________________
KARNAGACAAAAA%
जाहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादक, तान्वन्दित्वेति सम्बन्धः सर्वत्र योग्यः, रागद्वेष जितो जिना:-तीर्थ
कृतस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, 'वन्दित्वे ति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह-'आचारस्य' यथार्थनाम्नः 'भगवत' इति अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिनियुक्तिस्तां 'कीर्तयिष्ये' अभिधास्ये इति अन्तस्तत्वेन निष्पन्नां नियुक्तिं वहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ॥१॥ यथाप्रतिज्ञातमेव बिभणिषुनिक्षेपार्हाणि पदानि तावत् सुहद्भूत्वाऽऽचार्यः संपिण्ड्य कथयति
आयार अंग सुयखंध बंभ चरणे तहेव सत्थे य । परिणाए संणाए निक्खेवो तह दिसाणं च ॥२॥ आचारअङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्तव्य इति । तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दा नामनिष्पन्ने निक्षेपे द्रष्टव्याः, अङ्गश्रुतस्कन्धशब्दा ओघनिष्पन्ने, संज्ञादिक्शब्दौ सूत्रालापकनिष्पने निक्षेपे द्रष्टहाव्याविति ॥ २॥ एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह
चरणदिसावजाणं निखेवो चउक्कओ य नायब्यो । चरणमि छविहो खलु सत्तविहो होइ उ दिसाणं ॥॥
१ चान्द्रमतेन णिज उभयपदभावात् । श्रीआचा- चरणदिग्वर्जानां चतुर्विधो निक्षेपः, चरणस्य षविधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथा-IP अध्ययनं १ राङ्गवृत्तिः सम्भवमायोज्यम् ॥३॥ नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह(शी०) जत्थ य ज जाणिजा निक्खेवं निक्खिवे निरवसेसं। जत्थविय न जाणिज्जा चउक्कयं निक्विचे तत्थ ॥ ४॥
उद्देशकः१ | 'यत्र' चरणदिक्शब्दादौ यं निक्षेप-क्षेत्रकालादिकं जानीयात्तं तत्र निरवशेष निक्षिपेद्, यत्र तु निरवशेषं न जानीयादा-1 ॥४ ॥
चाराङ्गादौ तत्रापि नामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः॥४॥ प्रदेशान्तरप्रसिद्धस्यापर्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽभ्यधायि| आयारे अंगंमि य पुवुट्टिो चउक्कनिक्खेवो । नवरं पुण नाणतं भावायारंमि तं वोच्छं ॥५॥
क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते-'भावाचारविषय' इति ॥५॥ यथाप्रतिज्ञातमाह
तस्सेगह पवत्तण पढमंग गणी तहेव परिमाणे । समोयारे सारो य सत्तहि दारेहि नाणत्तं ॥६॥ | 'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः-प्रवर्तनमाचारस्याभूत् तच्च वाच्यं, तथा|8 प्रथमाङ्गता च वाच्या, तथा गणी-आचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं, तथा 'परिमाणम्' इयत्ता है। वाच्या, तथा किं व समवतरतीत्येतच्च वाच्यं, तथा सारश्च वाच्यः, इत्येभिरैः पूर्वस्माद्भावाचारादस्य भेदो-नाना-1 ॥४॥ स्वमिति पिण्डार्थः॥६॥ अवयवार्थ तु नियुक्तिकृदेवाभिधातुमाह
आयारो आचालो आगालो आगरो य आसासो। आयरिसो अंगति य आइण्णाऽऽजाइ आमोक्खा ॥७॥
आचर्यते आसेव्यत इत्याचारः, स च नामादिचतुर्डा, तत्र शशरीरभव्यशरीरतथ्यतिरिक्तो द्रव्याचारो|नया गाथयाऽनुसतव्यः-'णामणधोयणवासणसिक्खावणसुकरणाविरोहीणि । दव्वाणि जाणि लोए दवायारं वियाशाणाहि ॥१॥ भावाचारो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः पाण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति ४)स विज्ञेयो, लोकोत्तरस्तु पश्चधा ज्ञानादिकः, तत्र ज्ञानाचारोऽष्टधा, तद्यथा-काले विणए बहुमाणे उवहाणे हातहा अणिण्हवणे । वंजणअत्थतदुभए अहविहो णाणमायारो ॥१॥' दर्शनाचारोऽप्यष्टधैव, तद्यथा-'निस्स-1
कियनिकंखिय निन्वितिगिच्छा अमूढदिट्टी य । उववूहथिरीकरणे वच्छल्लपभावणे अह ॥२॥' चारित्राचारो१ऽप्यष्टधैव,-'तिन्नेव य गुत्तीओ पंच समिइओ अह मिलियाओ । पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो
॥ ३ ॥' तपआचारो द्वादशधा, तद्यथा-'अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कापकिलेसो संलीणया य
MACACAAAAAACHACK
१नामनधावनवासनशिक्षणमुकरणाविरोधीनि । द्रव्याणि यानि लोके द्रव्याचार विजानीहि ॥ १।।
२ कालो विनयः बहुमानः उपधान तथा अनिवः । व्यजनमर्थस्तदुभयलिन् अष्टविधो ज्ञानाचारः ॥१॥ निश्शक्तिो निष्कासितो निर्विचिकित्सोऽमूढदृष्टिश्च ।। उपबृंहा स्थिरीकरणं वात्सल्यं प्रभावनाऽष्टी ।। २॥ तिस एव च गुप्तयः पञ्च समितयोऽष्ट मिलिताः । प्रवचनमातर इमास्तासु स्थितधरणसंपन्नः ॥ ३ ॥ अनशन-र मवमौदर्य वृत्तिसंक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥ ४॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति ॥ ५॥ अनिगृहितबल वीर्यः पराक्रमते यो यथोक्तमायुक्तः । युनक्ति च यथास्थाम ज्ञातव्यः स वीर्याचारः ॥६॥
eHAA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org