SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्यीय सितं ॥१९७॥ मूत्रकृताङ्गं शीलाङ्का चाय तियुतं १९ 132 सम्यग्ज्ञानं दर्शनं चरित्रं चेत्ययं त्रिविधोऽपि भावमार्गः 'सम्यग्दृष्टिभिः' तीर्थकरगणधरादिभिः सम्यग्वा यथावस्थितवस्तु| तत्त्वनिरूपणया प्रणीतस्तैरेव (च) सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु 'आचीर्णः' आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्तमार्गो भवतीति । तुशब्दोऽस्य दुर्गतिफलनिबन्धनखेन विशेषणार्थ इति ॥ स्वयूथ्यानामपि पार्श्वस्थादीनां षड्जीवनिकायोपमर्दकारिणां कुमार्गाश्रितवं दर्शयितुमाह ये केचन अपुष्टधर्माण: शीतल विहारिणः ऋद्धिरससातगौरवेण 'गुरुकाः' गुरुकर्माण | आधाकर्माद्युपभोगाभ्युपगमेन षड्जीवनिकामव्यापादनरताच अपरेभ्यो 'मार्ग' मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहिशरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहाने श्वाधाकर्माद्युपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मार्गाश्रिता भवन्ति । तुशब्दादेतेऽपि स्वयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किंपुनस्तीथिंका इति ॥ प्रशस्तशाखप्रणयनेन सन्मार्गाविष्करणायाह - तपः- सबाह्याभ्यन्तरं द्वादशप्रकारं तथा संयमः - सप्तदशभेदः पञ्चाश्रवविरमणादिलक्षणस्ताभ्यां प्रधानास्तपः संयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं 'सद्भावं' परमार्थं जीवाजीवादिलक्षणं 'बदन्ति' प्रतिपादयन्ति, किंभूतं !-सर्वस्मिन् जगति ये जीवास्तेभ्यो हितं - पथ्यं तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्ग सम्यन्नार्गज्ञाः 'सम्यग' अविपरीतखेन प्रणीतम् 'आहुः' उक्तवन्त इति ॥ साम्प्रतं सन्मार्गस्यैकार्थिकान् दर्शयितुमाह- देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यक्त्वावाप्तिरूपोऽवगन्तव्यः १, तथा 'मार्ग' इति पूर्वसाद्विशुद्ध्या विशिष्टतरो मार्गः, स चेह सम्यग्ज्ञानावाप्तिरूपोऽवगन्तव्यः २, तथा 'न्याय' इति १ चारित्रा० प्र० । | निश्वयेनायनं विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति स न्यायः, स चेह सम्यक् चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय | एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यक्चारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र चारित्रयोगोऽभिधीयत इति ३, तथा 'विधि'रिति विधानं विधिः सम्यग्ज्ञानदर्शनयोर्यौगपद्येनावाप्तिः ४, तथा 'धृति 'रिति धरणं धृतिः सम्यग्दर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५, तथा 'सुगति' रिति शोभना गतिरस्मात् ज्ञानाचारित्राचेति सुगतिः, 'ज्ञानक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयेते, दर्शनस्य तु ज्ञानविशेषखादत्रैवान्तभवोऽवगन्तव्यः ६, तथा 'हित' मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणं वा हितं तच्च सम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्य - मिति ७, अत्र च संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गले सति यद्वयस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया न दोषायेति, तथा 'सुख' मिति सुखहेतुखात्सुखम् - उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिवादरसूक्ष्मसं परायरूपा गुणत्रयावस्था ८, तथा 'पथ्य' मिति पथि - मोक्षमार्गे हितं पथ्यं तच्च क्षपकश्रेण्यां पूर्वोक्तं गुणत्रयं ९, तथा 'श्रेय' इत्युपशमश्रेणिमस्तकावस्था, उपशान्त सर्वमोहावस्थेत्यर्थः १०, तथा निर्वृतिहेतुखाभिर्वृतिः क्षीणमोहावस्थेत्यर्थः, मोहनीयविनाशेऽवश्यं निर्वृतिसद्भावादितिभावः ११, तथा 'निर्वाण' मिति घनघाति कर्मचतुष्टयक्षयेण केवलज्ञानावासि: १२, तथा 'शिव' मोक्षपदं तत्करणशीलं शैलेश्यवस्थागमन मिति १३, एवमेतानि मोक्षमार्गलेन किञ्चिद्भेदाद भेदेन व्याख्यातान्यभिधानानि, यदिवैते पर्यायशब्दा एकाथिंका मोक्षमार्गस्येति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं तच्चेदम्करे मग्गे अक्खाए, माहणेणं मईमता ? । जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥ १ ॥ तं मग्गं शुत्तरं सुद्धं, सवदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू !, तं णो ब्रूहि महामुनी ॥ जइ णो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिं तु कयरं मग्गं, आइक्खेज ? कहाहि णो ॥ ३ ॥ जइ वो केइ पुच्छिजा, देवा अदुव माणुसा । तेसिमं पडिसाहिजा, मग्गसारं सुणेह मे ॥ ४॥ विचित्रात्रिकालविषयत्वाच्च मूत्रस्यागामुकं प्रच्छकमाश्रित्य सूत्रमिदं प्रवृत्तम्, अतो जम्बूस्वामी सुधर्मस्वामिनमिदमाह, तद्यथा- 'कनरः' किंभूतो 'मार्गः' अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्याम् 'आख्यातः' प्रतिपादितो भगवता त्रैलोक्योद्धरणसमधेनैकान्तहित पिणा मा हनेत्येवमुपदेशप्रवृत्तिर्यस्यासौ माहनः - तीर्थकृत्तेन तमेव विशिनष्टि - मतिः- लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रकृष्टशतीतानागतवर्तमानपदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन, यं प्रशस्तं भावमार्ग मोक्षगमनं प्रति 'कर्ज' प्रगुणं यथावस्थितपदार्थ खरूपनिरूपणद्वारेणावक्रं सामान्य विशेषनित्यानित्यादिस्याद्वादसमाश्रयणात् तदेवंभूतं मार्ग ज्ञानदर्शनतपचरित्रात्मकं 'प्राप्य' लब्ध्वा संसारोदरविवरवर्ती प्राणी समग्रसामग्रीकः 'ओघ' मिति भवौषं संसारसमुद्रं तरत्यत्यन्तदुस्तरं, तदुत्तरणसामय्या एव दुष्प्रापखात्, तदुक्तम्- "माणुस्सखेचजाईकुलरूबारोगमाउयं बुद्धी । सवणोग्गहसद्धासञ्जमो य लोयंमि दुलहाई ॥ १||" इत्यादि । स एव प्रच्छकः पुनरप्याह-योऽसौ मार्गः सम्वहिताय सर्वज्ञेनोपदिष्टोऽशेषकान्तकौटिल्यवक्र (ता) रहितस्तं मार्ग, नास्योत्तर:- प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः - अवदातो निर्दोषः पूर्वापरव्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा तमिति, तथा सर्वाणि अशेपाणि बहुभिर्भवैरुपचितानि दुःखकारणखादुःखानि - कर्माणि तेभ्यो 'विमोक्षणं' - विमोचकं तमेवंभूतं मार्गमनुत्तरं १ मानुष्यं क्षेत्र जातिः कुलं रूपमारोग्यमायुः बुद्धिः श्रवणमवमहः श्रद्धा संयमथ लोके दुर्लभानि ॥ १ ॥ Jain Education International For Private Personal Use Only ११ मार्गाध्ययनं भा| मार्गाः १३ ॥१९७॥ ११ मार्गाध्ययनं. ॥१९८॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy