________________
edeceaeeeeeeeeeeeeea
मूत्रकृताङ्गे २श्रुतस्कधे शीलाबीयायां
वृत्ती ॥२६८॥
179 | तब, आगमतो शाता तत्र चानुपयुक्ता, नोआगमतस्तु शरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा, तत्रापि सचितद्रव्यमहत् औदारिकादिकं शरीरं, तत्रौदारिक योजनसहस्रपरिमाणं मत्स्यशरीरं, वैक्रियं तु योजनशतसहस्रपरिमाणं, तैजसकामणे तु लोकाकाशप्रमाणे, तदेतदौदारिकवैक्रियतैजसकामणरूपं चतुर्विधं द्रव्यसचित्तमहद्, अचित्तद्रव्यमहत समस्तलोकव्याप्यचित्तमहास्कन्धः, मिश्रं तु तदेव मत्स्यादिशरीरं, क्षेत्रमहत् लोकालोकाकाशं, कालमहत्सर्वाद्धा, भावमहदादयिकादिभावरूपतया पोढा, तत्रौदयिको भावः सर्वसंसारिषु विद्यत इतिकृखा बहाश्रयखान्महान् भवति, कालतोऽप्यसौ त्रिविधः, तद्यथा-अनाद्यप| यवसितोऽभव्यानामनादिसपर्यवसितो भव्यानां सादिसपर्यवसितो नारकादीनामिति, क्षायिकस्तु केवलज्ञानदर्शनात्मकः साधपर्य| वसितखात्कालतो महान् , क्षायोपशमिकोऽप्याश्रयवहुखादनाद्यपर्यवसितखाच महानिति, औपशमिकोपि दर्शनचारित्रमोहनीयानुदयतया शुभभावखेन च महान् भवति, पारिणामिकस्तु समस्तजीवाजीवाश्रयखादाश्रयमहत्त्वान्महानिति, सान्निपातिकोऽप्याश्रयबहुखादेव महानिति । उक्तं महद्, अध्ययनस्यापि नामादिकं पोढा निक्षेपं दर्शयितुं नियुक्तिकृदाह-अध्ययनस्य नामादिकः पोढा निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते, अत्र च थुतस्कन्धे सप्त महाध्ययनानि, तेषामाधमध्ययनं पौण्डरीकाख्यं, तस्य चोपक्रमादीनि चखार्यनुयोगद्वाराणि प्ररूपणीयानि, तत्रोपक्रम आनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात्षोढा, तत्र पूर्वानुपूच्या प्रथममिदं पश्चानुपूर्ध्या तु सप्तममनानुपूर्त्या तु सप्तगच्छगतायाः श्रेण्या अन्योऽन्याभ्यासेन द्विरूपोने सति पञ्चाशच्छतान्यष्टत्रिंशदधिकानि भवन्ति, नानि तु पण्णाग्नि, तत्रापि क्षायोपशमिके भावे, सर्वस्यापि च श्रुतस्य क्षायोपशमिकखात्, प्रमाणचिन्तायां जीवगुणप्रमाणे, वक्तव्यतायां सामान्येन सर्वेष्वध्ययनेषु खसमयवक्तव्यता, अर्थाधिकारः पौण्डरीकोप-| मया खसमयगुणव्यवस्थापन, समवतारे तु यत्र यत्र समवतरति तत्र तत्र लेशतः समवतारितमेवेति। उपक्रमानन्तरं निक्षेपः, सच १ पौण्डनामनिष्पन्ने निक्षेपे पौण्डरीकमित्यस्याध्ययनस्य नाम, तनिक्षेपार्थ नियुक्तिकृदाह-'नाम'मित्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षे- रीकाध्य. त्रकालगणनासंस्थानभावात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णवादनादृत्य द्रव्यपौण्डरीकमभिधित्सुराह-'जो' इत्यादि, यः पुण्डरीककश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेव दर्शयति-'उत्पतितुकामः' समुत्पित्सुस्तथाविधकर्मोदयात् 'पौण्डरीकेषु' श्वे- निक्षेपाः तपद्मपु वनस्पतिकायविशेपेष्वनन्तरभवे भावी स द्रव्यपौण्डरीकः, खलुशब्दोवाक्यालङ्कारे, भावपौण्डरीकं वागमतः पौण्डरीकपदार्थज्ञस्तत्र चोपयुक्त इतिाएतदेव द्रव्यपौण्डरीक विशेषतरंदर्शयितुमाह-'एगे'त्यादि,एकेन भवेन गतेनानन्तरभव एव पौण्डरीकेघूत्पत्स्यते ४ स एकभविकः, तथा