________________
22
श्रीआचा-
(शी०)
॥३२॥
णता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालं तत्र | तत्रोत्पद्यन्त इति, एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽह- गायरपुढविकाइयपज्जत्तो अन्नमन्नमोगाढो । सेसा ओगाहंते सुहमा पुण सव्वलोगंमि ॥९१॥
उद्देशकः२ __बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य । शरीरमवगाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्सद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति ॥ उपभोगद्वारमाह
चंकमणे यहाणे निसीयण तुयदृणे य कयकरणे । उच्चारे पासवणे उवगरणाणं च निक्खिवणे ॥९२॥ आलेवण पहरण भूसणे य कयविक्कए किसीए य । भंडाणंपि य करणे उवभोगविही मणुस्साणं ॥ ९३ ॥
चकमणोद्भस्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवणउपकरणनिक्षेपआलेपनाहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति । यद्येवं ततः किमित्यत आह
एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥९४॥ एभिश्चमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-'सात' सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतर इति, 'परस्य' पृधिव्याश्रितजन्तुराशेः
॥ ३२॥ 'दुःखम' असातलक्षणं तदुदीरयन्ति-उत्सादयन्तीति, अनेन भ्रदानजनितः शुभफलोदयः प्रत्युक्त इति ॥ अधुना शस्त्रद्वार-शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा-द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्नमपि समाप्तविभागभेदाद्विधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाह| हलकुलियविसकुदालालित्तयमिगसिंगकट्ठमग्गी य । उच्चारे पासवणे एयं तु समासओ सत्थं ॥१५॥
तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्ठाभ्युच्चारप्रश्रवणादिकमेतत् 'समासतः' संक्षेपतो द्रव्यशस्त्रम् ॥ विभागद्रव्यशत्रप्रतिपादनायाहकिंची सकायसस्थं किंची परकाय तदुभयं किंचि । एयं तु दव्यसत्थं भावे अ असंजमो सत्थं ॥९॥
किश्चित्स्वकायशखं पृथिव्येव पृथिव्याः, किश्चिसरकायशस्त्रमुदकादि, तदुभयं किश्चिदिति भूदकं मिलितं भुव इति । तच सर्वमपि द्रव्यशवं, भावे पुनः 'असंयमः' दुष्पयुक्ता मनोवाकायाः शस्त्रमिति ॥ वेदनाद्वारमाह
पायच्छेयण भेयण जंघोर तहेव अंगुवंगेसुं। जहईति नरा दुहिया पुढषिकाए तहा जाण ॥९७॥ यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखिताः, तथा पृथिवीकायेऽपि वेदनां जानीहि ॥ यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह
नत्थि य सि अंगुषंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरती केसिंचऽतियागए पाणे ॥९८॥ पूर्वार्द्ध गतार्थ, केषाश्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाश्चित्तु प्राणानप्यतिपातयेयुरिति । तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आर्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिमशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवाना कश्चि- अध्ययन त्सङ्घट्टितः कश्चित्सरितापितः कश्चिन्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ॥ वधद्वारमाहपवयंति य अणगारा ण य तेहि गुणेहि जेहिं अणगारा । पुडविं विहिंसमाणा न हुतेवायाहि अणगारा॥१९॥
उद्देशकः२ | इह ह्येके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगाराः' प्रव्रजिताः, न च तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्तन्ते, येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्तन्ते तदर्शयति-यतस्तेऽहर्निशं पृथिवीजन्तुविपत्तिकारिणो दृश्यन्ते गुदपाणिपादप्रक्षालनार्थम् , अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम् , अतश्च यतिगुणकलापशून्या न वाङ्मात्रेण युक्तिनिरपेक्षेणानगारत्वं बिभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्डेन हेतुः, उत्तरगाथार्द्धन साधर्म्यदृष्टान्तः, स चायं प्रयोगः-कुतीथिका यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद् , इह || ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्तन्ते, गृहस्थवत् । साम्प्रतं दृष्टान्तगर्भ निगमनमाहअणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निहोसत्ति य महला विरइदुगंछाइ मइलतरा ॥१०॥ ___ 'अनगारवादिनों' वयं यतय इति वदनशीलाः पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽतः 'अगारिसमा' गृहस्थ-| तुल्या भवन्ति, अभ्युच्चयमाह-सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात् 'मलिनाः' कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रिताया निरवद्यानुष्ठानास्मिकाया विरतेः 'जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भव
तिकृत्वो गमतेन शिलापुसिमाणानतेषु गुणे
श्रीआचाराङ्गवृत्तिः (शी)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org