________________
सटीकजंबूद्वीपसङग्रहणी
___महाहिमवति पर्वते महापद्मनामा हृदः पद्मद्रहाद्विगुणमानो वाच्यत्तथाहि द्वे सहस्रे योजनानामायत एक सहस्त्रं विशालः दशयोजनावगाढः । तस्य च दक्षिणस्यां एकं उत्तरस्यां चैकमे द्वे द्वारे तत्रौदी वीस्थं मेरु मुखं द्वारं विशालाशीतिभागहीनः दाक्षिणात्यं च तदर्धमानं तथा च मेरुमुखं द्वारं पञ्चविंशतियोजनविशालं दाक्षिणात्यं च सार्धद्वादशयोजनविशालं, षट्परिक्षेपोपशोभितकमलादिसडख्यापूर्ववत् । विष्कम्भायामादिविचार: पूर्वतो द्विगुणमानो वाच्यः । नवरमत्र हियो देव्या निवासः । इति महाहिमवन्नगहृदस्वरूपम् । निषधगिरौ तिगिच्छिनामा द्रहः महापद्माद् द्विगुणमानो वाच्यः तथाहि चतुःसहस्रयोजनायत[द्विसहस्र]विशालः, दशयोजनावगाढः । अस्यापि द्वे द्वारे, तत्र दाक्षिणात्यं पञ्चविंशतियोजनमानं उदीचीनं च पश्चाशद्योजनमानं, विशेषवर्णनं पूर्ववत् कमलादीनां च पूर्वस्माद् द्विगुणपरिमाणं, नवरं धीदेव्या आवासः । इति तिगिच्छिद्रहस्वरूपम् । नीलवति केसरिनामा द्रहः तिगिच्छिवज्ज्ञेयः अत्र कीर्तिदेव्या आवासः । केसरा. लीपरिष्कृतपत्राद्यलङ्कत इति विशेषः । इति केसरिद्रहवर्णनम् । रूपिणि महापुण्डरीकनामा द्रहः महापद्मवद्वाच्यः । इह च बुद्धिदेव्या आवासः । इति महापुण्डरीकद्रहवर्णनम् । शिखरिणि च पुण्डरीकाभिधो द्रहः पद्मवद्वाच्यः। इह च लक्ष्मीदेव्या आवासः । इति पुण्डरीकद्रहवर्णनम् । इमाः सर्वाः षडपि देव्यः भवनपतिनिकायस्य पल्यायुष्का अपरिगृहीता ज्ञेयाः तत्कारणं प्राग्वत् । इति पर्वतद्रहषट्कवर्णनम् । दश च भूमिद्रहास्तथाहि निषधपर्वतनिर्गच्छन्ती सीतोदा सरित् प्रथमं यथाक्रममेतेषु पञ्चसु द्रहेषु निपतति तद्यथा - " निषधाभिध आद्यः स्यात् देवकुर्वभिधोऽपरः । सुरप्रभाभिधश्च स्यात्तुर्यो हि सुलसाभिधः ।।
विद्यत्प्रभाभिधो ज्ञेयः पञ्चमः क्रमतो द्रहः । " __एवं नीलवतो निर्गच्छन्ती सीताऽपि क्रमशो द्रहेष्वेषु पञ्चसु निपतति तद्यथा" नीलवत्संज्ञितो ज्ञेय उत्तरकुरुनामकः। चन्द्र ऐरवतो ज्ञेयः माल्यवांश्च तथापरः ॥"
एते च याम्योत्तरायताः पूर्वपश्चिमविस्तृताश्च पञ्चशतयोजनानि विस्तृताः सहस्रयोजनायामाश्च तथाहुः - "सीयासीओयाणं बहुम इमे हुंति पंचहरयाओ, उत्तरदाहिणदीहा पुव्वावर वित्थडाइणमो ।" इति भूमिंद्रहदशकनिरूपणम् । सर्वान् सम्मील्य षोडश द्रहाः स्युः । इति द्रहाख्यं नवमं द्वारम् । अथ दशमं सरित्सडख्याद्वारमाह ।
गंगासिन्धुरत्ता-रत्तवई चउनईओ पत्तेयं ।
चउदसहिं सहस्सेहिं समग वच्चंति जलहिम्मि ॥२१॥ गंगासिन्घुरत्तारत्तवईचउत्ति गङ्गासिन्धुरक्तारक्तवत्यश्चतस्रः नईओत्ति नद्यः पत्तयंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org