________________
169
सूत्रकृताङ्गं
बाय-यवत्तियुतं
॥२५३॥
अथवा 'जमतीय'ति अस्याध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानं, तच्च ग्रहणमित्युच्यते, तत आदानग्रहणयोनिक्षेपार्थ नियुक्तिकृदाह-'आदाणे' इत्यादि, आदीयते कार्यार्थिना तदित्यादानं, कर्मणि ल्युट् प्रत्ययः, करणे वा, आदीयतेगृह्यते स्वीक्रियते विवक्षितमनेनेतिकृखा, आदानं च पर्यायतो ग्रहणमित्युच्यते, तत आदानग्रहणयोनिक्षेपो(पे) भवति द्वौ चतुष्को, तद्यथा-नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तं, यसाल्लौकिकैः परित्यक्तान्यकर्तव्यमहता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिकृता, भावादानं तु द्विधा-प्रशस्तमप्रशस्तं च, | तत्राप्रशस्तं क्रोधाद्युदयो मिथ्याखाविरत्यादिकं वा, प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसायकण्डकोपादानं सम्यग्ज्ञानादिकं वेत्येतदर्थप्रतिपादनपरमेतदेव वाऽध्ययनं द्रष्टव्यमिति, एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः, भावार्थोऽप्यादानपदस्येव द्रष्टव्यः, तत्पर्यायवादस्पेति । एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुमूत्रार्थनयाभिप्रायेणादानपदेन सहालोच्यमानं शक्रेन्द्रादिवदेकार्थम्-अभिन्नार्थ भवेत् , शब्दसमभिरूढत्थंभूतशब्दनयाभिप्रायेण च नानार्थ भवेत् । इह तु 'प्रकृतं' प्रस्ताव 'आदाने आदानविषये यत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य नाम कृतमिति ॥ आदानीयाभिधानस्थान्यथा या प्रवृत्तिनिमित्तमाह-यद पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते-पर्यन्ते तदेव पदं शब्दतोऽर्थत उभयतश्च द्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदौ भवति एतेन प्रकारेण-आद्यन्तपदसशखेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्तेः 'पर्याय:' अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादानादिति । केचित्तु पुनरस्याध्ययनस्यान्तादिपदयोःसंकलनात्संकलिकेति नाम
१ कर्मकरणयोभेदात् , यद्वा धातुभेदेनार्थभेदात् , सामान्य प्रहणं आदावादानादादानमिति वा भेदः। कुर्वते, तस्या अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादौ भावसंकलना तूत्तरोत्तरविशिष्टाध्यवसाय- १५आदासंकलनम् , इदमेव वाऽध्ययनम् , आयन्तपदयोः संकलनादिति । येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं सदादानपदम् ,
नीयाध्य. अत आदेनिक्षेपं कर्तुकाम आह-आदेर्नामादिकश्चतुर्धा निक्षेपः, नामस्थापने सुगमखादनादृत्य द्रव्यादि दर्शयति-द्रव्यादिः पुनः 'द्रव्यस्य' परमाण्वादेर्यः 'स्वभावः' परिणतिविशेषः 'स्वके स्थाने खकीये पर्याये प्रथमम्-आदौ भवति स द्रव्यादिः, द्रव्यस्य दध्यादेर्य आयः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीनः, एवमन्यस्यापि परमाण्वादेर्द्रव्यस्य यो यः परिणतिविशेषः प्रथ-12 ममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति । ननु च कथं श्रीरविनाशसमय एव दध्युत्पादः, तथाहि-उत्पाद विनाशौ भावाभावरूपौ वस्तुधर्मों वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकसिमेव क्षणे तद्धर्मिणोदधिक्षीरयोः सत्ताऽवाप्नोति, एतच दृष्टेष्टबाधितमिति, नैष दोषः, यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि-तत्परिणामिद्रव्यमेकसिमेव क्षणे एकेन स्वभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकखाद्वस्तुन इति यत्किंचिदेतत् । तदेवं द्रव्यस्य विवक्षितपरिणामेन परिणमतो य आधः समयः स द्रव्यादिरिति स्थितं, द्रव्यस्य प्राधान्येन विवक्षितखादिति ॥ साम्प्रतं भावादिमधिकृत्याह-भाव:-अन्तःकरणस्य परिणतिविशेषस्तं 'बुद्धाः' तीर्थकरगणधरादयो 'व्यपदिशन्ति' प्रतिपादयन्ति, तद्यथा-आगमतो नोआगमतश्च, तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानखात् 'पञ्चवि
। ॥२५३॥ धः पञ्चप्रकारो भवति, तद्यथा-प्राणातिपातविरमणादीनां पश्चानामपि महावतानामाद्यः प्रतिपत्तिसमय इति, तथा 'आगम-18 ओ' इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा-यदेतद्गणिनः-आचार्यस्य पिटकं-सर्वस्वमाधारो वा तवादशाङ्गं भवति, तुशब्दादन्यदप्युपाङ्गादिक द्रष्टव्यं, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकस्तत्राप्याचं पदं तस्यापि प्रथमम| क्षरम् , एवंविधो बहुप्रकारो भावादिष्टव्य इति । तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्यापि ॥ ककारो, द्वादशानां खङ्गानामाचाराङ्गमादिस्तस्यापि शस्त्रपरिज्ञाध्ययनमस्यापि च जीवोद्देशकस्तस्यापि 'सुर्य'ति पदं तस्यापि सु. कार इति, अस्य च प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आधुद्देशक श्लोकपादपदवर्णादिष्टव्य इति । गतो नामनिष्पभो निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
जमतीतं पडुपन्नं, आगमिस्सं च णायओ । सवं मन्नति तं ताई, दसणावरणंतए ॥१॥ __ अंतए वितिगिच्छाए, से जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होइ तहिं तहिं ॥२॥ ||
तहिं तहिं सुयक्खायं, से य सच्चे सुआहिए । सया सच्चेण संपन्ने, मित्तिं भूएहिँ कप्पए ॥३॥ __ भूएहिं न विरुज्झेजा, एस धम्मे बुसीमओ । बुसिमं जगं परिन्नाय, अस्सि जीवितभावणा ॥४॥
अस्य चानन्तरसूत्रेण संबन्धो वक्तव्यः, स चायं, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽर्हति तथोक्तं समाधि भाषितुं, यश्च 81 यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भाषितुमर्हति नान्य इति । परम्परसूत्रसंबन्धस्तु य एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतदुध्येतेत्यादिकः संबन्धोऽपरसूत्रैरपि स्वबुद्धा लगनीय इति । तदेवं प्रतिपादितसंबन्धस्यास्य सूत्रस्य व्याख्या प्रस्तूयते-यत्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतम्-एण्यत्कालभावि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org