________________
सूत्रकृताङ्ग शीलाङ्काचार्यांय
तियुतं
॥१६७॥
सूत्रकृताङ्गं श्रीलाङ्काचाययचियुतं ॥१६८॥
112
अनौद्धत्यं उक्तम् च - "चुलुच्छलेई जं होइ ऊणयं रित्तयं कणकणेइ । भरियाई ण खुम्भंती सुपुरिसविभाणभंडाई || १ ||” उपयोगवीर्य साकारानाकारभेदात् द्विविधं तत्र साकारोपयोगोऽष्टधा नाकारचतुर्धा तेन चोपयुक्तः स्वचिपयस्य द्रव्यक्षेत्र कालभावरूपस्य परिच्छेदं विधत्त इति, तथा योगवीर्य त्रिविधं मनोवाक्कायभेदात्, तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तनं, मनसो वा एकली भावकरणं, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाच भवन्तीति, वाग्बीण तु भाषमाणोऽपुनरुक्तं निरवद्यं च भाषते, कायवीर्य तु यस्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति, तपोषीर्य द्वादशप्रकारं तपो पालादग्लायन् विधस इति, एवं सप्तदशविधे संयमे एकखाद्यध्यवसितस्य यद्धलात्प्रवृत्तिस्तत्संयमवीर्य, कथमहमतिचारं संयमे न प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मषीर्यमित्यादि च भाववीर्यमिति, बीर्यप्रवादपूर्वे चानन्तं वीर्य प्रतिपादितं किमिति ?, यतोऽनन्तार्थ पूर्व भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तब्या, तद्यथा- "सवणे ईणं जा होज वालुया गणणमागया सन्ती । तत्तो बहुयतरागो अत्थो एगस्स पुइस्स || १|| सबसेमुद्दाण जलं जइपत्थमियं हविअ संकलियं । एत्तो बहुयतरागो अत्थो एगस्स स्स ||२||" तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति । सर्वमप्येतद्वीर्यं त्रिघेति प्रतिपादयितुमाहसव्वंपिय तं तिविहं पंडिय बालबिरियं च मीसं च । अहवावि होति दुविहं अगारअणगारियं चेव ।। ९७ ।। सर्वमप्येतद्भावी पण्डितबालमित्रभेदात् त्रिविधं तत्रानगाराणां पण्डितवीर्य बालपण्डितवीर्यं खगाराणां गृहस्थानामिति, तत्र
१ बुबुच्छुलेइ प्र० । २ उद्गिरति यद्भवत्थूनके रिक्तकं कणकणति भूतानि न क्षुभ्यन्ते सुपुरुष विज्ञानभाण्डानि ॥ १ ॥ ३ सर्वासां नदीनां मावन्त्यो भवेयुर्माका गणनमागताः सत्यः ततो बहुतरोऽर्थं एकस्य पूर्वस्य ॥ १ ॥ ४ सर्वसमुद्राणां जलं यतिप्रमितं तत् भवेत्संकलितं ततो• ॥
यतीना पण्डितवीर्य सादिसपर्यवसितं सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तं, बालपण्डितवीर्य तु देशविरतिसद्भावकाले सादि सर्वविरतिसद्भावे तशे वा सपर्यवसानं, बालवीर्य खविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितं भव्यानां खनादिसपर्यवसितं सादिसपर्यवसितं तु विरतिभ्रंशात् सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्द्ध पुद्गल परावर्तात् विरतिसद्भावात्। सान्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गकस्य त्वसम्भव एव, यदिवा पण्डितवीर्यं सर्वविरतिलक्षणं विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशमलक्षणात्रिविधैव, अतो वीर्यमपि त्रिधैव भवति । गतो नामनिष्पन्नो निक्षेपः, तदनु सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदं
दुहा वेयं सुक्खायं, वीरियंति पवुच्चई । किं नु वारस्स वीरतं, कहं चेयं पच्चाई ? ॥ १ ॥ कम्ममेगे पवेदेति, अकम्मं वावि सुवया । एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया ॥ २ ॥
विधे-प्रकारावस्येति द्विविधं द्विप्रकारं, प्रत्यक्षासन्नवाचिखात् इदमो यदनन्तरं प्रकर्षेणोच्यते प्रोच्यते वीर्यं तद्विभेदं सुष्टाख्यातं । स्वाख्यातं तीर्थकरादिभिः, वा वाक्यालङ्कारे, तत्र 'ईर गतिप्रेरणयोः' विशेषेण ईरयति- प्रेरयति अहितं येन तद्वीर्यं जीवस्य शक्तिविशेष इत्यर्थः, तत्र, किं नु 'वीरस्य' सुभटस्य वीरखं १, केन वा कारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति - किं तद्वीर्य १, वीरस्य वा किं तद्वीरलमिति ॥ १ ॥ तत्र भेदद्वारेण वीर्य स्वरूपमाचिख्यासुराह - कर्म्म- क्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति यदिवा - कर्माष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहि - औदायिक भाव निष्पन्न कर्मेत्युपदिश्यते, औदयिकोऽपि च भावः कर्मादयनिप्पन्न एव बालवीर्य, द्वितीय मंदस्वयं-न विद्यत कमस्येत्यकर्मा - वीर्यान्तराय| क्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितं च, हे सुव्रता ! एवम्भूतं पण्डितवीर्य जानीत यूयं । आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितवाल पण्डित वीर्याभ्यां व्यवस्थितं वीर्यमित्युच्यते, यकाभ्यां च ययोर्वा व्यवस्थिता मर्त्येषु भवा मर्त्यः 'दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते वा, तथाहि - नानाविधासु क्रियासु प्रवर्तमानमुत्साइवलसंपनं मत्यं दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तत्रलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते दृश्यते चेति ॥ ॥ इह बालवीर्य कारणे कार्योपचारात्कर्मैव वीर्यत्वेनाभिहितं साम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मसेनापदिशमाह -
पमा कम्ममाहंसु, अप्पमायं तहावरं । तब्भावादेसओ वात्रि, वालं पंडियमेव वा ॥ ३॥ सत्थमेगे तु सिक्खता, अतिवायाय पाणिणं । एगे मंते अहिजंति, पाणभूयविहेडिणो ॥ ४ ॥ प्रमाद्यन्ति - सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो-मद्यादिः तथा चोक्तम् - "मजं विसयकसाया णिद्दा विगहा य पंचमी मणिया । एस पमायमाओ णिद्दिट्ठो वीयरागेहिं ॥ १ ॥" तमेवम्भूतं प्रमादं कर्मपादानभूतं कर्म 'आहुः '
Jain Education International
१] वीर्ययेऽस्य वोदय नियमात् शेषं त्वन्यथेत्युतरभेदे २ मयं विषयाः कपाया निद्रा विकथा च पंचमी भणिता ( एते पंच प्रमादा निर्दिष्टा ) एष प्रमादप्रमादो निर्दिशे वीतरागेः ॥ १ ॥
For Private Personal Use Only
८ वीर्याध्ययनं.
॥१६७॥
८ वीर्याध्ययनं.
॥१६८॥
www.jainelibrary.org