________________
सूत्रकृताङ्ग शीलाङ्काचाययतियुतं
॥ २५ ॥
199১9১9১৬৯
enter
17
त्पन्नस्थिरैकस्वभावले चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिसरणादिकं च न प्राप्नोति, यश्च्चोक्तं ' सदेवोत्पद्यते ' तदप्यसत्, यतो यदि सर्वथा सदेव कथमुत्पादः ?, उत्पादश्चेत् न तर्हि सर्वदा सदिति, तथा चोक्तम्- "कर्मगुणव्यपदेशाः प्रागुत्पत्तेर्न सन्ति यत्तस्मात् । कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेश्व कर्तृणाम् || १||" तस्मात्सर्वपदार्थानां कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वं सदसत्कार्यवादचेत्यवधार्य, तथा चाभिहितम् - "सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योवित्यपचित्योगक|तिजातिव्यवस्थानात् ॥ १ ॥” इति, तथा " नान्वयः स हि भेदवान भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिर्जात्यन्तरं घटः ॥ १ ॥ " ॥ १६ ॥ साम्प्रतं बौद्धमतं पूर्वपक्षयन्निर्युक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावयन्नाह -
पंच खंधे वयंतेगे, वाला उ खणजोइणो : अण्णो अणण्णो णेवाहु, हेउयं च अहेउयं ॥ १७ ॥
'एके' केचन वादिनो बौद्धाः 'पञ्च स्कन्धान् वदन्ति' रूपवेदना विज्ञानसंज्ञासंस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते नापरः कश्चिदात्माख्यः स्कंधोऽस्तीत्येवं प्रतिपादयन्ति तत्र रूपस्कन्धः पृथिवीधावादयो रूपादयश्च १ सुखा दुःखा अदुःखसुखा चेति वेदना वेदनास्कन्धः २ रूपविज्ञानं रसविज्ञानमि त्यादि विज्ञानं विज्ञानस्कन्धः ३ संज्ञास्कन्धः संज्ञानिमित्तोद्वाहणात्मकः प्रत्ययः ४ संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति ५ । न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्यभिचारिलिङ्गग्रहणाभावात्, नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बालायथाऽवस्थितार्थापरिज्ञानात् बौद्धाः प्रतिपादयन्ति तथा ते स्कन्धाः 'क्षणयोगिनः' परमनिरुद्धः कालः क्षणः क्षणेन योग:-सं
बन्धः क्षणयोगः स विद्यते येषां ते क्षणयोगिनः क्षणमात्रावस्थायिन इत्यर्थः तथा च तेऽभिदधति - स्वकारणेभ्यः पदार्थ उत्पद्य| मानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा ?, यद्य विनश्वरस्ततस्तद्वयापिन्याः क्रमयौगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभाव: प्रसजति, तथाहि यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽर्थक्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तेत यौगपद्येन वा ?, न तावत्क्रमेण यतो ह्येकस्या अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा न वा ?, यदि विद्यते किमिति क्रमकरणं १, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा ?, यदि क्रियते किं पूर्वस्वभाव परित्यागेनापरित्यागेन वा ?, यदि परित्यागेन ततोऽतादवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावात्किं सहकार्यपेक्षया ?, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते, तदयुक्तं, यतः - 'अपेक्षेत परं कश्विद्यदि कुर्वीत किञ्चन । यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते १ || १ ||" अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानिः, अथासौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणात् द्वित्तीयक्षणेऽकर्तृवमायातं, तथा च सैवानित्यता, अथ तस्य तत्स्वभावत्वात्ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदसाम्प्रतं, कृतस्य करणाभावादिति, किंच - द्वितीया दिक्षणसाध्या अप्यर्थाः प्रथमक्षण एवं प्राप्नुवन्ति, तस्य तत्स्वभा वखात्, अतत्स्वभावले च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयौगपद्याभ्यामर्थक्रिया विरहान स्वकारणेभ्यो नित्यस्योत्पाद इति । अथानित्यस्वभावः समुत्पद्यते, तथा च सति विनाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वं, तथा चोक्तम्- "जा|तिरेव हि भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च १ ॥ १ ॥” ननु च सत्यप्यनित्यत्वे यस्य
यदा विनाशहेतुसद्भावस्तस्य तदा विनाशः तथा च स्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकत्वमिति एतच्चा|नुपासित गुरोर्वचः, तथाहि - तेन मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते १, किमत्र प्रष्टव्यम् ? अमावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति ?, तत्र यदि पर्युदासस्ततोऽयमर्थो - भावाद| न्योऽभावो भावान्तरं - घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्गरादिव्यापारो न तर्हि तेन किञ्चिद् घटस्य कृतमिति, अथ प्रसज्यप्रतिषेधस्तदाऽयमर्थो - विनाशहेतुरभावं करोति, किमुक्तं भवति १ – भावं न करोतीति, ततश्च क्रियाप्रतिषे एव कृतः स्यात् न च घटादेः पदार्थस्य मुद्रादिना करणं, तस्य स्वकारणैरेव कृतत्वात्, अथ भावाभावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूपत्वात् कुतस्तत्र कारकाणां व्यापारः ?, अथ तत्रापि कारकव्यापारो भवेत् खरशृङ्गादावपि व्याप्रियेरन् कारका-| णीति । तदेवं विनाशहेतोरकिञ्चित्करत्वात् स्वहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाभावात् क्षणिकत्वमवस्थितमिति । तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धेन दर्शयति- 'अण्णो अणण्णो' इति ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा 'नैवाहुः' नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादित इतियावत् तथाऽहेतुकोऽनाद्यपर्यवसितत्खाभित्य इत्येवं तमात्मानं ते बौद्धा नाभ्युपगतवन्त इति ॥ १७॥ तथाऽपरे बौद्धाश्रातुर्धातुकमिदं जगदादुरित्येतद्दर्शयितुमाह
पुढवा आउ तेऊ य, तहा वाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसू आवरे ॥ १८ ॥
Jain Education International
For Private Personal Use Only
१ समयाध्ययने
अफवालदिवौद्धाः
॥ २५ ॥
www.jainelibrary.org