________________
प्रस्तावना
वंशे श्रीमति हौंबटे समभवत् सत्सर्वदेवाभिधः श्राद्धः शङ्करवत् सदागतनयास...... । . विशुद्धाराया जाताः सप्त तयोः सुताः सुचरिता भूमण्डले विश्रुताः ॥ २ ॥
चक्रेश्वर-साधारण- शान्ति-सज्जन-बन्धकाः । सुस्वच्छाऽम्मुक - सिद्धकयुक्ता मिध्यात्वनिर्मुक्ताः ॥ ३ ॥ अत्यन्ताद्भुतदाननिर्जितबलेः सद्बुद्धिवाचस्पतेः गाम्भीर्याम्बुनिधेः प्रतापकलितस्फूर्जत्सुतेजोरवेः । जाता... स्य गृहिणी सम्नायिकाख्या दयादाक्षिण्यादिगुणान्विता गतमदद्वेषादिदोषोत्करा ॥ ४ ॥ कमलिनीवनवत् कमलाश्रया न पुनराश्रितकण्टकविग्रहाः । त्रिनयना इव भूतिविभूषिताः परमसंवरवैरिपराजिताः ॥ ५ ॥ शमि- सन्तुक नेमकुमार - सिद्धधवलाभिधाः सदाचाराः । चत्वारः प्रवरसुता जिनमतनिरतास्तयोर्जाताः ॥ ६ ॥ गाम्भीर्यदाक्षिण्यदयादमाद्यैः शश्वद्गुणैः स्वैरमलैरसंख्यैः । संस्मारयामास जनस्य सम्यगानन्दमुख्यान् सदुपासकान् यः ॥ ७ ॥ सन्तुकश्रेष्ठिनस्तत्र तस्यासीत् प्रेयसी प्रिया । लावण्याढ्यान्विवेलेव शुद्धशीला सलक्षणा ॥ ८ ॥ जातौ तयोः शाठ्यविमुक्तचित्तौ कान्तौ सुतौ धर्मरतौ विनीतौ । सामायिकाद्युत्तमधर्मकृत्यनित्योद्यतौ श्रीजिनसाधुभक्तौ ॥ ९ ॥ मतिविभवविजितसुरगुरुमाहात्म्योऽभय कुमारनामाऽऽयः । अपरः पार्श्वकुमार : सुविचारश्चारुचरितरतः ॥ १० ॥ अभूत् पार्श्वकुमारस्य सुन्दरी नाम गेहिनी । शुद्धसत्पात्रदानेन यत्करे कङ्कणायितम् ॥ ११ ॥ सपुण्यः कोऽपि संजज्ञे साधारणस्तदङ्गजः । हृदये यस्य निःशेषे जिनो वासमसूत्रयत् ॥ १२ ॥ यशोधवलकः कीर्तिवल्लीप्रारोहभूरुहः । विमलो दर्पणः श्रीणां कुसुमं नीतिवीरुधः ॥ १३ ॥ समभूत् पद्मिकासंज्ञा तनया विनयास्पदम् । खानिर्विवेकरत्नस्य जन्मभूः शीलसम्पदः ॥ १४ ॥ अन्या सीताभिधा पुत्री मूर्तिमती कीर्तिरविहतप्रसरा । कुलकमलभानुरन्या समजायत संपिकानाम्नी ॥ १५ ॥ कान्ता साधारणस्याभूद् रोहिणीव हिमधुतेः । इन्द्राणीव सुरेशस्य लक्ष्मीरिव मुरद्विषः ॥ १६ ॥ शीलेन सुलसा सीता रेवती च सुभद्रिका । शीलमत्यभिधानेन चैता उपमिता यया ॥ १७ ॥ तस्यैवान्यतरा भार्या जज्ञरे ( जज्ञेऽथ ) शीलशालिनी । प्रतीता सुहवानाम्नी सुभक्ता निजभर्तरि ॥ १८ ॥ शीलमत्याः सुतो जातः प्रथमः श्रीकुमारकः । द्वितीयो नागदेवाह्नः प्राप्ता साऽथ दिवौकसाम् ॥
१९ ॥
इतश्च
चान्द्रे कुले श्रीमति सोमकल्पे समुज्ज्वले शुद्धयशोमयूखे । सद्वृत्तशालिन्य कलङ्कभाजि सदादयानन्दितसज्जने च ॥ २० ॥ गणधर इव साक्षाद्गौतमादिर्व्यहार्षीदतिशयगुणगेहं यो धरायामधृष्यः ।
स्वपरसमयसिन्धोः पारदृश्वा प्रसिद्धोऽजनि जितमदनश्री ...
॥ २१ ॥
सुविहितशिरोरत्नं श्रीमज्जिनेश्वरसूरिरित्यगणितभयो दुःसंघीयाद् गणाद् गुणसागरः ।
नृपतिविदितः सत्साधूनां प्रवृत्तिविधायकोऽणहिलनगरे पट्टे तस्याभवद् बुधसम्मतः ॥ २२ ॥
जाता जिनेश्वरमुनीश्वरमुख्य.... सा । आराधनाभिधकृतिं सुरसुन्दरीं च चक्रे क्रमेण हि ययेह नवाङ्गवृत्तीः ॥ २३ ॥ आध: श्रीजिनचन्द्रसूरिरखिलाचारप्रचारे चिरं स्कन्धं विभ्रददभ्र निर्मलयशा धौरेय ..
1
ख्यातः श्रीजिनभद्रसूरिरपरः प्राज्यप्रभावान्वितस्तस्माद्विस्मयकारि चित्रचरितश्चारित्रचूडामणिः ॥ २४ ॥ प्राप्तो नययुगप्रधानपदवीं तैस्तैर्गुणैर्भारतेऽस्मिन् क्षेत्रेऽभयदेवसूरिरभयो निर्नीत जैनागमः ।
मान्योऽन्यस्तु ततः समस्तजगतः प्रोत्सर्पितार्हन्मतः सङ्घस्याभिमतः समुन्नतिमतः श्रीदेवताध्यासितः ॥ २५॥ पट्टे श्रीहरिभद्रसूरिरभवत् तस्याथ पूज्यक्रमाम्भोजस्याऽभयदेवसूरि सुगुरोर्न-व्याङ्गवृत्तेर्वराम् । यो व्याख्यां विदधेऽल्लिनगरे विद्वन्मुनिष्वग्रतो बिभ्राणेषु घनध्वनिः कपरिकाशीतिं चतुःसंयुताम् ॥ २६ ॥
Jain Education International
३५
For Private Personal Use Only
www.jainelibrary.org