________________
सूत्रकृताङ्ग शीलाङ्काचार्यांयत्रतियुतं
॥२३९॥
सूत्रकृताङ्ग शीलाङ्काचार्यीयतियुतं
॥२४०॥
160
| स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात् स च तीर्थिकस्तद्वचः 'अश्रद्दधानः' अरोचयन्नप्रतिपद्यमानोऽतिकटुकं भावयन् 'क्षुद्रत्वमपि गच्छेद्' तद्विरूपमपि कुर्यात्, पालकपुरोहितवत् स्कन्दकाचार्यस्येति । क्षुद्रखगमनमेव दर्शयति-स निन्दावचनकुपितो वक्तुर्यदायुस्तस्यायुषो 'व्याघातरूपं परिक्षेपस्वभावं कालातिचारं दीर्घस्थितिकमप्यायुः संवर्तयेत् एतदुक्तं भवति - धर्मदेशना हि पुरुषविशेषं ज्ञाला विधेया, तद्यथा - कोऽयं पुरुषो राजादिः ? कं च देवताविशेषं नतः १ कतरद्वा | दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाऽयुमित्येवं सम्यक् परिज्ञाय यथार्हं धर्मदेशना विधेया, गवैतदबुद्धा किश्चिद्धर्मदेश नाद्वारेण परविरोधकृद्वचो ब्रूयात् स परमादैहिकामुष्मिकयोर्मरणादिकमपकारं प्राप्नुयादिति, यत एवं ततो लब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमान: 'परेषु' प्रतिपाद्येषु यथायोगं यथार्हप्रतिपच्या 'अर्थान्' सद्धर्मप्ररूपणादिकान् जीवादीन् वा स्वपरोपकाराय ब्रूयादिति ॥ २० ॥ अपि च-
कम्मं च छंदं च विगिंच धीरे, विणइज्ज उ सहओ (हा) आयभावं । रूवेहिं लुप्पति भयावहेहिं, विजं गहाया तसथावरेहिं ॥ २१॥ न पूयणं चैव सिलोयकामी, पियमप्पियं कस्सइ णो करेजा । वे अणट्टे परिवज्जयंते, अणाउले या अकसाइ भिक्खू ॥ २२ ॥ आहत्तहीयं समुपेहमाणेसवेहिं पाणेहिं निहाय दंडं । जो जीवियं णो मरणाहिकंखी, परिवज्जा वलयाविमुक्के [ मेहावी वलयविप्मुक्के] ॥२३॥ तिबेमि ॥ इति श्रीआहतहियंनाम त्रयोदशमध्ययनं समत्तं ॥ ( गाथा० ५९१)
'धीरः' अक्षोभ्यः सद्बुद्ध्यलङ्कृतो वा देशनावसरे धर्मकथा श्रोतुः 'कर्म' अनुष्ठानं गुरुलघुकर्मभावं वा तथा 'छन्दम्' अभिप्रायं सम्यक 'विवेचयेत्' जानीयात् ज्ञाखा च पर्षदनुरूपामेव धर्मकथिको धर्मदेशनां कुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादिपदार्थावगमो भवति यथा च मनो न दुष्यते, अपि तु प्रसन्नतां व्रजति, एतदभिसंधिमानाह - विशेषेण नयेद् - अपनयेत् पर्षदः | 'पापभावम्' अशुद्धमन्तःकरणं, तुशब्दाद्विशिष्टगुणारोपणं च कुर्यात्, 'आयभावं' ति कचित्पाठः, तस्यायमर्थः - 'आत्मभावः' अनादिभवाभ्यस्तो मिध्यात्खादिकस्तमपनयेत्, यदिवाऽऽत्मभावो विषयगृध्नुताऽतस्तमपनयेदिति । एतद्दर्शयति- 'रूपैः' नयनमनोहारिभिः स्त्रीणामङ्गप्रत्यङ्गार्द्धकटाक्ष निरीक्षणादिभिरल्पसच्चा 'विलुप्यन्ते' सद्धर्माद्वाध्यन्ते, किंभूतै रूपः १ - 'भयावहैः' भयमावहन्ति भयावहानि, इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिका विकर्तनादिका विडम्बना: प्रादुर्भवन्ति जन्मान्तरे च तिर्यङ्नरकादिके यातनास्थाने प्राणिनो विषयासक्ता वेदनामनुभवन्तीत्येवं 'विद्वान' पण्डितो धर्मदेशनाभिज्ञो गृहीला पराभिप्रायं - सम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् || २१ || पूजासत्कारादिनिरपेक्षेण च सर्वमेव तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह - साधुर्देशनां विदधानो न पूजनं - वस्त्रपात्रादिलाभ रूपम| भिकाचापि श्लोक - श्लाघां कीर्तिम् आत्मप्रशंसां 'कामयेद्' अभिलषेत्, तथा श्रोतुर्यत्प्रियं राजकथाविकथादिकं छलितकथा| दिकं च तथाऽप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं | धर्म सम्यग्दर्शनादिकं कथयेत्, उपसंहारमाह- 'सर्वाननर्थान्' पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् 'बर्जयन' परिहरन् कथयेत् 'अनाकुल:' सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति ॥ २२ ॥ सर्वाध्ययनोपसंहारार्थमाह'आहतहीय' मित्यादि, यथातथामानो याथातथ्य - धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतस्वं सूत्रानुगतं सम्यक्त्वं चारित्रं वा तत् 'प्रेक्षमाणः' पर्यालोचयन् सुनार्थ सदनुष्ठानतोऽभ्यस्यन् 'सर्वेषु' स्थावरजङ्गमेषु सूक्ष्मवादर भेदभिषेषु पृथिवी कायादिषु दण्डयन्ते प्राणिनो येन स दण्डः प्राणव्यपरोपणविधिस्तं 'निधाय' परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्म नोल्लङ्घयेदिति । एतदेव दर्शयति- 'जीवितम्' असंयमजीवितं दीर्घायुष्कं वा स्थावरजङ्गमजन्तुदण्डेन नाभिकाङ्क्षी स्था (क्षे ) त् परीपहपराजितो वेदनासमुद्धात (समव) हतो वा तद्वेदनाम ( भि) सहमानो जलानलसंपातापादितजन्तूपमर्देन नापि मरणाभिकाङ्क्षी स्यात् । तदेवं याथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिषूपरतदण्डो जीवितमरणानपेक्षी संयमानुष्ठानं चरेद्-उद्युक्तविहारी भवेत् 'मेधावी' मर्यादाव्यवस्थितो विदितवेद्यो वा वलयेन मायारूपेण मोहनीयकर्मणा वा विविधं प्रकर्षेण मुक्तो विप्रमुक्त इति । इतिः परिसमाप्यर्थे । | ब्रवीमीति पूर्ववत् ॥ २३ ॥ समाप्तं च याथातथ्यं त्रयोदशमध्ययनमिति ॥
Jain Education International
For Private Personal Use Only
१३ याथा तथ्याध्य
॥२३९॥
१३ याथा तथ्याध्य०
॥२४०॥
www.jainelibrary.org