________________
प्रस्तावना श्री अंगविद्यापुस्तकं संपूर्ण ॥ छ ॥ ग्रंथाग्रं० ९००० ॥ छ ॥ संपूर्ण ॥ ल ॥ श्रीः ॥ ग्रंथाग्रं ९००० । संवत् १५२७ वर्षे आश्वन वदि सप्तमी रवौ लिखितं श्रीश्री अणहिलपुरपत्तने ॥ छ । श्रीः ॥ शुभं भवतुः ॥ श्रीरस्तुः ।। मंगलमस्तुः । श्री । छ । श्रीसीमंधरस्वामिने नमः ॥
अस्ति स्वस्तिकरश्रीगूर्जरधरणीसुलोचनाकारम् । अणहिल्लपाटकं पुरमपरपुरप्रवरशृंगारम् ॥ १ ॥ सौधश्रेणिमनोहरे प्रतिपदप्रासादशोभावरे,
श्रीमत्श्रीअणहिल्लपाटकपुरे पुण्यैकरत्नाकरे । श्रीश्रीमालविशालवंशतिलक: प्रौढ: प्रतिष्ठास्पदं,
जातः श्रीमदनः सहर्षवदनः साधुः सदानंदनः ॥ २ ॥ तदंगजो विश्रुतनामधेयस्त्रैलोक्यलोकाद्भुतभागधेयः । बभूव भूवल्लभरूपधेयः श्रीदेवसिंहः स्वकुलैकसिंहः ॥ ३ ॥ . तत्सुतः सकलविश्वविश्रुतः संघभक्तिगुरुभक्तिसंयुतः । धीरिमादिकगुणैरलंकृतः शोभते शरबणाभिधस्ततः ॥ ४ ॥ तस्य शीलगुणनिर्मलगात्रं सत्कलत्रयुगलं गुणपात्रम् । आदिमा शुभति तत्र हि टिबू स्त्रीषु रत्नमपरा खलु लक्ष्मीः ॥ ५ ॥ असूत सूनद्वयमद्वयश्रीनिकेतनं सा समये तदाद्या । आद्यः सदाचारपरः सदाख्यो हेमाभिधो हेमसमो द्वितीयः ॥ ६ ॥ दीनेषु दानं सुजनेषु मानं पात्रेषु वित्तं सुकृतेषु चित्तम् । तदा तदाद्यस्तु सदा ददानः सदाभिधः कं न चमत्करोति ॥ ७ ॥ शत्रुजयाद्री गिरिनारशृंगे रंगेण यात्रां किल यश्चकार ।। परोपकारैकपरायणश्रीः श्रीमान् सदाह्वानसुधी: सुधीरः ॥ ८ ॥ कल्याणकत्रयविहारविशालभद्रप्रासादपुण्यसफलीक्रियमाणवित्तः । श्रीपातसाहमहिमुंदसभासु मान्यः सोऽयं सदाभिधसुधीः समभूद् वदान्यः ॥ ९ ॥ यस्याभंगुरभाग्यभंगिसुभगस्यादत्त वच्छेरके
त्याख्यां श्रीमदहिम्मदामिधसुरत्राणः स्वयं सोत्सवम् । दुष्प्रापान्नकणेऽपि यो वसुवियत्तिथ्यंकिते १५०८ वत्सरे
सत्रागारममंडयच्च वसुधाधारः कृपासागरः ॥ १० ॥ अपर कलत्रसुतश्रीअहिम्मदाबादनगरवास्तव्यः । गुरुसेवाकरणरतिर्देवाक: पुण्यहेवाकः ॥ ११ ॥ तज्जाया लज्जायाः सदनं वदनेन विजितरजनिकरा । देवश्रीदेवश्रीरेव श्रीकारणं जयति ॥ १२ ॥ तस्यास्तनुजस्त्रिजगति शुभति श्रीअमरदत्त इत्याख्यः । श्रीहेमसुतः सुचिरं जयति जगज्जीवजीवाकः ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org