________________
सूत्रकृताङ्ग शीलाङ्काचार्यय
तियुत
॥११९॥
सूत्रकृताङ्गं
शीलाङ्काचार्यीय
तियुतं
॥१२०॥
80
| राओवि उट्टिया संता, दारगं च संठवंति धाई वा । सुहिरामणा वि ते संता, वत्थधोवा हवंति हंसा वा १७ एवं बहुहिं कयपुत्रं भोगत्थाए जेऽभियावन्ना । दासे मिइव पेसे वा, पसुभूतेव सेण वा केई ॥ १८ ॥
रात्रावयुत्थिताः सन्तो रुदन्तं दारकं धात्रीवत् संस्थापयन्त्य ने क प्रकारैरुल्लापनैः, तद्यथा - "सामिओसि नगरस्स य णक्कउरस् य हत्थकप्पगिरिपट्टणसीहपुरस्स य उण्णयस्स निन्नस्स य कुच्छिपुरस्स य कण्णकुञ्ज आयामुहसोरियपुरस्स य" इत्येवमादिभिरसम्बद्धैः क्रीडनकालापैः स्त्रीचित्तानुवर्तिनः पुरुषास्तत् कुर्वन्ति येनोपहास्यतां सर्वस्य व्रजन्ति, सुष्ठु हीः- लज्जा तस्यां मनःअन्तःकरणं येषां ते सुहीमनसो - लज्जालवोऽपि ते सन्तो विहाय लजां स्त्रीवचनात्सर्वजघन्यान्यपि कर्माणि कुर्वते, तान्येव सूत्रावयवेन दर्शयति-- 'वस्त्रधावका' वस्त्रप्रक्षालका हंसा इव- रजका इव भवन्ति, अस्य चोपलक्षणार्थत्वादन्यदप्युदकवहनादिकं कुर्वन्ति ॥ १७ ॥ किमेतत्केचन कुर्वन्ति येनैवमभिधीयते ?, चाढं कुर्वन्तीत्याह- 'एव' मिति पूर्वोक्तं स्त्रीणामादेशकरणं पुत्रपो षणवस्त्रधावनादिकं तद्बहुभिः संसाराभिष्वङ्गिभिः पूर्वं कृतं कृतपूर्व तथा परे कुर्वन्ति करिष्यन्ति च ये 'भोगकृते' कामभोगामैहिकामुष्मिकापायभयमपर्यालोच्य आभिमुख्येन - भोगानुकूल्येन आपन्ना - व्यवस्थिताः सावद्यानुष्ठानेषु प्रतिपन्ना इतियावत्, तथा यो रागान्धः स्त्रीभिर्वशीकृतः स दासवदशङ्किताभिस्ताभिः प्रत्यपरेऽपि कर्मणि नियोज्यते, तथा वागुरापतितः परवशी मृग इव धार्यते, नात्मवशो भोजनादिक्रिया अपि कर्तुं लभते, तथा 'प्रेष्य इव' कर्मकर इव क्रयक्रीत इव वर्चःशोधना
१ स्वाम्यसि नगरस्य च नकपुरस्य च हस्तिकल्पगिरिपत्तनसिंहपरस्य उन्नतस्य निम्नस्य कुक्षिपुरस्य च कान्यकुब्जपितामहमुखशौर्य पुरस्य च ॥ दावपि नियोज्यते, तथा कर्तव्याकर्तव्य विवेकरहिततया हिताहितप्राप्तिपरिहारशून्यत्वात् पशुभूत इव, यथा हि पशुराहारभयमैथुनपरिग्रहाभिज्ञ एव केवलम् एवमसावपि सदनुष्ठानरहितत्वात्पशुकल्पः, यदिवा-स स्त्रीवशगो दास मृगप्रेष्यपशुभ्योऽप्यधमसान कश्चित् एतदुक्तं भवति - सर्वाधमत्वात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा न स कश्चिदिति, उभयभ्रष्टत्वात्, तथाहि न तावत्प्रत्रजितोऽसौ सदनुष्ठानरहितत्वात् नापि गृहस्थः ताम्बूलादिपरिभोगरहित खालो चिकामात्रधारिखाच्च यदिवा ऐहिकामुष्मिकानुष्ठायिनां मध्ये न कश्चिदिति ॥ १८ ॥ साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्ग परिहारमाह
