________________
३६ .
बउप्पन्नमहापुरिसचरिय
तच्छिष्यः श्रीयशश्चन्द्रसूरिभूरिशमश्रियाम् । जातः पदं पदे तस्य पनदेवमुनीश्वरः ॥ २७॥ श्रीमान् समुज्झितसमप्रधनोऽप्युपात्तधर्मा न शस्त्रकलितः कलिकाममुक्तः । कामाकृतिः खलु कलावपि पूर्णकामः पार्श्वप्रभोरभयसूरिगुरोः प्रसादात् ॥ २८ ॥ बभूव भूमण्डलमण्डनैककीर्तिः स्वमूर्त्या जनयन् जनानाम् । अमन्दमानन्दमिवात्मबन्धुरनन्यलावण्यगुणेन सिन्धुः ॥ २९॥ चरणकमलभृङ्गस्तस्य निर्मुक्तसङ्गः समजनि जिनभद्राचार्यवर्योऽजितश्रीः । इति गुरुजनवंशं शीलका सप्रशंसं स्म कथयति निमित्तं लेखने पुस्तकस्य ॥ ३०॥ ज्ञात्वा ज्ञान प्रबोधोदधिसितकिरणं दुर्गतिद्वाःपिधानं रागद्वेषद्विपेन्द्रांकुशसदृशमुरोरप्रमादस्य हेतुम् । सेतुं दुःखाम्बुराशेः प्रथितसुरसुखश्रीविधानं निधानं कल्याणानां प्रधानं शिवपुरगमने पूर्णकुम्भोपमानम् ॥ ३१ ॥ त्रिदिवप्रयाणसमये शीलमती प्राह श्वसुर-भर्तारौ । मम श्रेयसेऽथ पुस्तकलेखनविषये प्रयतनीयम् ॥ ३२॥ तथा श्रीशान्तिनाथस्य बिम्बमुत्तमकारितम् । यतो जन्मान्तरे बोधिं प्राप्नुयाम् विमले कुले ॥ ३३ ॥ नागदेवस्य श्रेयोऽथ शीलमत्यास्तथैव च । पार्यकुमारकः श्रेष्ठी साधारणसमन्वितः ॥ ३४ ॥ चतुप्पण्णमहापुरुषचरिताख्यां दधद्वराम् । लेखयामास सद्वर्णं सुपत्रं पुस्तकं वरम् ॥ ३५ ॥ जम्बूद्वीपसुमेरुसागरमहानद्यो महीमण्डले यावद् व्योमतले मृगाङ्क-मिहिरौ नक्षत्रमालास्तथा ।
राजन्ते जिनशासनोन्नतिकरं मोहव्यपोहाय वः स्तात् तावद् वचनामृतं श्रवणयोः मुष्णन्नघं पुस्तकः ॥ ३६ ॥ शीलमत्याः पितृपक्षौ कथ्येते यथा
कटुकासनवास्तव्यो अश्वदेवाभिधानकः । वासः समग्रनीतीनां अभूतां हौंबटे कुले ॥ ३७॥ सद्धर्मकर्मसंयुक्तः सर्वदेवस्ततोऽपरः । सर्वदेवो दयाधाम दाक्ष्यदाक्षिण्यवानतः ॥ ३८॥ तृतीयो बाहडो नाम प्रष्ठः श्रेष्ठगुणैः सताम् । दृढधर्मानुरागेण शङ्के यं श्रेणिकात्मजम् ॥ ३९ ॥ अश्वदेवस्य भार्याऽभूत् समग्रगुणशालिनी । सूहवेति प्रविख्याता चन्द्रलेखेव निर्मला ॥ ४० ॥ चत्वारस्तनया चतुर्पु विदिता दिग्मण्डलेश्वेतयोर्जातास्तत्र पवित्रचित्रचरितश्चारित्रिषु प्रीतिमान् । ज्येष्ठः श्रेष्ठतम नयस्य भवनं लक्ष्मीधरो विश्रुतः ख्यातिं बिभ्रददभ्रशुभ्रयशसा श्वेतीकृतस्वान्वयः ॥ ४१॥ मूलदेव-धवलाख्यौ यशश्चन्द्रस्ततस्त्रयः । त्रिकालं पूजयामासुर्ये त्रिकालविदो जिनान् ॥ ४२ ॥ राजीमतीति विख्याता तनया गुणराजिनी । सैव शीलमती जाता पाणिग्रहणादनन्तरम् ॥ ४३ ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयताम् ।। ४४ ॥ भग्नपृष्टिकटिग्रीवा तथा दृष्टिरधोमुखी । कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ ४५ ॥ शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ ४६ ॥
॥छ । छ । मंगलं महाश्रीः ।। छ । छ । छ । ऊपरकी प्रशस्तिके ३७ वें श्लोकमें उल्लिखित 'कटुकासन' तथा प्रतिके लेखककी पुष्पिकामें आनेवाला 'पालउद्रग्राम' आज भी क्रमशः कटोसन और पालोदरके नामसे प्रसिद्ध हैं। महेसाना (उत्तर गुजरात ) से वीरमगाँव जानेवाले रेलमार्ग पर चौथा स्टेशन कटोसन आता है, जबकि महेसानासे पाटनकी ओर जानेवाले रेलमार्ग पर पहला स्टेशन पाँचोट आता है और उससे एक मीलकी दूरी पर पालोदर गाँव आया हुआ है। ये गाँव जिस प्रदेशमें आये हैं वह प्रदेश आज दण्डाव्य अथवा दण्ढाव्य कहा जाता है। इसका संकेत लेखककी पुष्पिकामें आनेवाला दण्डाज्यपथक से होता है। प्राचीन स्थलनामोंकी शोधका कार्य जो संस्थाएँ और विद्वान् कर रहे हैं उनके लिए ऐसी प्रशस्तियाँ एवं पुष्पिकाएँ महत्त्वकी सामग्री प्रस्तुत कर सकती हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org