________________
शीलाङ्का
चाय
चियुर्त
॥ १६० ॥
107
द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात्, न चैवं दृष्टमिष्टं वा, अथ भावतस्ततो भाव एव प्रधानं किं लवणवर्जनेनेति, तथा 'ते' मूढा मद्यमांसं लशुनादिकं च शुक्ला 'अन्यत्र' मोक्षादन्यत्र संसारे वासम् - अवस्थानं तथाविधानुष्ठान सद्भावात् सम्यग्दर्शनज्ञानचारित्ररूपमोक्षमार्गस्याननुष्ठानाच्च 'परिकल्पयन्ति' समन्ता निष्पादयन्तीति ॥ १३ ॥ साम्प्रतं विशेषेण परिजिहीर्षुराहतथा ये केचन मूढा 'उदकेन' शीतवारिणा 'सिद्धिं' परलोकम् 'उदाहरन्ति' प्रतिपादयन्ति — 'सायम्' अपराह्ने विकाले वा 'प्रातश्च' प्रत्युषसि च आद्यन्तग्रहणात् मध्याह्ने च तदेवं सन्ध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकां क्रियां जलेन कुर्वन्तः प्राणिनो | विशिष्टां गतिमाप्नुवन्तीति केचनोदाहरन्ति एतच्चासम्यक् यतो यद्युदकस्पर्शमात्रेण सिद्धिः स्यात् तत उदकसमाश्रिता मत्स्यव न्धादयः क्रूरकर्माणो निरनुक्रोशा बहवः प्राणिनः सिद्धयेयुरिति यदपि तैरुच्यते - बाह्यमलापनयनसामर्थ्यमुदकस्य दृष्टमिति तदपि विचार्यमाणं न घटते, यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागं कुङ्कुमादिकमपनयति, ततश्च पुण्यस्यापनयनादिष्टविघातकाद्वरुद्धः स्यात्, किश्च यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव, तथा चोक्तम्- “स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, न ते स्त्रान्ति दमे रताः ।। १ ।। " अपिच - "नोदकक्लिन्नगात्रो हि, स्नात इत्यभिधीयते । स स्नातो यो व्रतस्त्रातः, स बाह्याभ्यन्तरः शुचिः ॥ १ ॥ " ॥ १४ ॥ किञ्च -
मच्छाय कुम्माय सिरीसिवा य, मग्गू य उट्ठा (ट्ठा) दगर क्खसा य । अट्ठाणमेयं कुसला वयंति,
१ अन्येषामपि भाषाशुद्धयापादकानां वर्जनीयखात्, मद्यमांसादिभोजित्वं वक्ष्यत्यमे ।
उदगेण जे सिद्धिमुदाहरति ॥ १५ ॥ उदयं जइ कम्ममलं हरेजा, एवं सुहं इच्छामित्तमेव । अंध व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा ॥ १६ ॥ पावाई कम्माई पकुचतो हि, सिओदगं तू जइ तं हरिज्जा । सिज्झिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ॥ १७ ॥ हुतेण जे सिद्धिमुदाहरति, सायं च पायं अगणिं फुसंता । एवं सिया सिद्धि हवेज तम्हा, अगणि फुसंताण कुकम्मिपि ॥ १८ ॥
यदि जलसम्पर्कात्सिद्धिः स्यात् ततो ये सततमुदकावगाहिनो मत्स्याश्च कूर्माश्र सरीसृपाश्च तथा मद्भवः तथोष्ट्रा - जलचरविशेषाः तथोदकराक्षसा - जलमानुषाकृतयो जलचरविशेषा एते प्रथमं सिद्धयेयुः, न चैतद्दृष्टमिष्टं वा, ततथ ये उदकेन सिद्धिमुदाहरन्त्येतद् 'अस्थानम्' अयुक्तम् - असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति ।। १५ ।। किश्वान्यत् — यद्युदकं कर्मम - लमपहरेदेवं शुभमपि पुण्यमपहरेत्, अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत्, अत इच्छामात्रमेवैतद्यदुच्यते—जलं कर्मापहा| रीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः सार्तमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं स्मार्तमार्गानुसारिणो जलशौचपरायणा 'मन्दा' अज्ञाः | कर्तव्या कर्तव्यविवेकविकलाः प्राणिन एव तन्मयान् तदाश्रितांथ पूतरकादीन् 'विनिघ्नन्ति' व्यापादयन्ति, अवश्यं जलक्रियया प्राणव्यपरोपणस्य सम्भवादिति ॥ १६ ॥ अपिच - 'पापानि' पापोपादानभूतानि कर्माणि' प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो | यत्कर्मोपचीयते तत्कर्म यद्युदकमपहरेत् यद्येवं स्यात् तर्हि हि यस्मादर्थे यस्मात्प्राण्युपमर्देन कर्मोपादीयते जलावगाहनाच्चापगच्छति तस्मादुदकसत्त्वघातिनः पापभूयिष्ठा अप्येवं सिद्धयेयुः, न चैतदृष्टमिष्टं वा, तस्माद्ये जलावगाहनात्सिद्धिमाहुः ते मृषा वदन्ति ॥ १७ ॥ किञ्चान्यत्- 'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यसाद्वाक्यात् 'ये' केचन मूढा 'हुतेन' अग्नौ इव्यप्रक्षेपेण 'सिद्धिं' सुगतिगमनादिकां स्वर्गावाप्तिलक्षणाम् 'उदाहरन्ति' प्रतिपादयन्ति, कथम्भूताः १ - ' सायम्' अपराह्ने विकाले वा 'प्रातश्च' प्रत्युषसि अग्निं 'स्पृशन्तः' यथेष्टैर्हव्यैरग्निं तर्पयन्तस्तत एव यथेष्टगतिमभिलषन्ति, आहुचैवं ते यथा -- अग्निकार्यात्स्यादेव सिद्धिरिति, तत्र च यद्येवमनिस्पर्शेन सिद्धिर्भवेत् ततस्तस्मादमिं संस्पृशतां 'कुकर्मिणाम्' अङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात्, यदपि च मन्त्रपूतादिकं तैरुदाह्रियते तदपि च निरन्तराः सुहृदः प्रत्येध्यन्ति यतः कुकर्मिणामध्यग्निकार्ये भस्मापादनमग्निहोत्रिकादीनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति, यदप्युच्यते - अग्निमुखा नै देवाः, एतदपि युक्तिविकललात् वामात्रमेव, विष्ठादिभक्षणेन चाग्नेस्तेषां बहुतरदोषोत्पत्तेरिति ॥ १८ ॥ उक्तानि पृथक् कुशीलदर्शनानि, अयमपरस्तेषां सामान्योपालम्भ इत्याह
ण
अपरिक्ख दिट्ठे हुएव सिद्धी, एहिंति ते घायमबुज्झमाणा । भूएहिं जाणं पडिलेह सातं, विजं गहायं तसथावरेहिं ॥ १९ ॥ थति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भि
Jain Education International
For Private Personal Use Only
७ इशीलपरिभाषा.
॥ १६० ॥
www.jainelibrary.org