सटीक जंबूद्वीपसङ्ग्रहणी
नमिय जिणं सव्वन्नु जगपुज्जं जगगुरु महावीरं । जंबुद्दीपयत्थेच्छं सुत्ता सपरहेऊ ॥ १ ॥
इह खलु सकलशिष्टै कसम्मततया स्वाभिप्रेतसिद्धये शिष्यशिक्षायै वा दुषमाकालप्रभा - वापचीयमानायुर्म्मतीनां हेयोपादेयप्रवृत्तिनिवृत्तये लोकस्वभावाख्यभावनाभावितान्तःकरणः संस्थानविचयाख्यधर्मध्यानैकनिबद्धचेताः चत्वारिंशदुत्तरचतुर्दशशतग्रन्थग्रन्थनमालाकारो भगवान् हरिभद्रसूरिः जंबुद्वीपपदार्थावबिभासयिषुरभीष्टदेवतास्तवं चिकीर्षुरासन्नोपकारितयाऽपश्चिमतीर्थाधिपस्य महावीरस्य नुतिरूपं मङ्गलं निबध्नाति, नमियेत्यादि ।
?
नमियेति नत्वा, कं महाबीरंति महावीरं, पुनः किं विशिष्टं जिणं जिनं, पुनः कीदृशं सच्वन्नु ति सर्वज्ञं, पुनः किं भूतं जगपुज्जंति जगत्पूज्यं, पुनः कीदृशं ? जगगुरु ति जगद्गुरुं इति पदसङ्घट्टना ॥
नमियेति नम्धातोः क्त्वाप्रत्यये
क्त्वस्तुमत्तूण- तुआणाः
८-२-१४६',
" क्त्व इयदूणौ ८-४-२७१ " इति क्त्वाप्रत्ययस्येयादेशे नमियेति, नत्वा प्रणम्य । रागद्वेषादिजेतृत्वाज्जिनः तं " नो णः । ८-१-२२८" इति णत्वे जिणमिति । श्रुतावधिमनःपर्यवजिनानां सम्भवात् तद्व्यवच्छेदायाह सव्वन्नु ति । ननु मतिजिनाः कथं नोच्यन्त इति चेन्न, मतेर्वतमान कालीनार्थस्यैवावगाहित्वात् तथा चार्षम् -
२
"
WW
66
Jain Education International
" जमवग्गहाई रूवं पच्चुप्पन्नवत्थुग्गहगं लोए । इंदियमणोनिमित्तं तं आभिणिबोहगं बिति ॥
""
ननु श्रुतस्य मतेः कार्यत्वात्तस्यापि वार्तमानिकत्वमेव स्यादिति चेन्मैवं श्रुतस्यागमग्रन्थानुसारित्वात्त्रिकालविषयताया निर्बाधत्वात् । उक्तञ्च
" जं पुण तिकालविसयं आगमगंथाणुसारिविन्नाणं | इंदियमणोनिमित्तं तं सुयनाणं जिणाविति ॥
""
सर्वं लोकालोकवर्त्तिद्रव्यपर्यायात्मकं वस्तु जानातीति सर्वज्ञस्तं " सर्वत्र लबरामवन्द्रे ८-२-७९ इति रलोपे, “ अनादौ शेषादेशयोर्द्वित्वम् ८-२-८९ " इति वद्वित्वे, " म्नज्ञोर्णः १ अनेन सूत्रेण क्त्वः अत् आदेशे 'नमिअ,' ततः ' अवर्णो य श्रुतिः ' ८-१-८० सूत्रेण यत्वे ' नमिय' ।
अनेन सूत्रेण शौरसेन्यां क्त्वा - प्रत्ययस्य इयादेशो भवति
For Private & Personal Use Only
www.jainelibrary.org