________________
6
१ समयाध्ययने अ
धिकाराः
STOORasa
॥८॥
मनमा स्थापने क्षुण्णे, द्रव्यषोडशक ज्ञशरीरभव्यशरीरविनिर्मुक्तं सचित्तादीनि षोडश द्रव्याणि, क्षेत्रपोडशकं पोडशाकाशप्रदेशाः, कालसोला पोडशकं पोडश समयाः एतत्कालावस्थायि वा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनपोडशकं, क्षायोपशमिकभाववृत्तिखाचार्याय
दिति । श्रुतस्कन्धयोः प्रत्येकं चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ २३ ।। साम्प्रतमध्ययनानां त्तियुतं
प्रत्येकमाधिकार दिदर्शयिषयाऽऽह
ससमयपरसमयपरूवंणा य णाऊण बुझणा चेव । संवुद्धस्सुवसग्गां थीदोसविवजणों चेव ॥ २४ ॥ ॥८॥ उवसग्गभीरुणो थीवसस्स णरएम होज उवाओ। एव महप्पा वीरो जयमाह तहा जएजाई ॥२५॥
परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवं चेव । णाऊण वीरियदुगं पंडियवीरिए पयट्टेइ (पयहिजो)॥२६॥ धम्मो समांहि मग्गो समोसढा उसु सव्ववादीसु । सीसगुणदोसकहणा "गंधमि सदा गुरुनिवासो ॥ २७ ॥ आदाणिय संकलिया आदोणीयंमि आदयचरितं । अप्परगंधे पिडियवयणेणं होइ अहिगारो ॥२८॥ तत्र प्रथमाध्ययने खसमयपरसमयप्ररूपणा, द्वितीये खसमयगुणान् परसमयदोषांश्च ज्ञाखा खसमय एव बोधो विधेय इति, तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे खयमाधिकारः, तद्यथा| उपसगोसहिष्णोः स्त्रीवंशवर्तिनोऽवश्यं नरकेषूपपात इति, षष्ठे पुनः 'एवमिति' अनुकूलप्रतिकूलोपसगेसहनेन खीदोषवजेनेन च | भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यत्नं विधच युयमिति शिष्याणामुपदेशो दीयते
१ श्रीवशगस्थ प्र. सप्तमे खिदमभिहितं, तद्यथा-निःशीला-गृहस्थाः कुशीलास्तु-अन्यतीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता येन साधुना स
परित्यक्तनिःशीलकुशील इति, तथा सुशीला-उद्युक्तविहारिणः संविग्नाः-संवेगमनास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमे. ka खेतत्प्रतिपाद्यते, तद्यथा-ज्ञाखा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधीयत इति, नवमे अर्थाधिकारस्त्वयं, तद्यथा-यथाऽवस्थितो धर्मः
कथ्यते, दशमे तु समाधिः प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे खयमर्थाधिकारः, तद्यथा-'समवस्ता' अवतीर्णा व्यवस्थिताश्चतुषु मतेषु क्रियाक्रियाऽज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषष्ट्युत्तरशतत्रयसंख्याः | पापण्डिनः खीयं खीयमर्थ प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे खिदमभिहितं, तद्यथासर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृलं साध्यते, चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्थाधिकारः, तद्यथा-शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्पदुपेतेन च विनेयेन नित्यं गुरुकुलवासो विधेय इति, पञ्चदशे * त्वादानीयाख्येऽध्ययनेर्थाधिकारोऽयं, तद्यथा-आदीयन्ते-गृह्यन्ते उपादीयन्ते इत्यादानीयानि-पदान्यर्था वा ते च प्रागुपन्यस्तपदैरथैश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं-सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमों व्यावर्ण्यते, तद्यथा-पञ्चदशभिरध्ययनर्योऽर्थोऽभिहितः सोऽत्र 'पिण्डितवचनेन' संक्षिप्ताभिधानेन प्रतिपाद्यत इति ॥ २८ ॥ गाहासोलसगाणं पिंडत्थो वणिओ समासेणं । इत्तो इक्किकं पुण अज्झयणं कित्तयिस्सामि॥१॥
१ गुणानुरूपगु. प्र. २ गाथाषोडशकानां पिण्डार्थो वर्णितः ( समुदायार्थः) समासेन । इत एकैकं पुनरध्ययनं कीर्तयिष्यामि ॥ १ ॥ ३ चूर्णिगाथा सूत्रकृताङ्गं तत्राद्यमध्ययनं समयाख्यं, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाज्नेन शास्त्र न्यासदेशशीलाङ्का- निक्षेपावसरमानीयत इत्युपक्रमः,स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षड्रप आवश्यकादिष्वेव प्रपश्चितः,शास्त्रीयो-| चार्याय
ऽप्यानुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवताररूपः पोव,तत्रानुपूर्व्यादीन्यनुयोगदारानुसारेण ज्ञेयानि तावद्यावत्समवतारः, त्तियुतं
तत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यं, तत्र दशविधायामानुपूर्त्यां गणनानुपूर्त्या समवतरति, ॥ सापि विधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययनं पूर्वानुपू॰ प्रथमं पश्चानुपूर्व्या षोडशम् अनानुपूर्ध्या तु
चिन्त्यमानमस्यामेवैकादिकायामेकोत्तरिकायां पोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति । अनापूर्ध्या
तु भेदसंख्यापरिज्ञानोपायोऽयं, तद्यथा-'एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः। राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् 18॥ १॥ प्रस्तारानयनोपायस्वयम्-"पुवाणुपुति हेहा समयाभेएण कुण जहाजेहं । उवरिमतुल्लं पुरओ नसेज पुवकमो सेसे ॥१"
तत्र-'गणितेऽन्त्यविभक्ते तु, लब्धं शेषविभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ॥१॥' अयं श्लोकः शिष्यहितार्थ विवियते-तत्र सुखावगमार्थ षट् पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते, तत्रैवं१२३४५६ षट् पदानि स्थाप्यानि, एतेषां परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते, तस्मिन् गणितेऽन्त्योऽत्र पदकः तेन भागे हृते विंशत्युत्तरं शतं लभ्यते, तच पण्णां पङ्कीनामन्त्यपङ्गौ पटकानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम् , एवमधोऽधश्चतुष्कत्रिकद्विकैककानां प्रत्येक विशत्युत्तरशतं न्यस्यम्, एवमन्त्यपको सप्त शतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यत्तदिशत्युत्तरं शनं लब्धं, तस्य च पुनः शेग पश्चकेन भागेऽपहृते लब्धा चतुर्विंशतिः, तावन्तस्तावन्तश्च पश्चकचतुष्कत्रिकद्विकैककाः
Recenecess
१ समयाध्ययने अनुयोगद्वाराणि
॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org