________________
152
चाीयवृ
सूत्रकृताभ्यां पृथिव्यादित्वेन परिणमन्तोऽपि न स्वकीयं द्रव्यत्वं त्यजन्ति, न चावखाभेदेन द्रव्यमेदो युक्तः, अतिप्रसङ्ग दिति । आका- १२ समय
शकालयोश्वासाभिरपि द्रव्यत्वमभ्युपगतमेव, दिशस्त्वाकाशावयवभूताया अनुपपनं पृथग्द्रव्यत्वमतिप्रसङ्गदोषादेव, आत्मनश्च स्व-8 सरणाध्य. | शरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतमेव द्रव्यत्वमिति, मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति [परमाणुवत् ],
18 वैशेषिकतचियुतं
भावमनसश्च जीवगुणत्वादात्मन्यन्तर्भाव इति । यदपि तैरभिधीयते, यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव, त्वनिरास: ॥२२७॥
यतो न हि पृथिव्याः पृथग्भूतं पृथिवीत्वमपि येन तद्योगात्पृथिवी भवेद् , अपितु सर्वमपि यदस्ति तत्सामान्यविशेषात्मकं नरसिंहाकारमुभयखभावमिति, तथा चोक्तम्-"नान्वयः स हि भेदत्वान भेदोऽन्वयवृत्तितः। मृद्भेदद्वयसंसर्गवृत्तिजा (ो) त्यन्तरं घटः॥१॥" तथा-"न नरः सिंहरूपत्वान सिंहो नररूपतः। शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि सः॥१॥" इत्यादि ।। अथ रूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेर्विशेषगुणाः, तथा सङ्ख्यापरिमाणानि पृथक्वं संयोगविभागौ परखापरखे इत्येते सामान्यगुणाः | सर्वद्रव्यवृत्तिखात् , तथा बुद्धिसुखदुःखेच्छाद्वेषप्रयलधर्माधर्मसंस्कारा आत्मगुणाः, गुरुवं पृथिव्युदकयोद्भवलं पृथिव्युदकाग्निषु स्नेहोऽम्भस्खेव वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव आकाशगुणः शब्द इति । तत्र सङ्ख्यादयः सामान्यगुणा रूपादिवद्रव्यखभा(वाभा)वत्वेन परोपाधिकत्वाद्गुणा एव न भवन्ति, अथापि स्युस्तथापि न गुणानां पृथक्त्वव्यवस्था, तत्पृथक्त्वभावे द्रव्यस्वरूपहानेः 'गुण-18
॥२२७॥ पर्यायवद् द्रव्य (तत्त्वा०अ०५ सू०)मितिकृत्वा अतो नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यमिति न पृथग्भावः । किश्च-तस्य भावस्तत्त्वमित्युच्यते, भावप्रत्ययश्च यस्य गुणस्य हि भावाद् द्रव्ये शन्दनिवेशस्तदभिधाने 'वसला' वित्यनेन भवति, तत्र घटो रक्त उदकस्याहारको जलवान् सवैरेव षट उच्यते, अत्र च घटस्य भावो घटत्वं रक्तस्य भावो रक्तत्वं आहारकस्य भाव आहारकत्वं ॥ जलवतो भावो जलवत्त्वमित्यत्र घटसामान्परक्तगुणक्रियाद्रव्यसंवन्धरूपाणां गुणानां सद्भावात् द्रव्ये पृथुबुनाकार उदकाद्याहरणक्षम || | कुटकाख्ये शब्दस्य घटादेरभिनिवेशस्तत्र त्वतलौ, इह च रक्ताख्यः को गुणो? यत् सद्भावात् , कतरञ्च तद् द्रव्यं यत्र शब्दनिवेशो येन भावप्रत्ययः स्यादिति । किमिदानीं रक्तस्य भावोरक्तत्वमिति न भवितव्यं, भवितव्यमुपचारेण, तथाहि-रक्त इत्येतद्र-1 व्यत्वेनोपर्य तस्य सामान्य भाव इति रक्तत्वमिति, न चोपचारस्तत्त्वचिन्तायामुपयुज्यते, शब्दसिद्धावेव तस्य तार्थत्वादिति । | शब्दश्चाकाशस्य गुण एव न भवति, तख पौद्गलिकत्वाद्, आकाशस चामूर्तत्वादिति । शेषं तु प्रक्रियामानं न साधनदूषणयोरङ्गम् । क्रियापि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति । अथ सामान्यं, तद्विधा-परमपरं च, तत्र परं महासत्ताख्यं द्रव्यादिपदार्थब्यापि, तथाचोक्तम्-"सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" अपरं