________________
सटीकजंबूद्वीपसग्रहणी
प्रत्येकं चउदसहिं चतुर्दशभिः सहस्सेहिति सहजैः समगंति समकं वच्चंति व्रजन्ति जलहिमित्ति जलधौ । इति पदसञ्चारणा । अयं भावः । इह भरतक्षेत्रे गङ्गानाम्नी सिन्धुनाम्नी च प्रत्येकं चतुर्दशसहस्रसङ्ख्याभिनंदीभिः परिवृत्ता लवणाब्धिं गच्छति । एवं च भरतक्षेत्रेऽष्टाविंशतिसहस्रसङ्ख्याः सरितो भवन्ति । एवमैरवतक्षेत्रे रक्तारक्तवत्यभिधाने प्रत्येकं चतुर्दशसहस्रसख्याभिर्नदीभिः परिवृत्ते लवणाम्भोधि सङ्गच्छतः । एवं च तत्राऽष्टविंशतिसहस्रसङ्ख्या नद्यो भवन्ति । एवं बाह्यक्षेत्रयोः षट्पञ्चाशत्सहस्रसङ्ख्या: सलिला भवन्ति । इदमत्र हृदयम् । हिमवन्नगपद्मद्रहप्राचीनद्वाराद् गङ्गा नाम्नी नदी निर्गत्य प्राच्यां पञ्चशतयोजनानि पर्वतस्योपरि चङ्क्रमित्वा गङ्गावर्तनकूटं प्रदक्षिणीकृत्य दक्षिणाभिमुखं भूत्त्वा सार्धत्रयकलाधिकपञ्चशतत्रयोविंशतियोजनानि दक्षिणस्यां पर्वतस्योपरि भ्रान्त्वा महद्घटान्निष्कामजलसमूहवत् मुक्तावलीहाराकारेण जिबिकया भूमौ सातिरेकं योजनानां शतमेकं निपतति । सा चेयं महती प्रणालिका वाजिकी अर्धयोजनायता सपादषड्योजनविशाला सहस्रधनुः पृथुला प्रसारितमकरमुखसंस्थान संस्थिता विद्यते तयैषा पतति । ततः गङ्गाप्रपातकुण्डे तच्च दशयोजनावगाढं षष्ठियोजनायतविशालं किञ्चिदूननवत्युत्तरशतयोजनपरिक्षेपं तथाहुः क्षमाश्रमणपादाः बृहत्क्षेत्रसमासे -
“ आयामो विखंभो सद्धिं कुंडस्स जोयणा हुति ।
नउयसयं किंचूणं परिही दस जोयणो गाहो ॥१॥ उमास्वातिवाचककृतजंबूद्वीपसमासे करणविभावनायां च –
___“ मले पण्ण संजोअणवित्थारो उवरि सवा" इति विशेषोऽस्ति । नानाविधकमलसंकलितं परितः पद्मवरवेदिका वनखण्डपरिकरितं वनस्तंभसतोरणरत्नालंबनबाहाट यरैरूप्यफलकाञ्चितसोपानश्रेणिभिः प्राचीप्रतीच्यवाचीषु विराजितं वृत्ताकारं कुण्डं गङ्गाप्रपाताभिधमस्ति । तन्मध्ये गङ्गाख्यो द्वीपोऽस्ति अष्टयोजनायतविशाल: जलाद् द्विक्रोशोच्चः सर्ववज्ररत्नमयः परितः पद्मवरवेदिकावनखण्डपरिकरितः वृत्ताकारोऽस्ति । " गङ्गाद्वीपश्च भात्यस्मिन् द्वौ क्रोशावुच्छ्रितो जलादष्टौ च योजनान्येषः विष्कम्भायाममानतः ॥"
तत्र च द्वीपे एकक्रोशायतं अर्धक्रोशविशालं चत्वारिंशदुत्तरचतुर्दशशतधनुरुच्च गङ्गादेवीशय्यांसमन्वितं गङ्गाख्यदेवीभवनं श्रीदेवीभवनसन्निभमस्ति । तद्गङ्गाप्रपातकुण्डदक्षिणद्वारान्निर्गत्येयं गङ्गोत्तरार्धभरतमध्यगामिनी सती सप्तसहस्रसङ्ख्यानदीभिरन्विता खण्डप्रपाताऽधो निर्गत्य वैताढयं भिन्वा दक्षिणार्धभरतमागच्छति, आगच्छन्ती च दक्षिणार्धभरतमध्ये पुनः सप्तसहस्रैः सडख्याभिनंदीभिः संयुज्यते । एवं चतुर्दशसहस्रनदीपरिवृत्ता प्राच्यां वलित्वा जम्बूजगती भित्त्वा तदधो निर्गत्य प्राचीनलवणाब्धि सङ्गच्छति । एतस्या वक्ष्यमाणानां च सर्वासां महानदीनां उभयोः पार्श्वयोर्वेदिकावनखण्डावभिहितौ । तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे गङ्गावर्णने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org