________________
सूत्रकृताङ्गं
शीलाङ्काचायतियुतं
॥२४२॥
सूत्रकृताङ्ग
शीलाङ्काचायनियुतं
॥२४३॥
162
| शोभनं नवभिर्ब्राचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्यं 'बसेत्' तिष्ठेत्, यदिवा 'सुब्रह्मचर्य' मिति संयमस्तद् आवसेत् तं सम्यक् | कुर्यात्, आचार्यान्तिके यावजीवं वसमानो यावदभ्युद्यतविहारं न प्रतिपद्यते तावदाचार्यवचनस्यावपातो-निर्देशस्तत्कार्यवपातका| री-वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते- अपनीयते कर्म येन स विनयस्तं सुष्ठु शिक्षेद् - विदध्यात् ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेदिति । तथा यः 'छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात्, यथा हि आतुरः सम्यम्वैद्योपदेशं कुर्वन् श्लाषां लभते रोगोपशमं च एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थान भूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति ॥ १ ॥ यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छानिर्गत्य एकाकिविहारितां प्रतिपद्यते स च बहुदोषनाग भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह - 'यथेति दृष्टान्तोपप्रदर्शनार्थः 'यथा' येन प्रकारेण 'द्विजपोतः' पश्चिशिशुरव्यक्तः, तमेव विशिनष्टि - पतन्ति - गच्छन्ति तेनेति पत्रं - पक्षपुटं न विद्यते पत्रजातं पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात् खनीडात् लवितुम् - उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं 'अचाइयं' ति पक्षाभावाद्भन्तुमसमर्थमपत्रजातमितिकृला मांसपेशीकल्पं 'ढङ्कादयः' क्षुद्रसत्त्वाः पिशिताशिनः 'अव्यक्तगमं गमनाभावे नंष्टुमसमर्थ 'हरेयुः' चश्वादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति ॥ २ ॥ एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं प्रदर्शयितुमाह - 'एव' मित्युक्तप्रकारेण, तुशब्दः पूर्वस्माद्विशेषं दर्शयति, पूर्व संजातपक्षत्वादव्यक्तता प्रतिपादिता इह पुष्टधमतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपक्षं खनीडाभिर्गतं क्षुद्रसच्या विनाशयन्ति एवं शिक्षकमभिनवप्रत्रजितं सूत्रार्थानिष्पन्नमगीतार्थम् 'अपुष्ट घर्माणं' सम्यगपरिणत धर्मपरमार्थ सन्तमनेके पापधर्माण: पाषण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्राभिः| सारयन्ति, निःसारितं च सन्तं विषयोन्मुखतामापादितमपगत परलोकभयमस्माकं वैश्यमित्येवं मन्यमानाः यदिवा 'वुसिम'न्ति चारित्रं तद् असदनुष्ठानतो निःसारं मन्यमाना अजातपक्षं 'द्विजशावमिव' पक्षिपोतमिव ढङ्कादयः पापधर्माणो मिथ्याखाविरतिप्रमादकषायकलुषितान्तरात्मानः कृतीर्थिकाः खजना राजादयो वाऽनके बहवो हतवन्तो हरन्ति हरिष्यन्ति चेति, कालत्रयोपलक्षणार्थं भूतनिर्देश इति, तथाहि पापण्डिका एवमगीतार्थं प्रतारयन्ति, तद्यथा - युष्मदर्शने नाभिप्रज्वालनविषापहारशिखाच्छेदादिकाः प्रत्यया दृश्यन्ते, तथाऽणिमाद्यष्टगुणमैश्वर्य च नास्ति, तथा न