________________
se
cedeoececeiercersecesesect
त्तियुतं
17 भिक्षुशब्दस्य प्रवृत्तिनिमित्ते त एवावगन्तव्याः, अमी चान्ये, तद्यथा-न उन्नतोऽनुनतः, तत्र द्रव्योन्नतः शरीरेणोच्छ्रितः भावो-18 अतस्वभिमानग्रहग्रस्तः, तत्प्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते । विनीतात्मतया प्रश्रयवान् यतः, एतदेवाह-विनयालङ्कतो गुर्वादावादेशदानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामक:-सदा गुर्वादौ प्रडो भवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृत्त्योद्यतोऽशेष पापमपनयतीत्यर्थः । तथा 'दान्तः' इन्द्रियनोइन्द्रियाभ्यो, तथा 'शुद्धात्मा' शुद्धद्रव्यभूतो निष्पतिकर्मतया 'व्युत्सृष्टकायश्च' परित्यक्तदेहश्च यत्करोति तदर्शयति-सम्यक् 'विधूय' अपनीय 'विरूपरूपान्' नानारूपाननुकूलप्रतिकूलान्-उचावचान् द्वाविंशतिपरीपहान् तथा दिव्यादिकानुपसर्गाश्चेति, तद्विधृननं तु यत्तेषां सम्यक् सहन-तैरपराजितता, परीपहोपसर्गाश्च विधृयाध्यात्मयोगेन-सुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धम्-अवदातमादानं-चारित्रं यस्य स शुद्धादानो भवति । तथा सम्यगुत्थानेन--सच्चारित्रोद्यमेनोत्थितः तथा स्थितो-मोक्षाध्वनि व्यवस्थितः परीषहोपसगैरप्यधृष्य आत्मा यस्य स स्थितात्मा, तथा 'संख्याय' परिज्ञायासारतां संसारस्य दुष्णापतां कर्मभूमेर्वोधेः सुदुर्लभवं चावाप्य च सकलां संसारोत्तरणसामग्री सत्संयमकरणोद्यतः परैः-गृहस्थैरात्मार्थ निर्वर्तितमाहारजातं तैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी, स एवंगुणकलितो भिक्षुरिति वाच्यः ॥३॥ तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अमी चान्ये अपदिश्यन्ते, तद्यथा
एत्थवि णिग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते
| विऊ दुहओवि सोयपलिच्छिन्ने णो प्रयासकारलाभट्ठी धम्मट्ठी धम्मविऊ णियागपडिवन्ने पत्रकता समि(म)यं चरे दंते दविए वोसटकाए निग्गंथेत्ति वच्चे ४ ॥ से एवमेव जाणह जमहं भयंता १६ गाथाशीलाङ्का
षोडशका चायरो॥त्तिबेमि । इति सोलसमं गाहानामज्झयणं समत्तं ॥ पढमो सुअक्खंधो समत्तो ॥१॥
ध्ययनं. __ 'एको' रागद्वेषरहिततया ओजाः, यदिवाऽस्मिन् संसारचक्रवाले पर्यटनसुमान् स्वकृतसुखदुःखफलभाक्वेनैकस्यैव परलोकगमन॥२६५॥
तया सदैकक एव भवति । तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्वेकक एव भवति । तथैकमेवात्मानं परलोकगामिनं वेत्तीत्येकवित्,न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित, यदिवैकान्तविद्| एकान्तेन विदितसंसारखभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित् , अथवैको-मोक्षः संयमो वा तं वेत्ती| ति, तथा बुद्धः-अवगततत्त्वः सम्यक् छिन्नानि अपनीतानि भावस्रोतांसि-संवृतखात्कर्माश्रवद्वाराणि येन स तथा, सुष्टु संयतः-1 कूर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा सुष्टु पञ्चभिः समितिभिः सम्यगित:-प्राप्तो ज्ञानादिकं मोक्षमार्गमसौ सुसमितः, तथा सुष्टु समभावतया सामायिक-समशत्रुमित्रभावो यस्य स सुसामायिकः। तथाऽऽत्मनः-उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याद्यन
1 ॥२६५॥ न्तधर्मात्मकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यग्यथावस्थितात्मखतत्त्ववेदीत्यर्थः । तथा 'विद्वान्' अवगतसर्वप|दार्थस्वभावो न व्यत्ययेन पदार्थानवगच्छति । ततो यत् कैश्चिदभिधीयते, तद्यथा-एक एवात्मा सर्वपदार्थस्वभावतया विश्वव्यापी | श्यामाकतण्डुलमात्रोऽङ्गुष्ठपर्वपरिमाणो वेत्यादिकोऽसद्भूताभ्युपगमः परिहृतो भवति, तथाविधात्मसद्भावप्रतिपादकस्य प्रमाण
स्वाभावादित्यभिप्रायः । तथा 'द्विधाऽपीति द्रव्यतो भावतश्च, तत्र द्रव्यस्रोतांसि यथाखं विषयेष्विन्द्रियप्रवृत्तयः भावस्रोतांसि IS|तु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोद्भवास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतया द्वेषाभावाच्च परिच्छिन्नानि येन
स परिच्छिनस्रोताः, तथा नो पूजासत्कारलाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिय विदधाति, एतदेव दर्शयतिधर्मः श्रुतचारित्राख्यस्तेनार्थः स एव वार्थो धर्मार्थः स विद्यते यस्थासौ धमार्थीति, इदमुक्तं भवा-न पूजाद्यर्थ क्रियासु प्रवतेते अपितु धर्मार्थीति । किमिति ?, यतो धर्म यथावत्तत्फलानि च स्वर्गावाप्तिलक्षणानि सम्यक् वेति, धर्म च सम्यग् जानानो यत्करोति तद्दर्शयति-नियागो-मोक्षमार्गः सत्संयमो वा तं सर्वात्मना भावतः प्रतिपन्नः नियागपडिवोत्ति, तथाविधश्च यत्कुर्यात् तदाह-'समि(म)यंति समतां समभावरूपां वासीचन्दनकल्पां 'चरेत् सततमनुतिष्ठेत् । किंभूतः सन् , आह-दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च, एतद्गुणसमन्वितः सन् पूर्वोक्तमाहनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितश्च निर्ग्रन्थ इति वाच्यः । तेऽपि माहनादयः शब्दा निर्ग्रन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिन्नव्यञ्जना अपि कथञ्चिदेकार्था । इति ॥५॥ साम्प्रतमुपसंहारार्थमाह-सुधर्मस्वामी जम्बूस्खामिप्रभृतीनुद्दिश्येदमाह-से' इति त्यन्मया कथितमेवमेव जानीत यूयं, नान्यो मद्वचसि विकल्पो विधेयः, यसादहं सर्वज्ञाज्ञया ब्रवीमि । न च सर्वज्ञा भगवन्तः परहितैकरता भयात्रातारो रागद्वेषमोहान्यतरकारणाभावादन्यथा बुवेते, अतो यन्मयाऽदितः प्रभृति कथितं तदेवमेवावगच्छतेति । इतिः परिसमाप्त्यर्थे ।
ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमादयः सप्त, नैगमस्य सामान्यविशेषात्मकतया संग्रहल्यवहारप्रवे४ शात्संग्रहादयः षद्, समभिरूढत्थंभूतयोः शन्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुसनशब्दाः पश्च, नैगमस्याप्यन्तर्भावाचखारो,
Reseseeeeeeeeeeee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org