________________
15
***%%%**********
श्रीआचा- राङ्गवृत्तिः (शी०)
॥२२॥
सञ्जातं, उक्तं च-'किं थे तैयं पम्हुहूं जं च तया भो! जयंतपवरंमि । वुच्छा समयनिवद्धं देवा! तं संभरह जातिं ॥१॥ इति गाथात्रयतापार्थः ॥४॥ | साम्प्रतं प्रकृतमनुम्रियते-यो हि सोऽहमित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति
से आयावादी लोयावादी कम्मावादी किरियावादी (सू० ५) _ 'स' इति यो भ्रान्तः पूर्व नारकतिर्यग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामूर्त्तादिलक्षणोपेतमात्मानमवैति, स इत्थंभूतः 'आत्मवादीति आत्मानं वदितुं शीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिकं वाऽऽस्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिन स्यात्, सर्वथा नित्यत्वेऽपि 'अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्य'मितिकृत्वा । मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात् , सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः-प्राणिगणस्तं वदितुं शीलमस्येति, अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापाती'ति लोकः-चतुर्दशरज्वात्मकः प्राणिगणो वा, तत्रापतितुं
१च. प्र. २ किमथ तद्विस्मृतं यच तदा भो जयन्तप्रवरे । उषिताः निबद्धसमयं देवास्तां स्मरत जातिम् ॥ ॥ ३ नं वेत्ति. शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च जीवास्तिकायस्य सम्भवेन जीवानां गमना- अध्ययन गमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् 'कर्मवादी' कर्म
उद्देशकः१ ज्ञानावरणीयादि तद्वदितुं शीलमस्य, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्व गत्यादियोग्यानि कर्मा-| ण्याददते, पश्चात्तासु तासु विरूपरूपासु योनिषूत्पद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमिति । अनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः। तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं वध्यते, योगश्च व्यापारः, स च क्रियारूपः, अतः कर्मणः कार्यभूतस्य वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः-"जावं णं भंते ! एस जीवे सया समियं 31 एयइ वेयइ चलति फंदति पद्दति तिप्पति जाव तं तं भावं परिणमति तावं च णं अट्ठविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा णो णं अबंधए"त्ति, एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति, अनेन च सांख्याभिमतमात्मनोऽक्रियायादित्वं निरस्तं भवति ॥ ५ ॥ साम्प्रतं पूर्वोक्ता क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिना तिड्प्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमनःपर्यायकेवलज्ञानजातिस्मरणव्यतिरेकेणव | त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगमं दर्शयितुमाह
१ यावद् भदन्त ! एष जीवः सदा समितमेजते ग्येजते चलति स्पन्दते तिप्यति यावत् तं तं भावं परिणमति तावच अष्टविधवन्धको या सप्तविधयन्धको २२ । वा षद्विधयन्धको वा एकविधबन्धको वा, नाबन्धकः,
अकरिस्सं चऽहं, कारवेसुं चऽहं, करओ आवि समणुन्ने भविस्सामि (सू०६) इह भूतवर्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिनव विकल्पाः संभवन्ति, ते चामी-अहमकार्पमचीकरमहं कुर्वन्तमन्यमनुज्ञासिषमहं करोमि कारयाम्यनुजानाम्यहमिति करिष्याम्यहं कारयिष्याम्यहं कुर्वन्तमन्यमनुज्ञास्याम्यहमिति, एतेषां च मध्ये आद्यन्तौ सूत्रेणैवोपात्तौ, तदुपादानाच्च तन्मध्यपातिनां सर्वेषां ग्रहणम् , अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः 'कारवेसुं चऽहमिति सूत्रेणोपात्तः, एते च चकारद्वयोपादानादपिशब्दोपादानाच्च मनोवाकायैश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्ति, अयमत्र भावार्थः-अकार्षमहमित्यत्राहमित्यनेनात्मोल्लेखिना विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्चायं भावार्थो भवति-स एवाहं येन मयाऽस्य देहादेः पूर्व यौवनावस्थायामिन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकार्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम् , उक्तं च-"विहेवावलेवनडिएहिं जाई कीरंति जोवणमएणं । वयपरिणामे सरियाइँ ताई हियए खुडुकंति ॥ १ ॥" 'तथा अचीकरमह'मित्यनेन परोऽकार्यादी प्रव-18 तैमानो मया प्रवृत्ति कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानं, तथा 'करोमी' त्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः, तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविप्यामीत्यनागतकालोल्लेखः, अनेन च कालत्रयसंस्पर्शन देहेन्द्रियातिरिक्तस्यात्मनो भूतवर्तमानभविष्यत्कालपरिणतिरू
१चकारद्वयापिशब्दोपादानान्मनो. प्र. २ विभवावलेपनटितैर्यानि क्रियन्ते यौवनगदेन । वयःपरिणामे स्मृतानि तानि हृदये शाल्यायन्ते ॥१॥
************
KHA
हमति सूत्रेणोपात्तः, एतामहमित्यत्राहमित्यनेनारमावस्थायामिन्द्रियवशन वित
***
**
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org