________________
129
सत्रक ३३ सूत्रकृताङ्ग शीलाकाचाीयत्तियुतं
॥१९३॥
Gangasansaseases00000000099999
गृहम्-आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थवादस्यापरमपि गृहादेरुरगवत्परकृतविलनिवासिखात्संस्कारं न कुर्यात् , अन्यदपि गृहस्थकर्तव्यं परिजिहीर्षुराह-प्रजायन्त इति प्रजास्तासु तविषय येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात् , एतदुक्तं भवति-प्रबजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् कारयश्च गृहस्थैः सम्मिश्रभावं भजते, यदिवा-प्रजाः-स्त्रियस्तासु ताभिवा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात्' परित्यजेदिति ॥ १५॥ अपिच-ये केचन असिन् लोके अक्रिय आत्मा येपामभ्युपगमे तेऽक्रियात्मानः-साङ्ख्याः, तेषां हि सर्वव्यापिखादात्मा निष्क्रियः पठ्यते, तथा चोक्तम्--"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, तुशब्दो विशेषणे, स चैतद्विशिनष्टि-अमूर्तखव्यापिखाभ्यामात्मनोऽक्रियखमेव बुध्यते, ते चाक्रियात्मवादिनोऽन्येनाक्रियखे सति बन्धमोशी न घटेते इत्यभिप्रायवता मोक्षसद्भाव पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि | 'धूतं' मोक्षं तदभावम् (च) 'आदिशन्ति' प्रतिपादयन्ति, ते तु पचनपाचनादिके स्वानार्थ जलावगाहनरूपे वा 'आरम्भे' सावये 'सक्ता अध्युपपना गृद्धास्तु लोके मोक्षकहेतुभूतं 'धर्म' श्रुतचारित्राख्यं न जानन्ति कुमार्गग्राहिणो न सम्यगवगच्छन्तीति ॥ १६ ॥ किञ्चान्यत्
पुढो य छंदा इह माणवा उ. किरियाकिरीयं च पुढो य वायं । जायस्स बालस्स पकुव देहं, पवढती वेरमसंजतस्स ॥ १७ ॥ आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य राओ परितप्पमाणे, अहेसु मूढे अजरामरेव ॥ १८ ॥ जहाहि वित्तं पसवो य सवं, जे बंधवा जे य पिया य मित्ता । लालप्पती सेऽवि य एइ मोहं, अन्ने जणा तंसि हरंति १० समावित्तं ॥ १९ ॥ सीहं जहा खुड्डुमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेहावि समि
ध्यध्ययनं. क्ख धर्म, दूरेण पावं परिवज्जएज्जा ॥ २०॥ पृथक नाना छन्द:-अभिप्रायो येषां ते पृथक्छन्दा 'इह' असिन्मनुष्यलोके 'मानवा' मनुष्याः, तुरवधारणे, तमेव नानाभिप्रायमाह-क्रियाक्रिययोः पृथक्वेन क्रियावादमक्रियावादं च समाश्रिताः, तद्यथा-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् ।। यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" इत्येवं क्रियैव फलदायिखेनाभ्युपगता, क्रियावादमाश्रिताः, एवमेतद्विपर्ययेणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्र स्वरूपं न्यक्षेण वक्ष्यते, ते च नानाभिप्राया मानवाः क्रियाक्रियादिक पृथग्वादमाश्रिता मोक्षहेतुं धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगारससातागौरवाभिलाषिण एतत्कुर्वन्ति, तद्यथा-'जातस्य उत्पन्नस्य 'बालस्य' अज्ञस्य सदसद्विवेकविकलस्य सुखैषिणो 'देहं शरीरं 'पकुव्व तिखण्डशः कुखाऽऽत्मनः सुखमुत्पादयन्ति, तदेवं परोपघातक्रिया
९ ॥१९॥ कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षेण वर्धते, पाठान्तरं वा-जायाएँ बालस्स पगम्भणाए-'बालस्य' अज्ञस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस या जाता 'प्रगल्भता धार्य तया वैरमेव प्रवर्षत इति सम्बन्धः ॥१७॥ अपिच-आयुषो-जीवनलक्षणस्य वय आयुष्कक्षयस्तमारम्मप्रवृत्तः छिमदमत्स्यवदुदकक्षये सति अबुध्यमानोऽतीव 'ममाइ'त्ति ममलवान् इदं मे अहमस्य खामीत्येवं स 'मन्दः' अनःसाहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा-कधिणिय। महता क्लेशेन महार्याणि रत्नानि समासाद्योजयिन्या बहिरावासितः, स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयि-21 प्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयं न ज्ञातवान् , अद्येव रवानि प्रवेशयन् राजपुरुष रखेभ्यश्च्यावित इति, एवमन्योऽपि किंकतव्यताकुलः खायुषः क्षयमबुध्यमानः परिग्रहेष्वारम्भेषु च प्रवर्तमानः साहसकारी स्यादिति, तथा कामभोगतृषितोहि रात्रौ । च परि-समन्तात् द्रव्यार्थी परितप्यमानो मम्मणवणिग्वदार्तध्यायी कायेनापि क्लिश्यते, तथा चोक्तम्-"अजरामरवद्वालः, क्लिश्यते धनकाम्यया । शाश्वतं जीवितं चैव, मन्यमानो धनानि च ॥१॥" तदेवमार्तध्यानोपहतः 'कहया वञ्चइ सत्थो ? किं भंडं कत्थ कित्तिया भूमी'त्यादि, तथा 'उक्खणइ खणइ णिहणइ रतिं न सुयइ दियावि य ससंको'इत्यादिचित्तसंक्लेशात्सुष्टु मूढोऽ|जरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति ॥ १८॥ किश्चान्यत्-'वित्तं' द्रव्यजातं तथा 'पशवो गोमहिष्यादयस्तान् सर्वान् 'जहाहि' परित्यज-तेषु ममलं मा कृथाः, ये 'बान्धवा' मातापित्रादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया मित्राणि' सहपांसुक्रीडितादयस्ते एते मातापित्रादयो न किश्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रार्थी अत्यर्थ पुनः पुनर्वा लपति लालप्यते, तद्यथा-हे मातः! हे पितरित्येवं तदर्थ शोकाकुलः | प्रलपति, तदर्जनपरश्च मोहमुपैति, रूपवानपि कण्डरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकष्ठिव इत्येवम-12 सावप्यसमाधिमान् मुह्यते(ति), यच्च तेन महता क्लेशेनापरप्राण्युपमर्देनोपार्जितं वित्तं तदन्ये जनाः 'से तस्थापहरन्ति जीवत एव १ कदा ब्रजति सार्थः किं भाण्डं कच. कियती भूमिः । २ उत्खनति खनति निहन्ति रात्रौ न खपिति दिवापि च सशंकः ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org