________________
(शी०)
तीति ॥ एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितं, तस्य स्वयमेवोपात्तत्वेन तव्याख्यानस्य न्याय्यत्वात् , तच्चेदं सूत्रम् 'लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणे'त्यादि ।। अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थमाह
कई सयं वहंती केई अन्नेहि उ वहाविती । केई अणुमन्नंती पुढविकायं वहेमाणा ॥१०१ ॥ द्रा स्पष्टा, तद्वधे अन्येपामपि तदाश्रितानां वधो भवतीति दर्शयितुमाह
जो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए । अनियाए अनियाए दिस्से य तहा अदिस्से य॥१२॥ ___ यः पृथ्वीकार्य 'समारभते' व्यापादयति सः 'अन्यानपि' अप्कायद्वीन्द्रियादीन् 'समारभते' व्यापादयति उदुम्बरवटफलभक्षणप्रवृत्तः तत्फलान्तःप्रविष्टत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाईत्ति अकारणेन कारणेन च, यदिव.ऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च 'दृश्यान्' द रादीन् 'अदृश्यान्' पनकादीन् 'समारभते' व्यापादयतीत्यर्थः॥ एतदेव स्पष्टतरमाह
पुढविं समारभंता हणंति तन्निसिए य बहुजीवे । सुहमे य बायरे य पजत्ते या अपजते॥१०३ ॥ स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाहएयं वियाणिऊणं पुढवीए निक्विवंति जे दंडं । तिविहेण सबकालं मणेण वायाए कारणं ॥ १०४ ॥
'एवमि'त्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं वन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं-पृथिवीश्रीआचा- समारम्भादयुपरमन्ति, ते ईदृक्षा अनगारा भवन्तीत्युत्तरगाथायां वक्ष्यति, 'त्रिविधेने ति कृतकारितानुमतिभिः 'सर्वकालं' अध्ययन राङ्गवृत्तिः यावजीवमपि मनसा वाचा कायेनेति ॥ अनगारभवने उक्तशेषमाह
13उद्देशकः२ गुत्ता गुत्तीहि सवाहिं समिया समिईहिं संजया। जयमाणगा सुविहिया एरिसया हुंति अणगारा ॥१०॥
- तिसृभिर्मनोवाकायगुप्तिभिर्गुप्ताः, तथा पञ्चभिरीर्यासमित्यादिभिस्समिताः, सम्यक्-उत्थानशयनचमणादिक्रियासु ॥३४॥
यताः संयताः 'यतमानाः' सर्वत्र प्रयलकारिणः, शोभनं विहितं-सम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति ॥ गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमे'ऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यते, तश्चेदं सूत्रम्
अहे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सि लोए पव्वहिए तस्थ तत्थ पुढो पास आतुरा परितावेति (सू० १४) अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिर्भवतीत्युक्तं, यस्त्वपरिज्ञातकर्मा स भावातॊ भवतीति, तथाऽऽदिसूत्रेण सह सम्बन्धः-सुधर्मस्वामी जम्बूनाम्ने इदमाचष्टे-'श्रुतं मया' किं तच्छ्रुतं? पूर्वोदेशकार्थ प्रदर्येदमपीति, 'अट्टे' इत्यादि, परम्परसम्वन्धस्तु 'इह एगेसिं णो सन्ना भवती'त्युक्तं, कथं पुनः संज्ञा न भवतीति, आतत्वात् , तदाह- ४ ॥३४॥ 'अदृ'इत्यादि, आतॊ नामादिश्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतच, तत्रागमतो
ज्ञाता-आर्सपदार्थज्ञस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादि* दुःखसङ्कटनिमग्नो भावात इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकातिवाद्धिताहितविचार
शून्यमना भावातः कर्मोपचिनोति, यत उक्तम्-"सोइंदियवसट्टे णं भंते! जीवे किं बंधइ? किं चिणाइ ? किं उवचिणाइ?, गोयमा! अह कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणवद्धाओ पकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टई" एवं स्पर्शनादिष्वप्यायोजनीयम् , एवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च-"रोगबोसकसाएहिं, इंदिएहि य पञ्चहिं। दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया ॥१॥" यदिवा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽर्तः, कः पुनरेवंविध इत्यत्राह-लोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्यक्षेत्र
कालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदर्याप्रशस्तभावोदयवर्त्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानातः स सर्वोदापि परियूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधाद्रव्यभावभेदात्, तत्र सचित्तद्रव्यपरिघुनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरिङ्नो जीर्णपटादिः,
१ श्रोत्रेन्द्रियवशाता भदन्त ! जीवः कि बध्नाति ? किं चिनोति ! किमुपचिनोति ?, गौतम ! अष्ट कर्मप्रकृतीः शिथिलबन्धनबद्धा गाढवन्धनबद्धाः प्रकरोति, यावदनादिकमनवनता दीपावानं चातुरन्तसंसारकान्तारमनुपर्यटति. २ रागद्वेषकषायैरिन्द्रियैश्च पञ्चभिः । द्विधा मोहनीयेन वा आर्ताः संसारिणो जीवाः ॥१॥
सरकार ARACK ROCKS
NAGACC+%A4
%
%%
%%%
%%%%257 4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org