________________
३६२
पाश्वंकीतिविरचिता तेनैकदा सौरीपुराधीशान्धकवृष्णेः पुत्री कुन्ती स्नान्तीं दृष्ट्वा सेविता। यो ऽदत्तां कुन्ती गृह्णाति स किं दत्ता छायां त्यजति । पुनरभाणि-एवं चेद्यमसमीपं ध्रियते। तेनोक्तम्-एवमस्तु । स नैष्ठिकः ब्रह्मचारीति । यमपुरी गत्वा तत्समीपे तां धृत्वा तीर्थयात्रां गतौ मातापितरौ। इतः छाया सयौवना जाता। तद्रूपं दृष्ट्वा यमो ऽस्य सूत्रस्यायं सत्यं कृतवान् ।
संसर्गाद दुर्बलां जीर्णां भ्रश्यन्तीमप्यनिच्छतीम् । कुष्टिनों रोगिणों काणां विरूपां क्षीणविग्रहाम् ॥ निन्दितां निन्द्यजातीयां स्वजातीयां तपस्विनीम् ।
बालामपि तिरश्वी स्त्री कामी भोक्तं प्रवर्तते ॥ इति । तदनु तेनासक्तचित्तेन सा स्वभार्या कृता। स ब्रह्मचारीति प्रसिद्धः। जनापवादभन तां दिवा गिलित्वा रात्री उद्गील्य तया सह भोगान् सेवते । स दिन प्रति गङ्गा स्नानायं गच्छति। तत्र तां लतागृहे निघाय स्नातु प्रविष्टः। अत्रान्तरे सा पवनेन अग्निना च दृष्टा। तदनु पवनो ऽग्निना भणितः। यथास्या मम च मेलापको भवति तथा कुरु। तेनोक्तम्-किमेवं शक्यते । यमः प्रचण्डः। अग्निभाण-दष्टे सति प्रचण्डो ऽन्यथा किम् ? पवनेन तथा तयोः संयोगो ऽकारि । रत्यवसाने तयोक्तम्-हे अग्ने, यमस्य निर्गमनवेला बभूव । गच्छ स्वस्थानम् । तेनोक्तम् - त्वां विहाय गन्तं न शक्नोमि । तया स गिलितः । तदनु यमेन निर्गत्य सा गिलिता। सा उदरमध्ये उद्गील्य तेन सह क्रीडां करोति। ततो ऽह्यग्न्यभावे द्विजानां होमादिकं नष्टम् । तदभावे त्रैलोक्यस्य संतागो ऽभूत्। देवैः ध्यानेनावलोकिते सति कारणं ज्ञातं संतापस्य । तदनु पवनः पृष्टः । तेनाभाणि । मयाग्निशुद्धिर्नावगम्यते । तथापि सर्वे आमन्त्रिताः। सर्वे ऽपि तद्गृहं गताः। तेन चोपवेशिताः । पादप्रक्षालनादिके कृते सर्वेभ्य एकैकम् आसनं दत्तम् । यमायासनत्रयम् । तेन कारणे पृष्ट पक्नेनोक्तम्-छायामुद्गिल। तत उद्गिलिता। तस्या अप्युक्तम्-अनलमुद्गिलेति । तया सो ऽप्युद्गिलितः। ततस्तस्याः कूर्चश्मश्रुकेशा उपप्लुष्टाः । तेन तत्प्रभृति वनितास्तद्रहिता बभूवुः। अग्नि दृष्ट्वा गदां गृहीत्वा तं मारयितमुत्थितो यमः। स भयान्नश्यन् सन् सर्वगतो ऽभूत् । एवं सर्व विद्यते न वा। तैरुक्तम्-सत्यं विद्यते। यमेनाग्निर्न ज्ञातः । कि तस्य सर्ववेदित्वं नष्टम् । द्विजैरुक्तम्-न । तमुस्यापि गुणा मा नश्यन्त्यिति जिते भवतु मार्जारस्तथाविधः, गृहीतो ऽस्माभिः । इदं धनुरिमे गदे विक्रीयन्ते नो वा । किरातेनोक्तम्विक्रोयन्ते । धनुषः कि मूल्यं तथा गदायाश्चेत्युक्तम् । किरातेनोक्तम् प्रत्येकं सुवर्णद्वादशसहस्रमिति । किमेतेषां सामर्थ्यम् । कथ्यते मया। अनेन धनुषा इमे बाणा विजिताः सन्त शतयोजनानि गत्वा शत्रु निर्मलयन्ति । इमे गदे महापर्वतान् चूर्णयत इति । हिजैर्भग्यते-एवं सामोपेताः पदार्थाः कस्य विकाराः। किरातेन भण्यते-मया मार्गे गच्छता अरण्ये स्वयमेव मृतो महामूषिको दृष्टः। तयोरस्थनामिमे विकारा इति । केनचिद् द्विजेन भणितम् - त्वदीयं वस्त्रं गतं, येन कौपीनं परिधायागतोऽसि । तेनोद्यते-अहं कोटीभटो जोषां विक्रयणार्थमागच्छन् मार्गे चौरैमुषितः । इति श्रवणादनु सर्वैरुपहसितम्-एवंविधाः पदार्थाः स्वनिकटे सन्नि स्वयं कोटीभटस्तथापि मुषितः इति । स बभाण-किमिति हसनं विधीयते । तैरभाषि-मधिकयोरस्थ्नामायुधानि कि भवन्ति । कोटीभटः किं चौरैमष्यते। स बभाण-किमि मेव कौतुकम् । भवत्पुराणे किमेवंविधं कौतुकं नास्ति । किमेवमस्ति । यद्यस्ति हि ब्रूहि । एवमस्तु । प्रोच्यते। शृणुत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org