राजादिभिर्बहुभिराश्रितं, याऽप्यहिंसोच्यते भवदागमे साऽपि जीवाकुलखाल्लोकस्य दुःसाध्या, नापि भवतां स्नानादिकं शौचमस्तीत्यादिकाभिः शठोक्तिभिरिन्द्रजालकल्पाभिर्मुग्धजनं प्रतारयन्ति, स्वजनादयश्चैवं विप्रलम्भयन्ति, तद्यथा - आयुष्मन् ! न भवन्तमन्तरेणास्माकं कश्चिदस्ति पोषकः पोष्यो वा त्वमेवास्माकं सर्वखं, | त्वया विना सर्व शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन सद्धर्माच्यावयन्ति एवं राजादयोऽपि द्रष्टव्याः, तदेवमपुष्टधर्माणमेकाकिनं बहुभिः प्रकारैः प्रतार्यापहरेयुरिति ॥ ३ ॥ तदेवमेकाकिनः साधोर्यतो बहवो दोषाः प्रादुर्भवन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतद्दर्शयितुमाह- 'अवसानं' गुरोरन्तिके स्थानं तद्यावजीवं 'समाधिं' सन्मार्गानुष्ठानरूपम् 'इच्छेद्' अभिलषेत् 'मनुजो' मनुष्यः साधुरित्यर्थः, स एव च परमार्थतो मनुष्यो यो यथाप्रतिज्ञातं निर्वाहयति, तच्च सदा गुरोरन्तिके | व्यवस्थितेन सदनुष्ठानरूपं समाधिमनुपालयता निर्वाह्यते नान्यथेत्येतद्दर्शयति - गुरोरन्तिके 'अनुषितः' अव्यवस्थितः स्वच्छन्दविधायी समाधेः सदनुष्ठानरूपस्य कर्मणो यथाप्रतिज्ञातस्य वा नान्तकरो भवतीत्येवं ज्ञात्वा सदा गुरुकुलवासोऽनुसर्तव्यः, तद्र
१ समाप्तावितिस्तेन न प्रथमा ।
| हितस्य विज्ञानमुपहास्यप्रायं भवतीति, उक्तं च- " न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं पश्यत नृत्यं मयूरस्य ।। १ ।। " तथाऽजां गलविलग्नवालुकां पाणिप्रहारेण प्रगुणां दृष्ट्वाऽपरोऽनुपासितगुरुरज्ञो राशीं संजातगलगण्डां पाणिप्रहारेण व्यापादितवान् इत्यादयः अनुपासितगुरोर्बहवो दोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानया मर्यादया | गुरोरन्तिके स्थातव्यमिति दर्शयति- 'अवभासयन्' उद्भासयन् सम्यगनुतिष्ठन् 'द्रव्यस्य' मुक्तिगमनयोग्यंस्य सत्साधो रागद्वेवरहितस्य सर्वज्ञस्य वा वृत्तम्- अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद्, धर्मकथिकः कथनतो वोद्भासयेदिति । तदेवं यतो गुरुकुलवासो बहूनां गुणानामाधारो भवत्यतो 'न निष्कसेत्' न निर्गच्छेत् गच्छाद्दुर्वन्तिकाद्वा बहिः, स्वेच्छाचारी न भवेद्, 'आशुमज्ञ' इति क्षिप्रप्रज्ञः, तदन्तिके निवसन् विपयकपायाभ्यामात्मानं द्रियमाणं झाला क्षिप्रमेवाचार्योपदेशात्खत एव वा 'निवर्तयति' सत्समाधौ व्यवस्थापयतीति ॥ ४ ॥ तदेवं प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासमावसन् सर्वत्र स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्भावयमाह -
जे ठाणओ य सयणासणे य, परक्कमे यावि सुसाहुजुत्ते । समितीसु गुत्तीसु य आयपन्ने, वियागरिते य पुढो एजा ॥ ५ ॥ सहाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिवएजा । निहं ' भिक्खू न पमाय कृज्जा, कड्रंकहं वा वितिगिच्छति ॥ ६ ॥ डहरेण वुट्टेणऽणुसासि
Jain Education International
For Private Personal Use Only
१४ ग्रन्थाध्ययनं.
॥२४२॥
१४ - ध्ययनं.
॥२४३॥
www.jainelibrary.org