तदासन्नतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेषूत्पद्यते, एते अनन्तरोक्ता त्रयोऽप्यादेशविशेपा द्रव्यपौण्डरीकेऽवगन्तव्या इति, "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं ४ तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१॥” इति वचनात् , इह च पुण्डरीककण्डरीकयोात्रोमहाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनखमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु कण्डरीकमिति । तत्र च नरकवर्जासु तिसष्वपि गतिषु ये शोभनाः पदार्थास्ते पौण्डरीकाः शेपास्तु कण्डरीका इत्येतत्प्रतिपादयन्नाह-'तेरिच्छिये त्यादि कण्ठ्या, तत्र तिर्यक्षु प्रधानस्य पौण्डरीकसप्रतिपादनार्थमाह-जलचरेत्यादि, जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषु सिंहादयो बलवर्णरूपादिगुणयुक्ता उरः परिसपेषु म
॥२६८॥ |णिफणिनो भुजपरिसर्पषु नकुलादयः खचरेषु हंसमयूरादयः इत्येवमन्येऽपि 'स्वभावन' प्रकृत्या लोकानुमतास्ते च पीण्डरीका इव प्रधाना भवन्ति । मनुष्यगतौ प्रधानाविष्करणायाह-'अरिहंते'त्यादि, सर्वातिशायिनीं पूजामहन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, तथा चक्रवर्तिनः पट्खण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महातपखिनः तथा विद्याधरा वैताठ्यपुराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्य चोपलक्षणार्थखादन्येऽपीक्ष्वाकादयः परिगृह्यन्ते, एतदेव दर्शयति-ये चान्ये महधिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दस्यानुक्तसमुच्चयार्थखात् , ये चान्ये विद्याकलाकलापोपेतास्ते |पौण्डरीका इति । साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकलं प्रतिपादयन्नाह-'भवणे'त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां
चतुर्णा देवनिकायानां मध्ये ये प्रवराः-प्रधाना इन्द्रेन्द्रसामानिकादयस्ते प्रधाना इतिकृता पौण्डरीकाभिधाना भवन्ति । साम्प्र-18 तमचित्तद्रव्याणां यत्प्रधानं तस्य पौण्डरीकखप्रतिपादनायाह-'कंसणा'मित्यादि, कांस्थानां मध्ये जयघण्टादीनि दृष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थजन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां यानि वर्णादिगुणोपेतानि, आदिग्रहणाजात्यचामीकरं तद्विकाराचाभरणविशेषाः परिगृह्यन्ते, तदेवमनन्तरोक्तानि कांस्यादीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त इति । मिश्रद्रव्यपौण्डरीकं तु तीर्थकृचक्रवादय एव प्रधानकटककेयूराद्यलङ्कारालङ्कता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकाभिधित्सयाऽऽह-'खित्तानी'त्यादि, यानि कानिचिदिह देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥ साम्प्रतं कालपौण्डरीकप्रतिपादनायाह-'जीवाः' प्राणिनो भवस्थित्या कायस्थित्या च ये 'प्रवराः' प्रधानास्ते पौण्डरीका भवन्ति, शेषास्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं ६ शुभानुभावखात् , कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवानन्तरभवे
ecececeseseoetreceioes
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org