SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ॥२॥ son श्रीहेमहंसगणिसंगृहीतः श्रीसिद्धहेमचन्द्रव्याकरणस्थ•* ॥ न्यायसंग्रहः ॥ •*. ॐरूपाय नमः श्रीमद्हैमव्याकरणाय च । श्रीसोमसुन्दरगुरूत्तंसाय च नमो नमः ॥ अथ ये तु शास्त्रे सूचिता लोकप्रसिद्धाश्च न्यायस्तदर्थं यत्नः क्रियते । ॥ प्रथमो वक्षस्कारः ॥ न्यायः ॥१॥ स्वं रुपं शब्दस्याशब्दसंज्ञा । सुसर्वार्धदिक्शब्देभ्यो जनपदस्य । ॥३॥ ऋतोर्वृद्धिमद्विधाववयवेभ्यः । ॥४॥ स्वरस्य हुस्वदीर्घप्लुताः । आद्यन्तवदेकस्मिन् । ॥६॥ प्रकृतिवदनुकरणम् । ॥७॥ एकदेशविकृतमनन्यवत् । ॥८॥ भूतपूर्वकस्तद्वदुपचारः। ॥९॥ भाविनि भूतवदुपचारः । ॥१०॥ यथासङ्ख्यमनुदेशः समानाम् । ॥११॥ विवक्षातः कारकाणि । ॥१२॥ अपेक्षातोऽधिकारः । ॥१३॥ अर्थवशाद् विभक्तिपरिणामः । ॥१४॥ अर्थवद्ग्रहणे नानर्थकस्य । ॥१५॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् । ॥१६॥ नामग्रहणे लिङ्गविशिष्टस्यापि । ॥१७॥ प्रकृतिग्रहणे यङ्लुबन्तस्यापि । ॥१८॥ तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ॥ ॥१९॥ सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य । ॥२०॥ असिद्धं बहिरङ्गमन्तरङ्गे। ॥२१॥ न स्वरानन्तर्ये ॥२२॥ गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः । ॥२३॥ कृत्रिमाकृत्रिमयोः कृत्रिमे । ॥२४॥ क्वचिदुभयगतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001446
Book TitleNyayasangrah
Original Sutra AuthorHemhans Gani
AuthorNandighoshvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages470
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Grammar, & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy