________________
लघुनन्दिः-अनुज्ञानन्दिः । समयेन निष्क्रान्तः, न पुनरामगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रान्तः, अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद्वा समुच्छ्यस्तेन 'आत्तेन' आगृहीतेन प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत् सेयकाले त्ति छान्दसत्वादागामिनि काले 'शिक्षिष्यते' अध्येष्यते साम्प्रतं तु न तावदद्यापि शिक्षते तद् जीवाधिष्ठितं शरीरं द्रव्यानुज्ञा । नोआगमत्वं चात्राप्यागमाभावमाश्रित्य मन्तव्यम् , तदानीं तत्र वपुष्यागमाभावाद् नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वादिति । यथा कोऽत्र दृष्टान्तः? इति निर्वचनमाह----यथाऽयं घृतकुम्भो भविष्यतीत्यादि । एतदुक्तं भवति—यथा घृते मधुनि वा प्रक्षेप्तुमिष्टे तदा- 5 धारत्वपर्याये भविष्यत्यपि लोके अयं घृतकुम्भो मधुकुम्भो वेत्यादिव्यपदेशो दृश्यते तथाऽत्राप्यनुज्ञापदार्थवेत्तृत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयाऽनुवृत्त्या द्रव्यानुज्ञेयमुच्यते इति भावः । निगमयन्नाह—से त्तमित्यादि तदेतद् भव्यशरीरद्रव्यानुज्ञेति ॥
उक्तो नोआगमतो द्रव्यानुज्ञाद्वितीयभेदः । तृतीयभेदनिरूपणार्थमाह
१०. से किं तं जाणगसरीर-भवियसरीरवतिरित्ता व्वाणुण्णा? जाणगसरीर-भवियसरीरवतिरित्ता दवाणुण्णा तिविहा पण्णत्ता, तं जहा-लोइया कुप्पावयणिया लोउत्तरिया य। . 10
१०. से किं तमित्यादि । यत्र ज्ञशरीर-भव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटने तत्र आभ्यां व्यतिरिक्ता-भिन्ना द्रव्यानुज्ञोच्यते । सा च त्रिविधा प्रज्ञता, तद्यथा-लौकिकी कुप्रावनिकी लोकोत्तरिकी च ॥ तत्र प्रथमभेदं जिज्ञासुराह
११. से किं तं लोइया० दवाणुण्णा ? लोइया० दवाणुण्णा तिविहा पण्णत्ता, तं जहासचित्ता अचित्ता मीसिया।
१२. से किं तं सचित्ता ? सचित्ता० से जहाणामए राया इ वा जुवराया इ वा ईसरे इ 15 वा तलवरे इ वा कोडुविए इ वा माडबिए इ वा इन्भे इ वा सेठी इ वा सत्थवाहे इ वा सेणावई इ वा कस्सइ कम्हि कारणे तुडे समाणे आसं वा हत्थि वा उट्टे वा गोणं वा खरं वा घोडयं वा एलयं वा अयं वा दासं वा दासिं वा अणुजाणेजा। से तं सचित्ता। .
११-१२. से किं तमित्यादि सुगमम् । नवरं 'राजा' चक्रवर्ती वासुदेवो बलदेवो महामाण्डलिकश्च । 'ईश्वरः' युवराजः राज्ञो द्वितीयस्थानवर्ती सामान्यमाण्डलिकोऽमात्यश्च । अन्ये तु व्याचक्षते अणिमायष्टविधैश्वर्ययुक्त ईश्वरः । परितुष्टनरपति- 20 प्रदत्तरत्नालङ्कृतसौवर्णपट्टविभूषितशिरास्तलवरः । यस्य पार्श्वत आसन्नमपरं ग्राम-नगरादिकं नास्ति तत् सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बमुच्यते, तस्याऽधिपतिर्माडम्बिकः । कतिपयकुटुम्बप्रभुः कौटुम्विकः । इभः-हस्ती तत्प्रमाणं द्रव्यमहतीतीभ्यः, यस्य सत्कपुञ्जीकृतहिरण्य-रत्नादिद्रव्येगान्तरितो हस्यपि न दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः । श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी । हस्त्यश्व-रथ-पदातिसमुदायलक्षगायाः सेनायाः प्रभुः सेनापतिः । "गणिमं धरिमं मेज पारिच्छं चेव दव्वजायं तु । घेत्तूणं लाभत्थी वच्चति जो अन्नदेसं तु ॥ १ ॥
25 निवबहुमओ पसिद्धो दीगा-ऽणाहाण वच्छलो पंथे । सो सत्थवाहनामं धणो व्व लोए समुव्वहइ ॥२॥"
एतल्लक्षणयुक्तः सार्थवाहः । एतदन्यतरः कश्चिद् राजादिः क्वचिद् व्यतिकरे कस्यचित् तुष्टः सन्नश्वादिकं परिभोगायानुजानीयात् सेयं सचित्तानुज्ञा ।।।
. १३. से किं तं अचित्ता० ? अचित्ता० से जहाणामए रीया ति वा जुवराया इ वा ईसरे इ वा तलवरे इ वा कोडुबिए इ वा माडंबिए इ वा इन्भे इ वा सत्थवाहे इ वा सेट्ठी इ वा सेणावई 30
१वा माडंबिए इ वा कोढुंबिए हवा इब्मे इ वा सत्थवाहे इ वा सेट्टी इवा सेणा जे० ॥ २ वा आलयं वा वालय वा अयं वा खं० ॥ ३ वा वालयं वा दासं जे० ॥ ४ राया ति वा जाव सत्थावाहे ति वा कस्सइ ख०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org