________________
22
sersesese.
चियुतं
मूत्रकृताङ्गं
इत्यादि, 'ते' पुननियतिवादमाश्रित्यापि, भूयो विविध विशेषेण वा 'प्रगल्भिता धाष्टयोपगताः परलोकसाधकासु क्रियासु समया. सोलाडा- प्रवर्तते, धाष्टर्याश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीपु क्रियासु प्रवर्तनादिति, ते पुनः 'एवमप्युप- उद्देशः २ चार्याय-1 स्थिताः' परलोकसाधकासु क्रियासु प्रवृत्ता अपि सन्तो 'नात्मदुःखविमोक्षकाः' असम्यक्प्रवृत्तवान्नात्मानं दुःखाद्विमोचय- नियतिवान्ति । गता नियतिवादिनः ॥ ५॥ साम्प्रतमज्ञानिमतं दूषयितु दृष्टान्तमाह
दिमतं ॥३२॥
जविणो मिगा जहा संता, परिताणेण वजिआ । असंकियाइं संकंति, संकिआई असंकिणो ॥६॥ ___ यथा-'जविनो'वेगवन्तः सन्तो'मृगा' आरण्याः पशवः परि-समन्तात् त्रायते-रक्षतीति परित्राणं तेन वर्जिता-रहिताः, परित्राणविकला इत्यर्थः । यदिवा-परितान-बागुरादिबन्धनं तेन तर्जिता-भयं ग्राहिताः सन्तो भयोद्धान्तलोचनाः समा-81 कुलीभूतान्तःकरणाः सम्यग्विवेकविकला 'अशङ्कनीयानि' कूटपाशादिरहितानि स्थानान्यशङ्काहा॑णि तान्येव 'शङ्कन्ते' अनर्थोत्पादकलेन गृह्णन्ति । यानि पुनः 'शवाहा॑णि' शंका संजाता येषु योग्यखात्तानि शङ्कितानि-शङ्कायोग्यानि-वागुरादीनि तान्यशङ्किनः तेषु शङ्कामकुर्वाणाः, 'तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धः॥६॥पुनरप्येतदेवातिमोहाविष्करणायाहपरियाणिआणि संकेता, पासिताणि असंकिणो। अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं ॥७॥
॥३२॥ __ परित्रायते इति परित्राणं तज्जातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढखाद्विपर्यस्तबुद्धयः, त्रातर्यपि भयमुत्प्रेक्षमाणाः, तथा 'पाशितानि' पाशोपेतानि-अनर्थापादकानि 'अशकिन:' तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च 'संविग्ग'त्ति सम्यगव्याप्ता-वशीकृताः, शङ्कनीयमशङ्कनीयं वा तथा परित्राणोपेतं पाशाद्यनर्थोपेतं वा सम्यगविवेकेना-11 जानानाः 'तत्र तत्र' अनर्थबहुले पाशवागुरादिके बन्धने 'संपर्ययन्ते' सम्-एकीभावेन परि-समन्तादयन्ते यान्ति वा,
गच्छन्तीत्युक्तं भवति, तदेवं दृष्टान्तं प्रसाध्य नियतिवादाद्यकान्ताज्ञानवादिनो दार्टान्तिकखेनाऽऽयोज्याः, यतस्तेऽप्येकान्तवादिनो18 ज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोपविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युगमेनानाशङ्कनीयमनेकान्तवादमाशङ्कन्ते ।
शङ्कनीयं च नियत्यज्ञानवादमेकान्तं न शङ्कन्ते, 'ते' एवंभूताः परित्राणाहेऽप्यनेकान्तवादे शङ्का कुर्वाणा युक्त्या घटमानकमनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृहन्तोज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु संपर्ययन्त इति ॥७॥ पूर्वदोषैरतुष्यनाचार्यो | दोपान्तरदित्सया पुनरपि प्राक्तनदृष्टान्तमधिकृत्याऽऽह___ अह तं पवेज बझं, अहे बज्झस्स वा वए । मुच्चेज पयपासाओ, तं तु मंदे ण देहए ॥८॥
'अथ अनन्तरमसौ मृगस्तत् 'बज्झमिति' बद्धं-बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धन बन्धकखाद्वन्धमित्युच्यते, तदेIS भूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्लवेत् तदधस्तादतिक्रम्योपरि गच्छेत् , तस्य वादेबन्धनस्साधो (वा) गच्छेत् , तत एवं |
क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो-वागुरादिबन्धनं तस्मान्मुच्येत, यदिवा पद-कूटं पाशः-प्रतीतस्ताभ्यां मुच्येत, कचि-18 सत्पदपाशादीति पठ्यते, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं 'मन्दों' जडो-15
ज्ञानावृतो न 'देहती'ति न पश्यतीति ॥ ८॥ कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाहसूत्रकृताङ्ग अहिअप्पाऽहियपण्णाणे, विसमंतेणुवागते । स बद्धे पयपासेणं, तत्थ घायं नियच्छइ ॥९॥ १ समयाशीलासा1 स मृगोऽहितात्मा तथाऽहितं प्रज्ञानं-बोधो यस्य सोऽहितप्रज्ञानः, स चाहितप्रज्ञानः सन् 'विषमान्तेन' कूटपाशादियुक्तेन
उद्देशः २ चार्यायवृप्रदेशेनोपागतः, यदिवा-विषमान्ते-कूटपाशादिके आत्मानमंनुपातयेत् , तत्र चासौ पतितो बद्धश्च तेन कूटा देना पदपा-1
नियतिवात्तियुतं
दिमतं शादीननर्थबहुलानवस्थाविशेषान् प्राप्तः 'तत्र' बन्धने 'घातं' विनाशं 'नियच्छति' प्राप्नोतीति ॥९॥ एवं दृष्टान्तं प्रदर्श्य 81 मूत्रकार एव दार्टान्तिकमज्ञानविपार्क दर्शयितुमाह
एवं तु समणा एगे, मिच्छदिट्ठी अणारिआ । असंकिआई संकंति, संकिआई असंकिणो ॥१०॥
एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव 'श्रमणाः केचित् पाखण्डविशेषाश्रिताः एके |न सर्वे, किंभूतास्ते इति दर्शयति-मिथ्या-विपरीता दृष्टिर्येपामज्ञानवादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा 'अनार्याः'
आराद्याताः सर्वहेयधर्मेभ्य इति आर्याः न आर्या अनार्या अज्ञानावृतबादसदनुष्ठायिन इतियावत् । अज्ञानावृतवं च दर्शयति| "अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कमानाः, तथा 'शङ्कनीयानि' अपायबहुलानि एकान्तपक्षसमाश्रयIMणानि, अशङ्किनो मृगा इव मृढचेतसस्तत्तदाऽऽरभन्ते यादनाय संपद्यन्त इति ॥ १० ॥ शङ्कनीयाशङ्कनीयविपर्यासमाह
१० तेऽणुबायाए इति पाटमाश्रित्य ।
Restictioelesesesesecketseenetisesecseenesea
er den eneseseocacoecese
2000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org