SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ 21 Recenenercedenet पुरुषाद्भिन्नोऽभिन्नो वा?, यदि भित्रो न पुरुषाश्रिते सुखदुःखे कर्तुमलं, तसाद्भिन्नत्वादिति, नाप्यभिन्नः अभेदे पुरुष एव स्यात् , तस्य चाकर्तृवमुक्तमेव । नापि कर्मणः सुखदुःखं प्रति कर्तृवं घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्नं वा भवेत', अभिन्न | चेत्पुरुपमात्रतापत्तिः कमणः, तत्र चोक्तो दोषः, अथ भिन्न तरिक सचेतनमचेतनं वा?, यदि सचेतनमेकस्मिन् काये चैतन्यद यापत्तिः, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखोत्पादन प्रति कर्तृखमिति, एतश्चोत्तरत्र व्यासेन12 प्रतिपादयिष्यत इत्यलं प्रसङ्गेन । तदेवं सुखं 'सैद्धिकं' सिद्धौ-अपवगलक्षणायां भवं यदिवा दुःखम् -असातोदयलक्षणमसैद्धिकं | सांसारिक, यदिया उभयमप्येतत्सुखं दुःखं वा, सञ्चन्दनाङ्गनायुपभोगक्रियासिद्धौ भवं तथा कशाताडनाङ्कनादिसिद्धौ भवं सैद्धिक, तथा 'असद्धिक' सुखमान्तरमानन्दरूपमाकमिकमनवधारितबाह्यनिमित्तम् एवं दुःखमपि ज्वरशिरोऽतिशूलादिरूपमहोत्थमसद्धिकं, तदेतदुभयमपि न स्वयं पुरुषकारेण कृतं नाप्यन्येन केनचित् कालादिना कृतं 'वेद्यन्ति' अनुभवन्ति 'पृथक्जीवाः' प्राणिन इति । कथं तर्हि तत्तेपामभूत् ? इति नियतिवादी स्वाभिप्रायमाविष्करोति-"संगइयंति" सम्यक्स्वपरिणामेन गतिः| यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगतिः-नियतिस्तस्यां भवं सांगतिकं, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अत18स्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्यते,'इह' असिन् सुखदुःखानुभववादे एकेषां वादिनाम् 'आख्यातं तेषामयमभ्युप*गमः, तथा चोक्तम्-“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" ॥ ३ ॥ एवं श्लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह---- सूत्रकृताङ्ग एवमेयाणि जपता, वाला पंडिअमाणिणो। निययानिययं संतं, अयाणंता अबुद्धिया ॥ ४ ॥ १समया शीलाङ्का | उद्देशः २ चार्यायवृएवमेगे उ पासत्था, ते भुज्जो विप्पगभिआ। एवं उवट्ठिआ संता, ण ते दुक्खविमोक्खया ॥५॥६॥ नियतिवा. त्तियुतं दिमतं ॥३१॥ 'एवम्' इति अनन्तरोक्तस्योपप्रदर्शने 'एतानि' पूर्वोक्तानि नियतिवादाश्रितानि वचनानि 'जल्पन्तः' अभिदधतो बाला इव 'याला' अज्ञाः सदसद्विवेकविकला अपि सन्तः 'पण्डितमानिन' आत्मानं पण्डितं मन्तुं शीलं येषां ते तथा, किमिति त एवमुच्यत ? 1 इति तदाह-यतो निययानिययं संतमिति'सुखादिकं किश्चिनियतिकृतम्-अवश्यंभाव्युदयप्रापितं तथा अनियतम्-आत्मपुरुष कारेश्वरादिप्रापितं सत् नियतिकृतमेवैकान्तेनाश्रयन्ति,अतोऽजानानाः सुखदुःखादिकारणं अबुद्धिका-बुद्धिरहिता भवन्तीति,तथाहि10 आर्हतानां किञ्चित्सुखदुःखादि नियतित एव भवति-तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यंभाव्युदयसद्भावात्रियतिकृतमित्यु च्यते, तथा किञ्चिदनियतिकृतं च-पुरुषकारकालेश्वरस्वभावकर्मादिकृतं, तत्र कथश्चित्सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति, क्रिया च पुरुपकाराऽऽयत्ता प्रवर्तते, तथा चोक्तम्,-"न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । ॥३१॥ अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? ॥ १॥" यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणलेनोपन्यस्तं तददूषणमेव, यतस्त-18 त्रापि पुरुपकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति, समाने वा पुरुषकारे यः फलाभावः कस्यचिद्भवति सोऽदृष्टकृतः, तदपि चास्माभिः कारणखेनाश्रितमेव । तथा कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहकारादीनां विशिष्ट एव काले पुष्पफलाद्युद्भवो न सर्वदेति, यच्चोक्तं 'कालस्सैकरूपखाजगद्वैचित्र्यं न घटत' इति, तदस्मान् प्रति न दूषणं, यतोऽस्माभिन काल एवैकः कर्तृलेनाभ्युपगम्यते अपि तु कर्मापि, ततो जगद्वैचित्र्यमित्यदोषः । तथेश्वरोऽपि कर्ता, आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्वयापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकर्तृवं सर्ववादिनामविगानेन सिद्धमेव, यच्चात्र मूर्तामूर्तादिकं दूषणमुपन्यस्तं तदेवंभूतेश्वरसमाश्रयणे दूरोत्सादितमेवेति । स्वभावस्थापि कथश्चित्कर्तृखमेव, तथाहि-आत्मन उपयोगलक्षणखमसंख्येयप्रदेशवं पुद्गलानां च मूर्तख धर्माधर्मास्तिकाययोर्गतिस्थित्युपष्टम्भकारिखममूर्तवं चेत्येवमादि खभावापादितं, यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं | दूषणमुपन्यस्तं तददूषणमेव, यतः स्वभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपि च कर्तृखमभ्युपगतमेतदपि स्वभावापादितमेवेति । तथा कर्मापि कर्तृ भवत्येव, तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया व्यवस्थितं कथश्चिच्चात्मनोऽभिन्नं, तशाच्चात्मा नारकतिर्यमनुष्यामरभवेषु पर्यटन सुखदुःखादिकमनुभवतीति । तदेवं नियत्यनियत्योः कर्तृखे युक्त्युपपन्ने सति नियतेरेव कर्तृतमभ्युपगच्छन्तो निर्बुद्धिका भवन्तीत्यवसेयम् ॥ ४॥ तदेवं युक्त्या नियतिवादं षयिखा तद्वादिनामपायदर्शनायाह-'एव'मिति पूर्वाभ्युपगमसंसूचकः, सर्वसिन्नपि वस्तुनि नियतानियते सत्येके नियतिमेवावश्यंभाव्येव कालेश्वरादेनिराकरणेन निर्हेतुकतया | नियतिवादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः पुनस्ते इति दर्शयति-युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्थाः परलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्य, यदिवा-पाश इव पाशा-कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिताः पाशस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पार्श्वस्थाः पाशस्था वा द्रष्टव्या Poesesesesercersereeeeeeeeeeeeeeeeeeeeeeeeeeesecksesesesecticeseroesesectoes नियतित एव भवति तत्कादिकतं, तत्र कथञ्चित्सुखमा संचिन्त्य, त्यजेदुद्यममार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy