________________
276
श्रीआचाराङ्गवृत्तिः (शी०)
ROGRAHASKRISE
श्रुतस्क०२ |चूलिका २ शब्दसप्त
कका.
॥४१३॥
४-(११)
॥से मि० नो इहलोइएहिं सद्देहिं नो परलोइएहिं स० नो सुएहिं स० नो असुएहिं स० नो दिटेहिं सदेहिं नो अदिहेहिं स० नो कंतेहिं सद्देहिं सजिजा नो गिझिज्जा नो मुग्झिज्जा नो अझोववजिजा, एयं खलु. जाव जएजासि (सू० १७०) त्तिबेमि ॥ सहसत्तिक्कओ ।। २-२-४॥ स भिक्षः 'आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मान-प्रस्थकादिः उन्मानंनाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि चा, तथा महान्ति च तानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तद्वर्णनानि वा श्रवणप्रतिज्ञया| नाभिसन्धारयेद्गमनायेति ॥ किञ्च-कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ अपि च-स| भिक्षुः क्षुल्लिका 'दारिकां' डिक्करिकां मण्डितालङ्कृतां बहुपरिवृतां 'णिवुज्झमाणिं'ति अश्वादिना नीयमानां, तथैकं पुरुष वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छोष्यामीति श्रवणार्थ तत्र न गच्छेदिति ॥ स भिक्षुर्यान्येवं जानीयात् , महान्त्येतान्याश्रवस्थानानि-पापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति ॥ किञ्च-स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि || जानीयात्, तद्यथा-स्त्रीपुरुषस्थविरवालमध्यवयांस्येतानि भूपितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि || श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वोपसंहारार्थमाह-सः 'भिक्षुः' ऐहिकामुष्मिकापायभीरुः 'नो' नैव 'ऐहलोकिकैः' मनुष्यादिकृतैः 'पारलोकिकैः' पारापतादिकृतैरैहिकामुष्मिका शब्दैः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धरनुपलब्धैर्वा 'न सङ्गं कुर्यात्' न रागं गच्छेत् न गार्य प्रतिपद्येत न तेषु मुह्येत नाध्युपपन्नो भवेत् , एतत्तस्य भिक्षोः सामग्र्यं, शेषं पूर्ववत्, इह च सर्वत्रायं दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति ॥ चतुर्थसप्तककाध्ययनमादित एकादशं समाप्तम् ॥२-२-४-११॥
ARSANG
RA%A9
%
श्रीआचाराङ्गवृत्तिः (शी०)
अथ पश्चम रूपसप्तककमध्ययनम् । चतुर्थसप्तककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिनिषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्य-|| यनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनादृत्य द्रव्यभावनिक्षेपार्थ नियुक्तिकृद् गाथाऽर्द्धमाह
दव्वं संठाणाई भावो वन्न कसिणं सभावो य। [दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती य] ॥३२४ ।। ।। तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पञ्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधा-वर्णतः स्वभावतश्च, तत्र वर्णतः कृत्स्नाः पञ्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशाद्भूभङ्गललाटनयनारोपणनिष्ठुरवागादिकम् , एतद्विपरीतं प्रसनस्येति, उक्तञ्च-"रहस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ ॥१॥" सूत्रानुगमे सूत्रं, तच्चेदम्१ षटस्य खरा दृष्टिः उत्पलधवला प्रसन्नचित्तस्य । दुःखितस्यावम्लायति गन्तुमनस उत्सुका भवति ॥ १ ॥ से मि० अहावेगइयाई रुवाई पासइ, तं० गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघाइमाणि वा कटुकम्माणि वा पो- श्रुतस्क०२ त्थकम्माणि वा चित्तक० मणिकम्माणि वा दंतक० पत्तछिजकम्माणि वा विविहाणि वा वेढिमाई अन्नयराई. विरू० चक्खुदसणपडियाए नो अभिसंधारिज गमणाए, एवं नायव्वं जहा सहपडिमा सव्वा वाइत्तवज्जा रूवपडिमावि ।। (सू०
रूपसप्तै१७१ ) पञ्चमं सत्तिकयं ॥ २-२-५। | स भावभिक्षुः क्वचित् पर्यटन्नथैकानि-कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा-'ग्रथितानि' ग्रथितपुष्पादि
|५-(१२) निवर्तितस्वस्तिकादीनि 'वेष्टिमानि' वस्त्रादिनिर्वर्तितपुत्तलिकादीनि 'पूरिमाणि'त्ति यान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति 'संघातिमानि' चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि' विचित्रमणिनिष्पादितस्वस्तिकादीनि, तथा 'दन्तकर्माणि' दन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थः । एवं शब्दसप्तैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति ॥ पञ्चमं सप्तैककाध्ययनमादितो द्वादशं समाप्तमिति ॥२-२-५-१२॥
चूलिका २
॥४१४॥
कका.
RI४१४ ।।
अथ षष्ठं परक्रियाभिधं सप्सैककमध्ययनम् । साम्प्रतं पश्चमानन्तरं षष्ठः सप्तककः समारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org