________________
धर्मपरीक्षाकथा सुष्मत्पुराणे शतबलोति प्रसिद्धो राक्षसः । स स्वपुत्रं सहस्रबलिं स्वपदे निघाय स्वयमेकस्मिन् पर्वते तपः कतु लग्नः। तत्पुत्रप्रतापं दृष्ट्वा देवकोटिभिश्चिन्तितम्-अयमस्मान्निमूलयिष्यति । यावत्प्रौढो न भवति तावद् विनाश्यत इति । तन्मारणार्थमिच्छद्धिः शतबलिदृष्टः । भणितं च । यावदयं न मार्यते तावत् सहस्रबलारणं दुर्घटम् । अयं च तपस्वी शस्त्रेण मारयितुमस्माकं न युक्तम् । इत्यादि पर्यालोच्य वज्रकण्टकवज्जिद्वैर्गवयर्लेहयित्वा मारितः। तस्य शिरो द्वि भागोकृतम् । एकस्यांशस्य इन्द्रेण वज्रायुधं कृतम् । अपरस्य विष्णुना चक्रे कृते महेश्वरेण तस्य पृष्ठास्थि महोत्वा द्वौ अंशौ छेदयित्वा मध्यमांशस्य पिनाकं नाम धनुः कृतम् । इतरांशयोर्गाण्डीवं नाम धनुः। तच्च वरुणाय दत्तम् । तेनाप्यग्नये तेन चार्जुनाय दत्तम् । कुक्षिप्रदेश-स्थितान्यस्थीनि त्रयस्त्रिशद्देवानां धनूंषि बभूवुः। नलकजङ्घाबाह्वस्थ्नां सप्तशतगदा बभूवुः । तत्र रुधिरभुखी भीमाय नीलमुखी दुर्योधनाय यमाय यमदण्डः। अन्या अन्येभ्यो देवेभ्यो दत्ताः । अपरास्थ्नां त्रयस्त्रिशत्कोटिदेवानामायुधानि जातानि । स्नायवः ब्रह्मपाशा अजनिषत। तेन धनुषा महेश्वरेण देवासुरा निजिताः। अजुनेन इन्द्रवनं दग्धम् । अग्निबाणैः सैन्धवस्य शिरो गृहीतम् । युधिष्ठिरस्य यज्ञविधानार्थ लङ्कायाः स्वर्ण, तैरेवानीतम् । तद्बाणेन भूमि विधार्थ पातालं प्रविष्टो ऽर्जुनः। तत्र नागराजेन युद्धं कृत्वा जित्वा च नागदत्तां तत्पुत्रों परिगोत्र तया तेन सहागत्य यज्ञमण्डपं प्रविष्टः । भीमसेनः प्रतिसन्धि सिंहसहस्रबलान्वितः मल्लविद्यया नारायणस्थापि दुर्जयः। तथापि कुलनामराक्षसेन धृतः। अर्जुनेन इन्द्रकोलस्योपरि मायाशूकरनिभित्तं महेश्वरो निजितः। यमेत सोमिनी नाम ब्राह्मणी यमपुरी नीता। तद्ब्राह्मणाक्रोशबशेनाजुनेन यसपुरों गत्वा युद्धे तं बद्ध्वा विमुच्य सा आनीता। तथा तेन स्वबाणपिच्छाथिना गरुडपक्षपिच्छग्रहणे युद्धे जाते नारायणो ऽपि बद्धः। तथा सप्त दिनानि भूमिमुद्धृत्य स्थितः । पार्यः एवंविधायुधालङ्कृतः तथाविधप्तामर्थ्यान्वितोऽपि मार्गे गच्छन् केनचिद् भिल्लेन मुषितः । इति सर्व विद्यते नो वा । सत्यम्, विद्यते। तहि तत्र भवतां किमिति विस्मयो नास्ति । अत्रैव संजातः। इति बहुधा जित्वोद्यानं गत्वा मनोवेगेन भग्यते। हे मित्र, अपरमपि पुराणं शृणु । तथाहि।
ईश्वर एकदा नृत्यन् दारुकवनं प्रविष्टः। तत्र तापसवनितास्तं दृष्ट्वा मोहिता बभूवुः । तथा सो ऽपि । तेन सर्वाभिः क्रीडितम् । तास्तस्यैवासक्ता जाताः । तापसानां पादप्रक्षालनमपि न कुर्वन्ति । तापसगंडवेषैरवलोकप्रद्धिः ताभिः सह क्रोडन् दृष्टः । शापेन तस्य लिङ्गं पातितम् । तेनापि तत्सर्वेषां ललाटे लग्नं कृतम् । तदनु तरीश्वरं ज्ञात्वा पादयोः पतितं भणितं च-चारमेकं क्षन्तव्यं, ललाटस्थं लिङ्गं स्फेटनोयम् । तेनोक्तम्-मदीयं लिङ्गं गृहीत्वा कैलासमागच्छन्तु । एवं कुर्महे इति यावत् तदुत्पाटय स्कन्धे निक्षिपन्ति तावद् तितुं लग्नम्। इत्यपरापरतापसै. गृहीत्वा महता कण्टेन कैलासमानीतम् । तदनु गौरी हसिता तुष्टा च भणति महेश्वराय । यथामोषां ललाटस्थं लिङ्गं गच्छति तथा कर्तव्यमिति महेश्वरेणोक्तम्-इदं योनिस्थं लिङ्गं यदा पूजयन्तु [न्ति ] तदा ललाटस्थं लिङ्गं याति नान्यथा। इति ते ऽपि पूजयितुं लग्ना इति । तथापरमपि शृणु । हे मित्र तद्यथा
पूर्वमत्र सचराचरलोको नास्ति । बहुकालेनैकदाकस्मादण्डमुत्पन्नम्। तत् कियत्स्वहस्सु स्फुटितम् । तस्याधस्तनभागः सप्तनरकाः। मध्यभागः उऊमकरपर्वताकरादिर्बभूव । उपरितनभागः स्वर्गादिरूवलोको ऽजनि। मध्ये शंकरः स्थितः। स शड्या दिगवलोकनं किल यदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org