SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१४] प्राकृतपैंगलम् ११८ अथोल्लालालक्षणम् प्रथमं तुरंगमास्त्रयश्चतुष्कलगणास्त्रयः, ततस्त्रिकलः, तदनन्तरं षट्कलः, ततः चतुष्कलः, ततस्त्रिकलः, संभूयाष्टाविंशतिः कलाः प्रथमचरणे । एवमुल्लालामुट्टवणिकया संक्षिप्तां कुर्वन्तु । तथा च द्वाभ्यां दलाभ्यां षट्पञ्चाशन्मात्रा भवन्ति । दोहाच्छन्दः ॥ ११९ अथ शाल्मलीप्रस्तारं दर्शयिष्यंस्तत्र पूर्व सर्वगुरुभेदमुदाहरति-जहा (यथा) यस्य शिवस्य जाया पार्वती अर्धाङ्गे । तिष्ठतीति शेषः । यस्य शीर्षे गङ्गा लुठति । कीदृशी । सर्वाशा: पूरयन्ती । दुःखानि त्रोटयन्ती । यस्य नागराजो हारः । यस्य दिग्वासोऽन्तः । दिगेव वाससो वस्त्रस्याऽन्तोऽञ्चलं यस्य । यस्य सङ्गे वेतालाः । तिष्ठन्तीति शेषः । पिशाचसहचर इत्यर्थः । दुष्टान्नाशयन् उत्साहेन नृत्यन् ताण्डवं कुर्वन्, तालैर्भूमिः कम्पिता येन । अथ च यस्मिन् दृष्टे मोक्ष: स शिवो युष्माकं सुखदोऽस्तु ॥ १२० अथैकसप्ततिभेदानयनप्रकारमाह चतुश्चत्वारिंशद्गुरवः काव्यस्य, षड्विंशतिरुल्लालायाः संभूय सप्ततिः । तेषु यदैकैकक्रमेण गुरुर्हसति, लघुद्वयं वर्धते तदा सप्ततिसंख्याका भेदा भवन्ति । सर्वशेषे च सर्वलघ्वात्मकमेकम् । एवमेकसप्ततिप्रस्तारः । दोहा छन्दः ॥ १२१ तदेवाह अजयनाम्निषट्पदे ट्यशीत्यक्षराणि । तत्र विवेकः-सप्ततिर्गुरवः, रविसंख्याका रेखा लघवः, ततो यावद्विपञ्चाशदधिकशताक्षरं तावदेकैकमक्षरं सर्वलघुप्रभेदान्तं वर्धते । एकोगुरुर्हसति । लघुद्वयं वर्धते । अन्यथा परिपाट्या यावत्सर्वलघुर्भवेत्तावल्लघुकान् देहि । इति प्रथमो भेदः । १२१, १२३ अथ तानुदाहरति यथा 3 ७० गुरु ६९ गुरु ६८ गुरु १२ लघु १४ लघु १६ लघु १८ लघु २० लघु अजयः । विजयः । बलिः । कर्णः । वीरः । वेतालः । बृहन्नलः । मर्कटः । २२ लघु २४ लघु २६ लघु २८ लघु ३० लघु ३२ लघु हरः । ब्रह्मा । ३४ लघु ८२ अक्षर ८३ अक्षर ८४ अक्षर ८५ अक्षर ८६ अक्षर ८७ अक्षर ८८ अक्षर ८९ अक्षर ९० अक्षर ९१ अक्षर ९२ अक्षर ६३ अक्षर ९४ अक्षर ९५ अक्षर ९६ अक्षर ९७ अक्षर ९८ अक्षर ९९ अक्षर १०० अक्षर १०१ अक्षर १०२ अक्षर १०३ अक्षर ३६ लघु ३८ लघु ४० लघु ४२ लघु ४४ लघु ४६ लघु ४८ लघु ५० लघु ५२ लघु ५४ लघु चन्दनम् । शुभंकरः । श्वा । सिंहः । शार्दूलः । कूर्मः । कोकिलः । खरः । कुञ्जरः । मदनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy