________________
सटीकजंबूद्वीपसङ्ग्रहणी
" उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं वणखंडेहिं सपरिखत्ता वेइया वणखंडवण्णओ भणिअव्वो।" इयं च गङ्गा नदी मागधतीर्थस्थाने पयोनिधिं विशति । सिन्धुनदी च प्रभासतीर्थस्थाने । तथोक्तं जंबूद्वीपप्रज्ञप्तिवृत्तौ-" गङ्गा मागधतीर्थस्थाने समुद्रं प्रविशति तथा प्रभासं नामतीर्थ यत्र सिन्धुनदी समुद्रं प्रविशति ।" तीर्थं नाम तडागवदम्भोधाववतरणमार्गः । इति गङ्गा-गङ्गाचतुर्दशसहस्रपरिवारवर्णनम् । एवं सिन्धुरपि वाच्या नवरमियं पद्मद्रहप्रतीचीनद्वाराग्निर्गत्य सिन्ध्वावर्त्तनं प्रदक्षिणीकृत्य दक्षिणस्यां चलन्ती सिन्धुप्रपातकुण्डे पतति । तत्र सिन्ध्वाभिख्यो द्वीपः सिन्धुदेव्यावास इत्यादिसिन्ध्वभिलापेन वाच्यम् । कुण्डान्निर्गत्य तिमिस्राधो वैतादयं भित्त्वा प्रतीच्या चलन्ती चतुर्दशसहस्रनदीपरिवृत्ता प्रतीचीनमुदधिं सङ्गच्छति । शेषं वर्णनं पूर्ववत् । यत उक्त -
प्रतीच्यतोरणेनाथ हृदात्तस्माद् विर्निगता । गत्वा प्रतीच्यामावृत्ता सिन्ध्वावर्तनकूटतः ॥१॥ दक्षिणाभिमुखी शैलात् कुण्डे निपत्य निर्गता । प्रत्यग्भागे तमिस्राया भित्त्वा वैताढयभूधरं ॥२॥ ततः पश्चिमदिग्भागे विभिद्य जगतीमधः । विशत्यम्भोनिधिं सिन्धुर्गङ्गास्वसेव युग्मजा ॥३॥
गङ्गावत्सर्वमस्याः स्यादारभ्य हृदनिर्गमात् स्वरूपमब्धिसङ्गांत सिन्धु-नामविशेषितम् ॥४॥" इति सिन्धु-सिन्धुचतुर्दशसहस्रपरिवारवर्णनम् । एवं शिखरिणो निर्गच्छन्त्यौ रक्तारक्तवत्यौ ज्ञेये एरवते, तत्र च पूर्वद्वाराद् रक्ता निर्गता प्रतीचीद्वाराच्च रक्तवती । शेष पूर्ववत् । इति ऐरवतक्षेत्रसपरिवाररक्तारक्तवतीवर्णनम् । इति बाह्यक्षेत्रस्थषट्पञ्चाश सहस्रनदीवर्णनम् ।
एवं अभिंतरिया चउरो पुण अट्ठवीससहस्सेहि
पुणरवि छप्पन्नेहिं सहस्सेहिं जंति चउ सलिला ॥२२॥ एवंति एवमित्युपप्रदर्शने यथा बाह्यनदीवर्णनमुक्तं, तथैव अभंतरियत्ति अभ्यन्तरक्षेत्रस्थाः चउरोत्ति चतस्रः, पुणत्ति पुनरपि, अदुवीससहस्सेहिति अष्टाविंशतिसहस्त्रैर्यान्तीति क्रिया चतुर्थपादे, जलधिमिति शेषः, पुणरवित्ति पुनरपि अन्या अभ्यन्तरक्षेत्रस्था: चउसलिलत्ति चतस्रो नद्यः छप्पन्नेहिंसहस्सेहिंति षट्पञ्चाशत्सहस्रैः जत्ति यान्ति समुद्रं । इति पदगमनिका । अयं भावो-हैमवतस्य युगलिक क्षेत्रस्य द्वे नद्यौ रोहितांशारोहिताभिधाने प्रत्येकं अष्टाविंशतिसहस्रसङख्याभिर्नदीभिः परिवृते समुद्रं सङ्गच्छेते । तथाहि पद्महदोदीचीनद्वारान्निर्गता रोहितांशा महानदी षट्कलाधिकषट्सप्तत्युत्तरद्विशतयोजनानि हिमवतो नगस्योपरि गत्वा सार्धद्वादशयोजनविस्तीर्णया तावदायता कोशबाहल्यया जिढिकया रोहितांशाप्रपातकुण्डे पतति । तच्च कुण्ड विंशत्युत्तरकशतयोजनायतविशालं दशयोजनावगाढं । तत्र षोडशयोजनायतं तावद्विष्कम्भं रोहितांशाभिख्यद्वीपं रोहितांशादेवीशय्यासमन्वितरोहितांशादेवीभवनसमन्वितं । शेषं भवनादिस्वरूपं गङ्गावत् तस्य कुण्डस्योदीचीनद्वारान्निर्गत्य हिमवतक्षेत्रे व्रजन्ती चतुर्दशसहस्रनदीपूरिता शब्दापातीवृत्तवतोदय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org