________________
सटीकजंबूद्वीपसङ्ग्रहणी
क्रोशद्वयान्तरे मुक्त्वा ततः स्थानात् परावृत्य प्रतीचीमुख वलन्ती हैमवतक्षेत्रं द्विभागीकुर्वन्ती पुनरपि चतुर्दशसहस्रनदीपूरिताऽष्टाविंशातेसहस्रनदीभिः संचालता जगती भित्त्वा जगत्यधो निर्गत्य पश्चिमाब्धि सङ्गच्छति । शेष रोहितांशाकूटावर्तनप्रणालिकाद पूर्ववद्वक्तव्यं । नवरं पूर्वतो द्विगुणमानरोहितांशामिलापेन च । इति रोहितांशा-रोहिताशापारंवारवर्णनम् ।
___ अथ महाहिमवतो महापद्मद्रहदक्षिणद्वारान्निर्गता रोहितानदी पञ्चकलाधिकपञ्चयोजनोत्तरैकसहस्रषट्शतयोजनानि पर्वतोपरिगत्वा कुण्डे निपत्य वृत्तवैत्तादयं दूरतो मुक्त्वाऽष्टाविंशातसहस्रनदीपरिवृता हिमवति समवसृत्याऽब्धि व्रति । अत्र प्रणाालेका-कुण्ड-द्वीप-देवीभवन–देवीशय्यादि रोहिताभिलापेन रोहितांशावद्वक्तव्यम् । इति रोहितारोहितापरिवारवर्णनम् ।
___ एवं हिरण्यवति अपि द्वे नद्यौ वाच्ये तद्यथा शिखरिणः पुण्डरीकद्रहदाक्षिणात्यद्वाराद्विनिर्गता सुर्वणकुला रोहितांशावद्वाच्या । कूटावर्तन-प्रणालिका-कुण्ड-द्वीप देवीभवन-देवीशय्या -परिवार-माल्यववृत्तवैताढय जगतीभेदेन जगत्यधो निर्गमन-प्राचीनसमुद्रमीलनादि सर्वं सुवर्णकुलाभिलापेन रोहितांशावद्वक्तव्यम् । इति हिरण्यवतः सुवर्णकुलातत्परिवारवर्णनस्वरूपम् ॥ एवं रूपिणो महापुण्डरीकद्रहोदीचीनद्वारान्निर्गता रूप्यकुला नदी रोहितावद्वाच्या । अत्रापि विशेषवर्णनं पूर्ववत् । नवरं रूप्यकुलाभिलापः । इति रूप्यकुलातत्परिवारवर्णनम् ॥ चतस्रोऽपि नद्यो मिलित्वा द्वादशसहस्रोत्तरैकलक्षसडख्या नद्यो भवन्ति हिमवद्धिरण्यवतोः । एवं महाहिमवतो महापद्मद्रहोदीचीनद्वारान्निर्गता हरिकान्ताभिधा नदी षट्पञ्चाशत्सहस्रनदीपरिवृता हरिवर्षक्षेत्रतो विनिर्गता जलधौ सम्मीलति शेषवर्णनं पूर्वतो द्विगुणं हरिकान्ताभिलापेन वाच्यम् । इति हरिकान्तातत्परिवारवर्णनम् । एवं तिगिच्छिद्रहदाक्षिणात्यद्वारान्निर्गता हरिसलिला षट्पञ्चाशत्सहस्रपरिवारसंवलिता जलधौ सङ्गच्छति । शेष पूर्वतो द्विगुणमानं हरिसलिलाभिलापेन वक्तव्यम् । इति हरिसलिलातत्परिवारस्वरूपम् । एवं रम्यक्क्षेत्रस्थे रूपिनीलवत्पर्वतयोर्महापुण्डरीककेसरिहृदयोर्दाक्षिणात्योदीचीनद्वारनिर्गते नरकान्तानारीकान्ते सरितौ वाच्ये । वर्णनं सर्वं नरकान्तानारीकान्ताभिलापेन हरिकान्ता हरिसलिलावद्वाच्यम् । इति रम्यकक्षेत्रस्थनरकान्तानारीकान्तावर्णनम् । इमा अपि चतस्रो मीलित्वा चतुर्विंशतिसहस्रोत्तरद्विलक्षसडख्या भवन्ति नद्यो हरिवर्षरम्यक्षेत्रयोः । अष्टावपि सम्मील्य षट्त्रिंशत्सहस्राधिक त्रिलक्षसख्या भवन्ति नद्यः हिमवद्धिरण्यवद्धरिवर्षरम्यवामिख्येषु युगलिक चतुर्षु । इति गाथार्यः ॥२२॥
अथ विदेहक्षेत्रस्थसरितां वर्णनायाह ।
कुरुमज्झे चउरासि सहस्साइतहय विजय सोलससु ॥ बत्तीसाण नईणं चउदससहस्साई पत्तये ॥ २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org