________________
esea
सूत्रकृताङ्गं शीलाहाचार्याय त्तियुतं
॥२०२॥
negercedesesececemerceaesceservercedesereecenesedeseseisersesectsecececececeneloeacocon
135 आश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञो-विपुलबुद्धिरित्यर्थः, तदनेन जीवाजीवादिपदार्थाभिज्ञतावेदिता भवति, 'धीरः' अक्षोभ्यः क्षुत्पिपासादिपरीषहेर्न क्षोभ्यते, तदेव दर्शयति-आहारोपधिशय्यादिके स्वस्वामिना तत्संदिष्टेन वा दत्ते सत्येपणां चरति एषणीयं गृह्णातीत्यर्थः, एपणाया एपणायां वा गवेषणग्रहणग्रासरूपायां त्रिवि-15 धायामपि सम्यगितः समितः, स साधुनित्यमेषणासमितः सन्ननेषणां 'वर्जयन्' परित्यजन्संयममनुपालयेत् , उपलक्षणार्थवादस्य शेषाभिरपीर्यासमित्यादिभिः समितो द्रष्टव्य इति ॥१३॥ अनेषणीयपरिहारमधिकृत्याह-अभूवन भवन्ति भविष्यन्ति च प्राणिनस्तानि | भूतानि प्राणिनः 'समारभ्य' संरम्भसमारम्भारम्भैरुपतापयिखातं साधुम् उद्दिश्य'साध्वर्थ यत्कृतं तदुपकल्पितमाहारोपकरणादिक 'तादृशम्' आधाकर्मदोषदुष्टं 'सुसंयतः सुतपस्वी तदनं पान वा न भुञ्जीत, तुशब्दस्सैवकारार्थखात्रैवाभ्यवहरेद् , एवं तेन मार्गोऽनुपालितो भवति ॥ १४ ॥ किश्व-आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं 'न सेवेत' नोपभुञ्जीत, एपः-अनन्तरोक्तो धर्मः कल्पः स्वभावः 'वुसीमओ'त्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं परिहरतीति, किश्च-यदप्यशुद्धखेनाभिकाङ्ग्रेत्-शुद्धमप्यशुद्धखेनाभिशङ्केत किश्चिदप्याहारादिकं तत् 'सर्वशः' सर्वप्रकारमप्याहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति ॥ १५॥ किश्चान्यत्-धर्मश्रद्धावतां ग्रामेषु नगरेषु वा खेटकर्बटादिषु वा 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन किल धर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुद्ध्या कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूतक्रियायाः कर्ता किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टोपृष्टो वा तदुप
१ कल्पखभावः प्र• ब्रूमः। रोधाद्भयाद्वा तं प्राणिनो मन्तं नानुजानीयात् , किंभूतः सन् ?-'आत्मना' मनोवाकायरूपेण गुप्त आत्मगुप्तः तथा 'जिते-11 मार्गाशन्द्रियो' वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत ।। १६ ॥ सावद्यानुष्ठानानुमतिं परिहतुकाम आह
ध्ययने - तहा गिरं समारब्भ, अत्थि पुण्णंति णो वए । अहवाणत्थि पुण्णंति, एवमेयं महब्भयं ॥ १७॥ पतटागादाणट्रया य जे पाणा, हम्मति तसथावरा। तेसिं सारक्खणटाए, तम्हा अथिति णो वए ॥ १८॥ मोनादि. जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं । तेसिं लाभंतरायंति, तम्हा णत्थित्ति णो वए ॥ १९॥ जे य दाणं पसंसंति, बहमिच्छंति पाणिणं । जे य णं पडिसेहंति, वित्तिच्छेयं करंति ते ॥ २०॥ | केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधु:-किमसदनुष्ठाने अस्ति पुण्यमाहोखिनास्तीति ?, एवंभूतां गिरं% 'समारभ्य' निशम्याश्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथापि महाभयमिति मखा दोपहेतुत्वेन नानुमन्येत ॥ १७ ॥ किमर्थ नानुमन्येत इत्याह-अन्नपानदानार्थमाहारमुदकं च पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत्, तत्र यस्माद् 'हन्यन्ते' व्यापाद्यन्ते त्रसाः स्थावराश्च जन्तवः तस्मात्तेषां 'रक्षणार्थ' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोन भवदीयानुष्ठाने पुण्यमित्येवं नो वदेदिति ॥ १८॥ यद्येवं नास्ति पुण्यमिति ब्रूयात् , तदेतदपि न ब्रूयादित्याह-'येषां' जन्तूनां कृते 'त'
॥२०॥ अन्नपानादिकं किल धर्मबुझ्या 'उपकल्पयन्ति' तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तनिषेधे च यमात् 'तेषाम्' आहारपानार्थिनां तत 'लाभान्तरायो' विघ्नो भवेत् , तदभावेन तु ते पीड्यरन , तसात्कूपखननसत्रादिके कर्मणि नास्ति पुण्यमित्येतदपि नो वदेदिति ॥ १९॥ एनमेवार्थ पुनरपि समासतः स्पष्टतरं विभणिषुराह-ये केचन प्रपासत्रादिकं दानं बहुना | जन्तूनामुपकारीतिकृता 'प्रशंसन्ति' श्लाघन्ते 'ते' परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण 'वधं प्राणातिपातमिच्छन्ति, तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपि च किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः 'प्रतिषेधन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिनां 'वृत्तिच्छेदं वर्तनोपायविघ्नं कुर्वन्तीति ॥ २०॥ तदेवं राज्ञा अन्येन वेश्वरेण कूपतडागयागसत्रदानायुद्यतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाहदहओवि ते ण भासंति, अस्थि वा नत्थि वा पुणो। आयं रयस्स हेच्चा णं, निवाणं पाउणंति ते २१ निवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा। तम्हा सदा जए दंते, निवाणं संधए मुणी ॥ २२॥ | वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिटेसा पवुच्चई ॥ २३ ॥
आययुत्ते सया दंते, छिन्नसोए अणासवे । जे धम्मं सुद्धमक्खाति, पडिपुन्नमणेलिसं ॥ २४ ॥ | यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्चानां सूक्ष्मबादराणां सर्वदा प्राणत्याग एव स्यात् प्रीणनमात्रं तु पुनः स्वल्पानां खल्पकालीयमतोऽस्तीति न वक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधेपि तदर्थिनामन्तरायः स्यादित्यतो 'द्विधापि अस्ति नास्ति वा पुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिमौनं समाश्रयणीयं, निर्बन्धे खसाकं द्विचवारिंशदोपवर्जित १ वप्रप्राकाररोधसोः ।
W Best Compliments,
from .
estseiseoeceaesects
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org