________________
95
अथ श्रीवीरस्तुत्याख्यं षष्ठमध्ययनं प्रारभ्यते ॥
सूत्रकृताङ्गं शीलाङ्काचार्यायवृ. चियुतं
॥१४२॥
edeeseceseeeeeeeeeeer eeeeeeeeeeeeeeeeeeeeeeeeeeeeeees
उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-अत्रानन्तराध्ययने नरकविभक्तिः प्रतिपादिता, सा |च श्रीमन्महावीरवर्धमानखामिनाभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते शास्तुर्गुरुखेन शास्त्रस्य गरीयस्व-6 मितिकखा, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चखार्यनुयोगद्वाराणि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो महा| वीरगुणगणोत्कीर्तनरूपः । निक्षेपस्तु द्विधा ओघनिष्पन्नो नामनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु महावीर| स्तवः, तत्र महच्छब्दस्य वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा निर्देश' इतिकृखा पूर्व महच्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुले, यथा-महाजन इति, अस्ति बृहत्त्वे, यथा-महाघोषः, अस्त्यत्यर्थे, यथा-महाभयमिति, अस्ति प्राधान्ये, यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येतन्नियुक्तिकारो दर्शयितुमाह
पाहन्ने महसदो दव्वे खेत्ते य कालभावे य । वीरस्स उणिक्खेवो चउक्तओ होइ णायव्वो ॥ ८३ ॥
तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तच्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा प्राधान्यं, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा, सचित्तमपि द्विपदचतुष्पदा
१ पर्यायवात्तत्त्वतस्तस्यैवामिधानं यथा भाषाभिधानं वाक्यशुद्धौ वाक्यनिक्षेपे । पदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकं, यदिवा-इहैव ये
६श्रीमहाप्रत्यक्षा रूपरसगन्धस्पर्शेरुत्कृष्टाः पौण्डरीकादयः पदार्थाः अचित्तेषु वैडूर्यादयो नानाप्रभावा मणयो मिश्रेषु तीर्थकरो विभूपित | वीरस्तुत्य. इति, क्षेत्रतः प्रधाना सिद्धिर्धर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्र, कालतः प्रधानं खेकान्तसु|षमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदयिको वा, तत्रेह | द्वयेनाप्यधिकार इति । वीरस्य द्रव्यक्षेत्रकालभावभेदाचतुर्धा निक्षेपः, तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्यार्थ सङ्कामादावद्धतकर्मकारितया शूरो यदिवा–यत्किञ्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तद्यथा-तीर्थकृदनन्तबलवीर्यो लोकमलोके कन्दुकवत् प्रक्षेप्नुमलं तथा मन्दरं दण्डं कृखा रत्नप्रभा पृथिवीं छत्रवद्विभृयात, तथा चक्रवर्तिनोऽपि वलं 'दोसोला ब-10 |त्तीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्यमिति, क्षेत्रवीरस्तु यो पस्मिन् क्षेत्रेद्भुतकर्मकारी वीरो वा यत्र व्यावयेते, 16 | एवं कालेऽप्यायोज्यं, भाववीरो यस्य क्रोधमानमायालोभैः परीपहादिभिश्चात्मा न जितः, तथा चोक्तम्-"कोहं माणं च मायं च, 8 | लोभ पंचेंदियाणि य । दुजयं चेव अप्पाणं, सबमप्पे जिए जियं ॥१॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एक जिणेज अप्पाणं, एस से परमो जओ ॥ २॥ तथा-एको परिभमउ जए वियर्ड जिणकेसरी सलीलाए । कंदप्पदुहृदाढो मयणो विड्डारिओ जेणं ॥३॥" तदेवं वर्धमानखाम्येव परीषहोपसगैरनुकूलप्रतिकूलरपराजितोद्भुतकर्मकारिखेन गुणनिष्पनलात् भा
॥१४२॥ १ क्रोधो मानश्च माया च लोभश्च पञ्चेन्द्रियाणि च दुर्जयं चैवात्मनः सर्वमात्मनि जिते जितं ॥१॥ यः सहस्र सहस्राणां सङ्ग्रामे दुर्जय जयेत् । एकं जयेदात्मानं एष तस्य परमो जयः ॥ २ ॥ एकः परिश्राम्यतु जगति विकटं जिनकेसरी।स्वलीलया कन्दर्पदुष्दष्टः मदनो विदारितो येन ॥ ३॥ || वतो महावीर इति भण्यते, यदिवा-द्रव्यवीरो व्यतिरिक्त एकमविकादिः, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावर्ण्यते वा, कालतोs
प्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन् , स च वीरवर्धमानस्वाम्येवेति ॥ स्तवनिक्षेपार्थमाह-- | थुइणिक्खेवो चउहा आगंतुअभूसणेहिं दव्वथुती। भावे संताण गुणाण कित्तणा जे जहिं भणिया ॥ ८४॥ | 'स्तुतेः' स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत् , द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयूरसक्चन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु 'सद्भूतानां विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमि-|| ति ॥ साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिका गाथां नियुक्तिकृदाह
पुच्छिसु जंवुणामो अन्ज सुहम्मा तओ कहेसी य । एव महप्पा वीरो जयमाह तहा जएज्जाहि ॥ ८५॥
जम्बूस्वामी आर्यसुधर्मवामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान् , अतोऽसावपि भगवान् सुधर्मखाम्येवंगुणविशिष्टो | महावीर इति कथितवान् , एवं चासौ भगवान् संसारस्य 'जयम्' अभिभवमाह, ततो यूयमपि यथा भगवान् संसारं जितवान् तथैव यत्नं विधत्तेति ॥ साम्प्रत निक्षेपानन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुच्चारयितव्यं, तच्चेदम्
पुच्छिस्सु णं समणा माहणा य, अगारिणो या परतित्थिआ य । से केइ णेगंतहियं धम्ममाहु, अणेलिसं साहु समिक्खयाए ॥१॥ कहं च णाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी ? ।
PaSePRORE9%999999999999999999999999990093e
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org