________________
धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव, यस्मात्स एव प्रधानपुरुषार्थः, प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति, ततश्च ये बाल्यात्प्रभृत्यकृतविषयासङ्गतया कृततपश्ररणाः ते 'धीराः कर्मविदारणसहिष्णयो अन्धनेन-स्नेहात्मकेन कर्मणा चोत् -प्राबल्येन मुक्ता नावकाक्षन्ति असंयमजीवितं, यदिवा-जीविने मरणे वा निःस्पृहाः संयमोधममतयो भवन्तीति ॥ १५॥ अन्यच
जहा नई वेयरणी, दुत्तरा इह संमता । एवं लोगंसि नारीओ, दुरुत्तरा अमईमया ॥ १६ ॥ जेहिं नारीण संजोगा, पूयणा पिठुलो कता । सबमेयं निराकिच्चा, ते ठिया सुसमाहिए ॥ १७ ॥ यथेत्युदाहरणोपन्यामार्थः, यथा बैतरणी नदीनां मध्येऽत्यन्तवेगवाहिखात् विपमतटबाच्च 'दुस्तरा' दुर्लकथा 'एवम्' अस्मिअपि लोके नार्यः 'अमतिमता' निर्विवेकेन हीनसत्वेन दुःखेनोत्तीर्यन्ते, तथाहि-ता हावभावैः कृतविद्यानपि स्वीकुर्वन्ति, तथा चोक्तम्-"सन्मार्गे तावदास्ते प्रभवति पुरस्तावदेवेन्द्रियाणां, लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव । भूचापाक्षेपमुक्ताः श्रवणपथजुपो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुपो दृष्टिबाणाः पतन्ति ॥१॥" तदेवं वैतरणीनदीवत् दुस्तरा नार्यो भवन्तीति ॥ १६ ॥ अपिच--'यैः उत्तमसत्त्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्त कटवो नारीसंयोगाः परि-11
त्यक्ताः, तथा तत्सङ्गार्थमेव वस्त्रालङ्कारनाल्यादिभिरात्मनः 'पूजना' कामविभूपा 'पृष्ठतः कृता' परित्यक्तेत्यर्थः, 'सर्वमेतत्' सूत्रकृताङ्ग स्त्रीप्रसङ्गादिक क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसे वितपन्थानं प्रति प्रवृत्तास्ते सुसमाधिना- ३ उपस शीलाङ्का- | स्वस्थचित्तवृत्तिरूपेण व्यवस्थिताः, नोपसर्गरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्ये तु विषयाभिष्वङ्गिणः स्यादिपरीपहपराजिता गाध्य. चाीय. |अङ्गारोपरिपतितमीनवद्रागामिना दह्यमाना असमाधिना तिष्ठन्तीति ॥ १७ ॥ स्यादिपरीपहपराजयस्य फलं दर्शयितुमाह- उद्देशः४ त्तियुत
एते ओघं तरिस्संति, समुदं ववहारिणो । जत्थ पाणा विसन्नासि, किच्चंती सयकम्मुणा ॥१८॥ ॥१०॥
तं च भिक्खू परिणाय, सुव्वते समिते चरे। मुसावायं च वजिज्जा, अदिन्नादाणं च वोसिरे ॥१९॥
उडमहे तिरियं वा, जे केई तसथावरा । सवत्थ विरतिं कुजा, ___ य पते अनन्तरोक्ता अनुकूल प्रतिकूलोपसर्गजेतार एते सर्वेऽपि 'ओ' संसारं दुस्तरमपि तरिष्यन्ति, द्रव्यौघदृष्टान्तमाह'समुद्र' लवणसागरमिव यथा 'व्यवहारिणः' सांयात्रिका यानपात्रेण तरन्ति, एवं भावोधमपि संसारं संयमयानपात्रेण यत. यस्तरिष्यन्ति, तथा तीर्णास्तरन्ति चेति, भावोधमेव विशिष्टि-'यत्र' यसिन् भावाचे संसारसागरे 'प्राणा' प्राणिनः स्त्रीविष| यसंगाद्विपण्णाः सन्तः 'कृत्यन्ते' पीड्यन्ते 'स्वकृतेन' आत्मनाऽनुष्ठितेन पापेन 'कर्मणा' असद्बदनीयोदयरूपेणेति ॥१८॥ साम्प्रतमुपसंहारव्याजेनोपदेशान्तरदित्सयाह-तदेतद्यत्प्रागुक्तं यथा-वैतरणीनदीवत् दुस्तरा नार्यो यैः परित्यक्तास्ते समाधिस्थाः संसारं तरन्ति, स्त्रीसङ्गिनश्च संसारान्तर्गताः स्वकृतकर्मणा कृत्यन्त इति, तदेतत्सर्वं भिक्षणशीलो भिक्षुः 'परिज्ञाय' हेयोपादेयतया बुध्ध्वा शोभनानि व्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः 'चरेत् संयमानुष्ठानं विदध्यात् , तथा 'मृषावादम्' असद्भूतार्थभाषणं विशेषेण वर्जयेत् , तथा 'अदत्तादानं च व्युत्सृजेदु' दन्तशोधनमात्रमप्यदत्तं न गृह्णीयात् , आदिग्रहणान्मैथुनादेः परिग्रह इति, तच मैथुनादिकं यावज्जीवमात्महितं मन्यमानः परिहरेत् ॥१९॥ अपरवतानामहिमाया वृत्तिकल्पखात् तत्प्राधान्यख्यापनार्थमाह-ऊर्ध्वमस्तिर्यवित्यनेन क्षेत्रमाणातिपातो गृहीतः, तत्र ये केचन वसन्तीति त्रमा द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावराः-पृथिव्यप्तेजोवायुवनस्पतयः सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्ना इति, अनेन च द्रव्यप्राणातिपातो गृहीतः, सर्वत्र काले सर्वास्ववस्थास्वित्यनेनापि कालभावभे-| दभिन्नः प्राणातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशस्वपि जीवस्थानेषु कृतकारितानुमतिभिर्मनोवाकायैः प्राणातिपातविरतिं | कुर्यादित्यनेन पादोनेनापि श्लोकद्वयेन प्राणातिपातविरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां 18 फलमुद्देशेनाह
संति निवाणमाहियं ॥२०॥ इमं च धम्ममादाय, कासवेण पवेदितं । कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥ २१ ॥४॥ संखाय पेसलं धम्म, दिट्टिमं परिनिबुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएजासि ॥२२॥
तिमि । इति उवसग्गपरित्राणामं तइयं अज्झयणं सम्मत्तं ॥ [गाथा २५६ ]
eeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeesisestroeccesekceecticeoececen
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org