________________
३६४
पावकीर्तिविरचता करोति, तावकिमपि नश्यति । भयचकितचित्तेन दक्षिणभुजे ऽवलोकिते ब्रह्मा उत्थितः। वामभुजावलोकनेन वासुदेवो जातः । त्रयो ऽपि कियत्कालं यावत्तिष्ठन्ति स्त्रीरूपाभावे ऽनङ्गाग्निना संतप्ता बभूवुः। ततो वासुदेवेन स्त्रीरूपं खटिकया लिखितम् । तस्यां ब्रह्मणा चैतन्यं प्रापितम् । तदनु सा नग्नरूपेणोत्थिता । महेश्वरेण वस्त्रं दत्तम् । हस्तश्च धृतः। ततो वासुदेवेन भणितम्मया लिखिता । अहं स्वामी । ब्रह्मणोदितम्-मया चैतन्यं प्रापिता। अहं स्वामी । इति झगडके सति त्रिभिरितस्तत आकृष्टा । त्रस्त्रिशत्कोटिदेवैर्भणितम्-विचार्य एकेन स्त्री कर्तव्येति । कथं विचारः । सुरैरभाणि-येन प्रथममुत्पादिता स पिता । येन चैतन्यं प्रापिता स माता। वस्त्रदाता वल्लभ इति शिवाय दत्ता। तया सह सुखेन स्थितं शङ्करं दृष्ट्वा पुनरितराभ्याम् अमर्षात् युद्ध कृते सा लज्जया जलं बभूव । नदीरूपेण वोढुं लग्ना। सा नदो गङ्गा जाता । पुनस्ते मैत्री गताः। तस्या विस्तारं दृष्ट्वा त्रयो ऽपि तदनुभवनाथं पूर्ववद् विष्णू रूपं, ब्रह्मा चैतन्यं, महेश्वरो वस्त्रादिकं करोति । तत इदं सूत्रम्
कायं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः।
एकमूर्तित्रयो भागा ब्रह्मविष्णुमहेश्वराः ।। ततो बहुजनसंपूर्णो जातो लोकः । एवं लोकोत्पत्ति कृत्वा बहुकाले गते हरिब्रह्मणोझगडको जातः । अह (ह) महं महानिति । ततो महेश्वरेणोक्तम्-कोलाहलो न विधेयः । एको मम शिरो ऽवलोक्यापरः पादावलोक्य प्रथममागच्छति स महानिति । तदनु शंकरः ऊर्ध्वलोके शिरः, मध्यलोके लिङ्गम्, अधोलोके पादौ विधाय स्थित्वा मूषिकप्रमाणतनुः स्थूलपुच्छः पृष्ठे रेखात्रयालङ्कृतः खडिहलकरूपेणोपरि गतः। महता कष्टेन यावन्नाभिप्रदेशं गच्छति तावत्केतकीमागच्छन्तों दृष्ट्वा कस्मादागतासोति ब्रह्मणा तयोक्तम्-महेश्वरमस्तकस्थितपिङ्गलजटायाः सकाशात् । कियत्कालं निर्गता । दिव्यषण्मासान् । ततस्तेन प्रार्थिता । अहमनेन पिङ्गलजटायाः सकाशाबानोतेति भणितव्यम् । एवमस्त्वित्यभ्युपगतं तया । ततो व्याधुटितो ब्रह्मा आगत्य भणति-तव शिरो दृष्ट्वा तत्र पिङ्गलजटायां स्थिता केतको आनोतेति पृष्टया तयाप्येवमित्युक्तम् । ततः शिवो ज्ञात्वा मौनेन स्थितः। हरिवंराहरूपेण जङ्घप्रदेशं गतोऽग्रे गसुमशक्तः सन्नागत्य भणति-शिव, तव जङ्घपर्यन्तं गतोऽहमिति । ततस्तुष्टेन शङ्करेण भणितं वासुदेवाय त्वं राजपूज्यो भव श्रियालंकृतश्च । ब्रह्मणः प्रतिपादयति-त्वं मृषाभाषी सूत्रमिदमसत्यं कृतवान् । तच्च किम्
सत्यादुत्पद्यते धर्मो दयादानेन वर्धते।
क्षमया स्थाप्यते धर्मः क्रोधलोभाद्विनश्यति ॥ अतस्त्वं भिक्षाभाजनं पूजारहितश्च भवेति शापितः। केतक्यपि मृषाभाषिणोति मम मस्तकारोहणं मा करोदिति निषिद्धा किल लिङ्गपुराणे । अतो महेश्वरस्योदलोके शिरः मध्यलोके लिङ्गम् अधोलोके पादौ किल पूज्यौ। हे मित्र, यद्यते सर्वज्ञा महेश्वरस्तयोर्गुरुलघुत्वं कुतो न जानाति । तावप्यात्मनोगमनाशक्तित्वं न जानीतः इत्येतेषां विरुद्धम्। अनेन निरूपितम्-अतो मया एतेषां नमनं विहाय एवंविधस्य नतिः क्रियते । किविशिष्टस्य ।
पातालं येन सर्व त्रिभुवनसहितं सासुरेन्द्रामरेन्द्र भग्नं स्वैः पुष्पबाणः भयचकितबलं स्त्रीशरण्यकनिष्ठम् । सो ऽयं त्रैलोक्यधीरः प्रहतरिपुबलो मन्मथो येन भग्नस्तं वन्दे देवदेवं वृषभहरिहरि शङ्करं लोकनाथम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org