________________
सूत्रकृता शीलाङ्कावाय
चियुतं
॥२२४॥
सूत्रकृता शीलाङ्काचार्यीय
चियुर्त ॥२२५॥
150
'सत्त्वाना' स्वकृतकर्मफलभुजामधस्ता नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुनां - जातिजरामरणरोगशोककृतां शरीरपीडां चशब्दात्तद्द्भावोपायं यो जानाति, इदमुक्तं भवति - सर्वार्थसिद्धादारतोऽधः सप्तमीं नरकभ्रुवं यावदसुमन्तः सकर्माणो विवर्तन्ते, तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठानन रकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिध्यादर्शनादिको वेति तं तथा 'संवरम्' आश्रवनिरोधरूपं यावदशेषयोगनिरोधस्वभावं, चकारात्पुण्यपापे च यो जानीते तथा 'दुःखम्' असातोदयरूपं तत्कारणं च यो जानाति 'सुखं' च तद्विपर्ययभूतं यो जानाति, तपसा यो निर्जरां च, इदमुक्तं भवति - यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति, तथाहि“यथाप्रकारा यावन्तः, संमारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेशहेतवः || १ ||" स एव परमार्थतो 'भाषितुं वक्तुमईति, किं तद् १ इत्याह-- क्रियावादम् अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति । | तथाहि जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरा मोक्षरूपा नवापि पदार्थाः लोकद्वयेनोपात्तःः, तत्र य आत्मानं जानातीत्यनेन जीवपदार्थः, लोकमित्यनेनाजीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव स्वभावोपदर्शनं कृतं तथाऽऽश्रवसंवरौ स्वरूपेणैवोपाचौ, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि तद विनाभाविखाद्दुःखस्य, निर्जरायास्तु स्वाभिधानेनैवोपादानं, तत्फलभूतस्य च मोक्षस्योपादानं द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवतीति, यश्चैतान् पदार्थान् 'जानाति' अभ्युपगच्छति स परमार्थतः क्रियावाद जानाति । ननु चापरदर्शनोक्तपदार्थपरिज्ञानेनें सम्य
१ आदिनाऽशाश्वतं । २ अजीव पक्षेऽनागतिः स्थितिः यद्वा जीवानां ते अजीवकृते इति । ३ वैषयिकसुखस्य दुःखरूपत्वाम दुःखस्य पुण्याविनाभाववानुपपत्तिः । ४ ज्ञानाच्छ्रद्धा ततः प्ररूपणेति सम्यग्वादिखशङ्का ।
वादित्वं कस्मान्नाभ्युपगम्यते १ तदुक्तपदार्थानामेवाघटमानखात्, तथाहि — नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनष्टान्तसिद्धान्तावयष तर्क निर्णयवादजल्पवितण्डा हेखाभासच्छलजातिनिग्रहस्थानानी त्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय(निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्द्धा, | तत्रेन्द्रियार्थसंनिकर्षोत्पत्रं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं तदत्रेन्द्रियार्थ योर्यः संबन्धस्तस्माद्यदुत्पत्रं, नोभिव्यतं, ज्ञानं, न सुखादिकम्, अव्यपदेश्यमिति व्यपदेश्यले शाब्दप्राप्तेः, अव्यभिचारितद्धि द्विचन्द्रज्ञानवव्यभिचरतीति व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं तत्रास्य प्रत्यक्षता न बुध्य ( युज्य) ते, तथाहि - यत्रात्माऽर्थग्रहणं प्रति साक्षाव्याप्रियते तदेव प्रत्यक्षं तचावधिमनः पर्याय केवलात्मकम्, एतचापरोपाधिद्वारेण प्रवृत्तेरनु मानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात्, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति । अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्टमिति त्रिधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोदृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताश्रूता जगतीति यदिवा देवदत्तादौ गतिपूर्विका स्थानात् स्थानान्तरावाप्तिं दृष्ट्वाऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तथा विना कारणस्य कार्य प्रति व्यभिचा रात्, यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा - भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तम्- "अन्यथाऽनुपपन्नखं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपन्नखं, यत्र तत्र त्रयेण किम् १ ॥ १ ॥ अपिचप्रत्यक्षस्याप्रामाण्ये तत्पूर्वकस्यानुमानस्याप्रामाण्यमिति । प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सञ्ज्ञास१ जनानां धात्मा ज्ञानस्वरूप इतीन्द्रियादिनाऽभिव्यज्यते ज्ञानं तेषां तुलयते । २ सुखस्यापीन्द्रियार्थोपस्थात् । ३ इन्द्रियार्थोत्थं ।
निसंबन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणलेन तत्रैवान्तर्भावात्पृथक्प्रमाणत्वमनुपपद्ममेव, अथ नास्त्यनुपपत्तिस्ततो व्यचिचारादप्रमाणतोपमानस्य । शाब्दमपि न सर्व प्रमाणं, किं तर्हि ?, आप्तप्रणीतस्यैवागमस्य प्रामाण्यं, न चाईयतिरेकेणापरस्याप्तता युक्तियुक्तेति एतच्चान्यत्र निर्लोठितमिति । किश्च सर्वमप्येतत्प्रमाणमात्मनो ज्ञानं ज्ञानं चात्मनो गुणः (गुणश्च) पृथक्पदार्थतयाऽभ्युपगन्तुं न युक्तो, रूपरसादीनामपि पृथक्पदार्थताऽऽयत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः, सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि - द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् । प्रमेयं खात्मशरीरेन्द्रियार्थबुद्धि मनः प्रवृत्तिदोपप्रेत्य भावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे ( स चे) च्छाद्वेषप्रयनसुखदुःखज्ञानानुमेयः, स च जीवपदार्थतया गृहीत एवास्माभिरिति, शरीरं तु तस्य भोगायतनं, भोगायतनानीन्द्रियाणि भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमस्माभिरिति । उपयोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवो- | पादानतयो (नेनो) पात एव। सर्वविषयमन्तः करणं युगपज्ज्ञानानुत्पत्तिलिङ्गं मनः, तदपि द्रव्यमनः पौगलिकम जीवग्रहणेन गृहीतं भावमनस्त्वात्मगुणत्वाज्जीवग्रहणेनेति । आत्मनः सुखदुःखसंवेदनानां निर्वर्तनकारणं प्रवृत्तिः, सापि पृथकपदार्थतया नाभ्युपगन्तुं युक्ता, तथाहि प्रवृत्तिरित्यात्मेच्छा, सा चात्मगुण एव, आत्माऽभिप्रायतया ज्ञानविशेषत्वाद्, आत्मानं दूषयतीति दोषः, तद्यथा-अस्था| त्मनो नेदं शरीरमपूर्वम्, अनादिखादस्य, नाप्यनुत्तरम्, अनन्तलात्सन्ततेरिति, ( शरीरेऽपूर्वतया सान्ततया वा ) योऽयमात्मनोऽध्यव| सायः स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः । प्रेत्यभावः - परलोकसद्भावोऽयमपि ससाधनो जीवाजीव ग्रहणेनोपात्तः, फलमपि -सुखदुःखोपभोगात्मकं तदपि जीवगुण एवान्तर्भवतीति न पृथगुपदेष्ट
Jain Education International
For Private Personal Use Only
१२ समव सरणाध्य०
॥२२४॥
१२ सभव
सरणाध्य० नैयायिक
तत्वनिरासः
॥२२५॥
www.jainelibrary.org