एवं खु तासु विन्नप्पं, संथवं संवासं च वज्जेज्जा । तज्जातिआ इमे कामा, वज्जकरा य एवमक्खाए ॥१९॥ एयं भयं ण सेयाय, इइ से अप्पगं निरंभित्ता । णो इत्थि णो पसुं भिक्खु, णो सयं पाणिणा णिलिज्जेज्जा २०
'एतत्' पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम् उक्तं, तद्यथा-यदि | सकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकं, तथा स्त्रीभिः सार्धं 'संस्तवं' परिचयं तत्संवासं च स्त्रीभिः सहैकत्र निवासं चात्महितमनुवर्तमानः सर्वापायभीरुः 'त्यजेत्' जह्यात् यतस्ताभ्यो- रमणीभ्यो जातिः उत्पत्तिर्येषां तेऽमी कामास्तज्जातिका रमणीसम्पर्कोत्थास्तथा 'अवद्यं' पापं वज्रं वा गुरुत्वादधः पातकत्वेन पापमेव तत्करणशीला अवधकरा वज्रकरा वेत्येवम् 'आख्याताः' तीर्थकरगणधरादिभिः प्रतिपादिता इति ।। १९ ।। सर्वोपसंहारार्थमाह-'एवम्' अनन्तरनीत्या भयहेतुलात् स्त्रीभिर्विज्ञ तथा संस्तवस्तत्संवासश्च भयमित्यतः स्त्रीभिः सार्धं सम्पर्को न श्रेयसे असदनुष्ठानहेतुलात्तस्येत्येवं परिज्ञाय स भिक्षुरवगतकामभोगविपाक आत्मानं स्त्रीसम्पर्कान्निरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तद्दर्शयति-न स्त्रियं नरकवीथीप्रायां नापि पशुं 'लीयेत' आश्रयेत स्त्रीपशुभ्यां सह संवासं परित्यजेत् 'स्त्रीपशुपण्डकविवर्जिता शय्येतिवचनात् तथा स्वकीयेन 'पाणिना' हस्तेनावाच्यस्य 'न णिलिज्जेज'त्ति न सम्बाधनं कुर्यात् यतस्तदपि हस्तसम्बाधनं चारित्रं शबलीकरोति, यदिवास्त्रीपश्वादिकं स्वेन पाणिना न स्पृशेदिति ॥ २० ॥ अपि च
| सुविसुन्द्धलेसे मेहावी, पर किरिअं च वजए नाणी । मणसा वयसा कारणं, सबफाससहे अणगारे ॥२१॥ | इचेत्रमाहु से वीरे, धुअरए धुअमोहे से भिक्खू । तम्हा अज्झत्थविसुद्धे, सुविमुके आमोक्खाए परिवएजा सि ॥ २२ ॥ त्तित्रेमि ॥ इति श्रीइत्थीपरिन्ना चतुर्थाध्ययनं समत्तं ॥ ( गाथाग्र० ३०९ )
सुष्ठु विशेषेण शुद्धा स्त्रीसम्पर्कपरिहाररूपतया निष्कलङ्का लेश्या - अन्तःकरणवृत्तिर्यस्य स तथा स एवम्भूतो 'मेधावी' मर्यादावर्ती परम्मै ख्यादिपदार्थाय क्रिया परक्रिया - विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तां च 'ज्ञानी' विदितवेद्यो 'वर्जयेत्' परिहरेत्, एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुर्यात्राप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत् एतच परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत्, तथाहि--औदारिककामभोगार्थ मनसा न गच्छनि नान्यं गमयति गच्छन्तमपरं नानुजानीते एवं वाचा कायेन च सर्वेऽप्यौदारिके नव भेदाः, एवं दिव्येऽपि १ पा० बिहरे आमुक्खाए ।
Jain Education International
For Private Personal Use Only
४ स्त्रीपरिज्ञाध्य. उद्देशः २
॥११९ ॥
४ स्त्रीपरिज्ञाध्य.
उद्देशः २
॥१२०॥
www.jainelibrary.org