च द्रव्यत्वगुणत्वकर्मत्वात्मकं, तत्र न तावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययः स किमपरसत्तानिवन्धन उत स्वत एव ?, तत् यद्यपरसत्तानिवन्धनस्तत्राप्ययमेव विकल्पोऽतोऽनवस्था, अथ खत एव ततस्तद्वद् द्रव्यादिष्वपि स्वत एव सत्प्रत्ययो भविष्यतीति किमपरसत्तयाजागलस्तनकल्पया विकल्पितया ?, किञ्च-द्रव्यादीनां किं सतां सत्तया सत्प्रत्यय उतासतां?, तत् यदि सतां खत एव सत्प्रत्ययो भविष्यति किं तया?, असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तम्"खतोऽर्थाः सन्तु सत्तावत्सत्तया किं सदात्मनाम् ? । असदात्मसु नैषा स्यात्सर्वथाऽतिप्रसङ्गतः ॥१॥" इत्यादि । एतदेव दूषणमपरसामान्येऽप्यायोज्यं, तुल्ययोगक्षेमत्वात् । किञ्च-अस्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथश्चितदिष्यत एवेति, तस्य च
१ समानखभावो भावः । २ गुणस्य पदार्थखरूपवान पृथक्पदार्थता । ३ व्यादिभिन्नया । सूत्रकृतानं कथश्चित्तदध्यतिरेकाद् द्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते- १२ समयशीलाङ्का- या तेषु विशेपबुद्धिः सा नापरविशेषहेतकाऽऽश्रयितव्या, अनवस्थाभवात् , खतः समाश्रयणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः |सरणाध्य० चार्याय- स्थाकि द्रव्यादिव्यतिरिक्तैर्विशेषैरिति, द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते, सर्वस्य सामान्यविशेषात्मकत्वादिति ।
वैशेषिकततियुतं
त्वनिरास: एतत्तु प्रक्रियामात्रं, तद्यथा-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि ।।२२८||
च, इति नियुक्तिकत्वादपकर्णयितव्यमिति । समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्युच्यते, असावपि नित्यश्चैकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपोरन् , तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, | तदाधाररूपत्वात्तस्य, तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्तिः, तस्य चानेकत्वमिति । किश्च-अयं समवायः संबन्धः, तस्य च द्विष्ठत्वाद् युतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानां च कटोत्पत्तौ तद्रूपतया विनाशः कटरूपतयोत्पत्तिरन्वयरूपतया व्यव-| स्थानमिति दुग्धदनोरिवेत्येवं वैशेषिकमतेऽपि न सम्यक् पदार्थावस्थितिरिति । साम्प्रतं साङ्ख्यदर्शने तत्वनिरूपणं प्रक्रम्यते-तत्र प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्वरजस्तमसां साम्यावस्था ततो महान् महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपं, स चाकर्ता निर्गुणो भोक्तेति । तत्र परस्परविरुद्धानां ||
॥२२॥ | सत्वादीनां गुणानां प्रकृत्यात्मनां नियामक गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्णसितादिगुणोनामिव, न च महदादिवि
१ वक्ष्यमाणं । २ एतनिरूपणं । ३ अपरविशेषभावयोर्दोषात् ।। युग्मयोमिन्नत्वेन । ५ पृथग्भूता वर्गा प्रायाः, वर्णमयानि द्रव्याणि, तेषां गुणानां का स्वयं यान्तरेण यथा नावस्थानं विरुद्धानां ।
eseseceseseseseckseatseleasesesesesesesebestsee
99999999999999
zeeeeeeeeeeeeeerce
9
9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org